भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.9

2.9.1

तारामयं भगवतः शिशुमाराकृति प्रभोः
दिवि रूपं हरेर् यत् तु तस्य पुच्छे स्थितो ध्रुवः ॥

2.9.2

एष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान्
भ्रमन्तम् अनु तं यान्ति नक्षत्राणि च चक्रवत् ॥

2.9.3

सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह
वातानीकमयैर् बन्धैर् ध्रुवे बद्धानि तानि वै ॥

2.9.4ab

शिशुमाराकृति प्रोक्तं यद् रूपं ज्योतिषां दिवि ॥

2.9.4ab*10

इत्य् एवं वायवः सप्त वहन्ति भुवनत्रयम् ॥

2.9.4cd

नारायणो ऽयनं धाम्नां तस्याधारः स्वयं हृदि ॥

2.9.5

उत्तानपादपुत्रस् तु तम् आराध्य जगत्पतिम्
सताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥

2.9.6

आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः
ध्रुवस्य शिशुमारश् च ध्रुवे भानुर् व्यवस्थितः ॥

2.9.7

तदाधारं जगच् चेदं सदेवासुरमानुषम् ॥

2.9.8

येन विप्र विधानेन तन् ममैकमनाः शृणु
विवस्वान् अष्टभिर् मासैर् आदायापो रसान्विताः
वर्षत्य् अम्बु ततश् चान्नम् अन्नाद् अप्य् अखिलं जगत् ॥

2.9.9

विवस्वान् अंशुभिस् तीक्ष्णैर् आदाय जगतो जलम्
सोमे मुञ्चत्य् अथेन्दुश् च वायुनाडीमयैर् दिवि
नालैर् विक्षिपते ऽभ्रेषु धूमाग्न्यनिलमूर्तिषु ॥

2.9.10

न भ्रश्यन्ति यतस् तेभ्यो जलान्य् अभ्राणि तान्य् अतः
अभ्रस्थाः प्रपतन्त्य् आपो वायुना समुदीरिताः
संस्कारं कालजनितं मैत्रेयासाद्य निर्मलाः ॥

2.9.11

सरित्समुद्रभौमास् तु तथापः प्राणिसंभवाः
चतुष्प्रकारा भगवान् आदत्ते सविता मुने ॥

2.9.12

आकाशगङ्गासलिलं तथादाय गभस्तिमान्
अनभ्रगतम् एवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥

2.9.13

तस्य संस्पर्शनिर्धूत पापपङ्को द्विजोत्तम
न याति नरकं मर्त्यो दिव्यं स्नानं हि तत् स्मृतम् ॥

2.9.14

दृष्टसूर्यं हि यद् वारि पतत्य् अभ्रैर् विना दिवः
आकाशगङ्गासलिलं तद् गोभिः क्षिप्यते रवेः ॥

2.9.15

कृत्तिकादिषु ऋक्षेषु विषमेष्व् अम्बु यद् दिवः
दृष्टार्कं पतितं ज्ञेयं तद् गाङ्गं दिग्गजोज्झितम् ॥

2.9.16

युग्मर्क्षेषु तु यत् तोयं पतत्य् अर्कोज्झितं दिवः
तत् सूर्यरश्मिभिः सद्यः समादाय निरस्यते ॥

2.9.17

उभयं पुण्यम् अत्यर्थं नृणां पापहरं द्विज
आकाशगङ्गासलिलं दिव्यं स्नानं महामुने ॥

2.9.18

यत् तु मेघैः समुत्सृष्टं वारि तत् प्राणिनां द्विज
पुष्णात्य् ओषधयः सर्वा जीवनायामृतं हि तत् ॥

2.9.19

तेन वृद्धिं परां नीतः सलिलेनौषधीगणः
साधकः फलपाकान्तः प्रजानां द्विज जायते ॥

2.9.20

तेन यज्ञान् यथाप्रोक्तान् मानवाः शास्त्रचक्षुषः
कुर्वन्त्य् अहरहस् तैश् च देवान् आप्याययन्ति ते ॥

2.9.21

एवं यज्ञाश् च वेदाश् च वर्णाश् च द्विजपूर्वकाः
सर्वे देवनिकायाश् च पशुभूतगणाश् च ये ॥

2.9.22

वृष्ट्या धृतम् इदं सर्वम् अन्नं निष्पाद्यते यया
सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम ॥

2.9.23

आधारभूतः सवितुर् ध्रुवो मुनिवरोत्तम
ध्रुवस्य शिशुमारो ऽसौ सो ऽपि नारायणाश्रयः ॥

2.9.24

हृदि नारायणस् तस्य शिशुमारस्य संस्थितः
बिभर्ता सर्वभूतानाम् आदिभूतः सनातनः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc