भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.5

2.5.1

विस्तार एष कथितः पृथिव्या भवतो मया
सप्ततिस् तु सहस्राणि द्विजोच्छ्रायो ऽपि कथ्यते ॥

2.5.1*7:1

सप्तभूमिकविस्तारः प्रासादवद् अधोभुवः ॥

2.5.1*7:2

सप्तपातालव्यक्तिस् तु वर्ण्यते ऽनन्तमस्तके ॥

2.5.2

दशसाहस्रम् एकैकं पातालं मुनिसत्तम
अतलं वितलं चैव नितलं च गभस्तिमत्
महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम् ॥

2.5.3

शुक्लकृष्णारुणाः पीताः शर्कराः शैलकाञ्चनाः
भूमयो यत्र मैत्रेय वरप्रासादशोभिताः ॥

2.5.4

तेषु दानवदैतेय जातयः शतसंघशः
निवसन्ति महानाग जातयश् च महामुने ॥

2.5.5

स्वर्लोकाद् अपि रम्याणि पातालानीति नारदः
प्राह स्वर्गसदां मध्ये पातालाभ्यागतो दिवि ॥

2.5.6

आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः
नागाभरणभूषासु पातालं केन तत्समम् ॥

2.5.7

दैत्यदानवकन्याभिर् इतश् चेतश् च शोभिते
पाताले कस्य न प्रीतिर् विमुक्तस्यापि जायते ॥

2.5.8

दिवार्करश्मयो यत्र प्रभां तन्वन्ति नातपम्
शशिनश् च न शीताय निशि द्योताय केवलम् ॥

2.5.9

भक्ष्यभोज्यमहापान मुदितैर् अतिभोगिभिः
यत्र न ज्ञायते कालो गतो ऽपि दनुजादिभिः ॥

2.5.10

वनानि नद्यो रम्याणि सरांसि कमलाकराः
पुंस्कोकिलाभिलापाश् च मनोज्ञान्य् अम्बराणि च ॥

2.5.11

भूषणान्य् अतिशुभ्राणि गन्धाढ्यं चानुलेपनम्
वीणावेणुमृदङ्गानां स्वनास् तूर्याणि च द्विज ॥

2.5.12

एतान्य् अन्यानि चोदार भाग्यभोग्यानि दानवैः
दैत्योरगैश् च भुज्यन्ते पातालान्तरगोचरैः ॥

2.5.13

पातालानाम् अधश् चास्ते विष्णोर् या तामसी तनुः
शेषाख्या यद्गुणान् वक्तुं न शक्ता दैत्यदानवाः ॥

2.5.14

यो ऽनन्तः पठ्यते सिद्धैर् देवदेवर्षिपूजितः
सहस्रशिरसा व्यक्त स्वस्तिकामलभूषणः ॥

2.5.15

फणामणिसहस्रेण यः स विद्योतयन् दिशः
सर्वान् करोति निर्वीर्यान् हिताय जगतो ऽसुरान् ॥

2.5.16

मदाघूर्णितनेत्रो ऽसौ यः सदैवैककुण्डलः
किरीटी स्रग्धरो भाति साग्निः श्वेत इवाचलः ॥

2.5.17

नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः
साभ्रगङ्गाप्रपातो ऽसौ कैलासाद्रिर् इवोन्नतः ॥

2.5.18

लाङ्गलासक्तहस्ताग्रो बिभ्रन् मुसलम् उत्तमम्
उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया ॥

2.5.19

कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः
संकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् ॥

2.5.20

स बिभ्रच् छेखरीभूतम् अशेषं क्षितिमण्डलम्
आस्ते पातालमूलस्थः शेषो ऽशेषसुरार्चितः ॥

2.5.21

तस्य वीर्यं प्रभावश् च स्वरूपं रूपम् एव च
न हि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैर् अपि ॥

2.5.22

यस्यैषा सकला पृथ्वी फणामणिशिखारुणा
आस्ते कुसुममालेव कस् तद्वीर्यं वदिष्यति ॥

2.5.23

यदा विजृम्भते ऽनन्तो मदाघूर्णितलोचनः
तदा चलति भूर् एषा साद्रितोया सकानना ॥

2.5.24

गन्धर्वाप्सरसः सिद्धाः किंनरोरगचारणाः
नान्तं गुणानां गच्छन्ति तेनानन्तो ऽयम् अव्ययः ॥

2.5.25

यस्य नागवधूहस्तैर् लेपितं हरिचन्दनम्
मुहुः श्वासानिलापास्तं याति दिक्षूदवासताम् ॥

2.5.26

यम् आराध्य पुराणर्षिर् गर्गो ज्योतींषि तत्त्वतः
ज्ञातवान् सकलं चैव निमित्तपठितं फलम् ॥

2.5.27

तेनेयं नागवर्येण शिरसा विधृता मही
बिभर्ति मालां लोकानां सदेवासुरमानुषाम् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc