विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.6
ततश् च नरकान् विप्र भुवो ऽधः सलिलस्य च
पापिनो येषु पात्यन्ते ताञ् छृणुष्व महामुने ॥
रौरवः सूकरो रोधस् तालो विशसनस् तथा
महाज्वालस् तप्तकुम्भो लवणो ऽथ विलोहितः ॥
रुधिराम्भो वैतरणी कृमिशः कृमिभोजनः
असिपत्रवनं कृष्णो लालाभक्षश् च दारुणः ॥
तथा पूयवहः पापो वह्निज्वालो ह्य् अधःशिराः
संदंशः कृष्णसूत्रश् च तमश् चावीचिर् एव च ॥
श्वभोजनो ऽथाप्रतिष्ठो अवीचिश् च तथापरः
इत्य् एवमादयश् चान्ये नरका भृशदारुणाः ॥
यमस्य विषये घोराः शस्त्राग्निभयदायिनः
पतन्ति येषु पुरुषाः पापकर्मरतास् तु ये ॥
कूटसाक्षी तथासम्यक् पक्षपातेन यो वदेत्
यश् चान्यद् अनृतं वक्ति स नरो याति रौरवम् ॥
भ्रूणहा गुरुहन्ता च गोघ्नश् च मुनिसत्तम
यान्ति ते नरकं रोधं यश् चोच्छ्वासनिरोधकः ॥
सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूकरे
प्रयाति नरके यश् च तैः संसर्गम् उपैति वै ॥
राजन्यवैश्यहा ताले तथैव गुरुतल्पगः
तप्तकुम्भे स्वसागामी हन्ति राजभटांश् च यः ॥
साध्वीविक्रयकृद् बन्ध पालः केसरिविक्रयी
तप्तलोहे पतन्त्य् एते यश् च भक्तं परित्यजेत् ॥
स्नुषां सुतां चापि गत्वा महाज्वाले निपात्यते
अवमन्ता गुरूणां यो यश् चाक्रोष्टा नराधमः ॥
वेददूषयिता यश् च वेदविक्रयकश् च यः
अगम्यगामी यश् च स्यात् ते यान्ति लवणं द्विज ॥
चौरो विमोहे पतति मर्यादादूषकस् तथा ॥
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः
स याति कृमिभक्षे वै कृमिशे च दुरिष्टकृत् ॥
पितृदेवातिथीन् यस् तु पर्यश्नाति नराधमः
लालाभक्षे स यात्य् उग्रे शरकर्ता च वेधके ॥
करोति कर्णिनो यश् च यश् च खड्गादिकृन् नरः
प्रयान्त्य् एते विशसने नरके भृशदारुणे ॥
असत्प्रतिग्रहीता तु नरके यात्य् अधोमुखे
अयाज्ययाजकस् तत्र तथा नक्षत्रसूचकः ॥
वेगी पूयवहं चैको याति मिष्टान्नभुङ् नरः ॥
लाक्षामांसरसानां च तिलानां लवणस्य च
विक्रेता ब्राह्मणो याति तम् एव नरकं द्विज ॥
मार्जारकुक्कुटच्छाग श्ववराहविहंगमान्
पोषयन् नरकं याति तम् एव द्विजसत्तम ॥
अपूपविक्रयाच् चैव तथा पुस्तकविक्रयाः ॥
रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस् तथा
सूची माहिषिकश् चैव पर्वगामी च यो द्विजः ॥
अगारदाही मित्रघ्नः शाकुनिर् ग्रामयाजकः
रुधिरान्धे पतन्त्य् एते सोमं विक्रीणते च ये ॥
मधुहा ग्रामहन्ता च याति वैतरणीं नरः ॥
धनयौवनमत्तास् तु मर्यादाभेदिनो हि ये
ते कृष्णे यान्त्य् अशौचाश् च कुहकाजीविनश् च ये ॥
असिपत्रवनं याति वनच्छेदी वृथैव यः
औरभ्रिको मृगव्याधो वह्निज्वाले पतन्ति वै ॥
यान्त्य् एते द्विज तत्रैव यश् चापाकेषु वह्निदः ॥
व्रतेषु लोपको यश् च स्वाश्रमाद् विच्युतश् च यः
संदंशयातनामध्ये पततस् ताव् उभाव् अपि ॥
दिवा स्वप्नेषु स्कन्दन्ते ये नरा ब्रह्मचारिणः
पुत्रैर् अध्यापिता ये च ते पतन्ति श्वभोजने ॥
एते चान्ये च नरकाः शतशो ऽथ सहस्रशः
येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥
तथैव पापान्य् एतानि तथान्यानि सहस्रशः
भुज्यन्ते यानि पुरुषैर् नरकान्तरगोचरैः ॥
वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः
कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥
अधःशिरोभिर् दृश्यन्ते नारकैर् दिवि देवताः
देवाश् चाधोमुखान् सर्वान् अधः पश्यन्ति नारकान् ॥
स्थावराः कृमयो ऽब्जाश् च पक्षिणः पशवो नराः
धार्मिकास् त्रिदशास् तद्वन् मोक्षिणश् च यथाक्रमम् ॥
सहस्रभागप्रथमा द्वितीयानुक्रमास् तथा
सर्वे ह्य् एते महाभाग यावन् मुक्तिसमाश्रयाः ॥
यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः
पापकृद् याति नरकं प्रायश्चित्तपराङ्मुखः ॥
पापानाम् अनुरूपाणि प्रायश्चित्तानि यद् यथा
तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥
पापे गुरूणि गुरुणि स्वल्पान्य् अल्पे च तद्विदः
प्रायश्चित्तानि मैत्रेय जगुः स्वायंभुवादयः ॥
प्रायश्चित्तान्य् अशेषाणि तपःकर्मात्मकानि वै
यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम् ॥
कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते
प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥
प्रातर् निशि तथा संध्या मध्याह्नादिषु संस्मरन्
नारायणम् अवाप्नोति सद्यः पापक्षयं नरः ॥
विष्णुसंस्मरणात् क्षीण समस्तक्लेशसंचयः
मुक्तिं प्रयाति स्वर्गाप्तिस् तस्य विघ्नो ऽनुमीयते ॥
वासुदेवे मनो यस्य जपहोमार्चनादिषु
तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥
क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम्
क्व जपो वासुदेवेति मुक्तिबीजम् अनुत्तमम् ॥
तस्माद् अहर्निशं विष्णुं संस्मरन् पुरुषो मुने
न याति नरकं शुद्धः संक्षीणाखिलपातकः ॥
मनःप्रीतिकरः स्वर्गो नरकस् तद्विपर्ययः
नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ॥
वस्त्व् एकम् एव दुःखाय सुखायेर्ष्योद्भवाय च
कोपाय च यतस् तस्माद् वस्तु वस्त्वात्मकं कुतः ॥
तद् एव प्रीतये भूत्वा पुनर् दुःखाय जायते
तद् एव कोपाय यतः प्रसादाय च जायते ॥
तस्माद् दुःखात्मकं नास्ति न च किंचित् सुखात्मकम्
मनसः परिणामो ऽयं सुखदुःखादिलक्षणः ॥
ज्ञानम् एव परं ब्रह्म ज्ञानं बन्धाय चेष्यते
ज्ञानात्मकम् इदं विश्वं न ज्ञानाद् विद्यते परम् ॥
विद्याविद्येति मैत्रेय ज्ञानम् एवोपधारय ॥
एवम् एतन् मयाख्यातं भवतो मण्डलं भुवः
पातालानि च सर्वाणि तथैव नरका द्विज ॥
समुद्राः पर्वताश् चैव द्वीपा वर्षाणि निम्नगाः
संक्षेपात् सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0