विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.4
क्षारोदेन यथा द्वीपो जम्बूसंज्ञो ऽभिवेष्टितः
संवेष्ट्य क्षारम् उदधिं प्लक्षद्वीपस् तथा स्थितः ॥
अथ प्लक्षादिकद्वीपान् वर्षाद्रिसरिदब्धिभिः ॥
वर्णरूपादिभेदेन वर्णयत्य् आकटाहतः ॥
जम्बूद्वीपस्य विस्तारः शतसाहस्रसंमितः
स एवं द्विगुणो ब्रह्मन् प्लक्षद्वीप उदाहृतः ॥
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै
ज्येष्ठः शान्तभयो नाम शिशिरस् तदनन्तरः ॥
सुखोदयस् तथानन्दः शिवः क्षेमक एव च
ध्रुवश् च सप्तमस् तेषां प्लक्षद्वीपेश्वरा हि ते ॥
पूर्वं शान्तभयं वर्षं शिशिरं सुखदं तथा
आनन्दं च शिवं चैव क्षेमकं ध्रुवम् एव च ॥
मर्यादाकारकास् तेषां तथान्ये वर्षपर्वताः
सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम ॥
गोमेदश् चैव चन्द्रश् च नारदो दुन्दुभिस् तथा
सोमकः सुमनाः शैलो वैभ्राजश् चैव सप्तमः ॥
वर्षाचलेषु रम्येषु वर्षेष्व् एतेषु चानघाः
वसन्ति देवगन्धर्व सहिताः सततं प्रजाः ॥
तेषु पुण्या जनपदाश् चिराच् च म्रियते जनः
नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥
तेषां नद्यश् च सप्तैव वर्षाणां तु समुद्रगाः
नामतस् ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥
अनुतप्ता शिखी चैव विपाशा त्रिदिवा क्रमुः
अमृता सुकृता चैव सप्तैतास् तत्र निम्नगाः ॥
एते शैलास् तथा नद्यः प्रधानाः कथितास् तव
क्षुद्रनद्यस् तथा शैलास् तत्र सन्ति सहस्रशः
ताः पिबन्ति सदा हृष्टा नदीर् जनपदास् तु ते ॥
अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी द्विज
न त्व् एवास्ति युगावस्था तेषु स्थानेषु सप्तसु ॥
त्रेतायुगसमः कालः सर्वदैव महामते
प्लक्षद्वीपादिषु ब्रह्मञ् शाकद्वीपान्तिकेषु वै ॥
पञ्चवर्षसहस्राणि जना जीवन्त्य् अनामयाः
धर्मः पञ्चस्व् अथैतेषु वर्णाश्रमविभागशः ॥
वर्णाश् च तत्र चत्वारस् तान् निबोध वदामि ते ॥
आर्यकाः कुरराश् चैव विविंशा भाविनश् च ये
विप्रक्षत्रियवैश्यास् ते शूद्राश् च मुनिसत्तम ॥
जम्बूवृक्षप्रमाणस् तु तन्मध्ये सुमहांस् तरुः
प्लक्षस् तन्नामसंज्ञो ऽयं प्लक्षद्वीपो द्विजोत्तम ॥
इज्यते तत्र भगवांस् तैर् वर्णैर् आर्यकादिभिः
सोमरूपी जगत्स्रष्टा सर्वः सर्वेश्वरो हरिः ॥
प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः
तथैवेक्षुरसोदेन परिवेषानुकारिणा ॥
इत्य् एष तव मैत्रेय प्लक्षद्वीप उदाहृतः
संक्षेपेण मया भूयः शाल्मलं मे निशामय ॥
शाल्मलस्येश्वरो वीरो वपुष्मांस् तत्सुताञ् छृणु
येषां तु नामसंज्ञानि सप्त वर्षाणि तानि वै ॥
श्वेतो ऽथ हरितश् चैव जीमूतो रोहितस् तथा
वैद्युतो मानसश् चैव सुप्रभश् च महामुने ॥
शाल्मलेन समुद्रो ऽसौ द्वीपेनेक्षुरसोदकः
विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः ॥
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः
वर्षाभिव्यञ्जकास् ते तु तथा सप्तैव निम्नगाः ॥
कुमुदश् चोन्नतश् चैव तृतीयश् च बलाहकः
द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥
कङ्कस् तु पञ्चमः षष्ठो महिषः सप्तमस् तथा
ककुद्मान् पर्वतवरः सरिन्नामानि मे शृणु ॥
योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी
निवृत्तिः सप्तमी तासां स्मृतास् ताः पापशान्तिदाः ॥
श्वेतं च हरितं चैव जीमूतं रोहितं तथा
वैद्युतं मानसं चैव सुप्रभं चातिशोभनम्
सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि वै ॥
शाल्मले ये तु वर्णाश् च वसन्त्य् एते महामुने
कपिलाश् चारुणाः पीताः कृष्णाश् चैव पृथक् पृथक् ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव यजन्ति तम्
भगवन्तं समस्तस्य विष्णुम् आत्मानम् अव्ययम्
वायुभूतं मखश्रेष्ठैर् यज्विनो यज्ञसंस्थितम् ॥
देवानाम् अत्र सांनिध्यम् अतीव सुमनोरमे
शाल्मलिश् च महावृक्षो नाम निर्वृतिकारकः ॥
एष द्वीपः समुद्रेण सुरोदेन समावृतः
विस्ताराच् छाल्मलस्यैव समेन तु समन्ततः ॥
सुरोदकः परिवृतः कुशद्वीपेन सर्वतः
शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ॥
ज्योतिष्मतः कुशद्वीपे सप्त पुत्रान् शृणुष्व तान् ॥
उद्भिदो वेणुमांश् चैव स्वैरथो लम्बनो धृतिः
प्रभाकरो ऽथ कपिलस् तन्नामा वर्षपद्धतिः ॥
तस्यां वसन्ति मनुजाः सह दैतेयदानवैः
तथैव देवगन्धर्व यक्षकिंपुरुषादयः ॥
वर्णास् तत्रापि चत्वारो निजानुष्ठानतत्पराः
दमिनः शुष्मिणः स्नेहा मन्देहाश् च महामुने ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चानुक्रमोदिताः ॥
यथोक्तकर्मकर्तृत्वात् स्वाधिकारक्षयाय ते
तत्र ते तु कुशद्वीपे ब्रह्मरूपं जनार्दनम्
यजन्तः क्षपयन्त्य् उग्रम् अधिकारफलप्रदम् ॥
विद्रुमो हेमशैलश् च द्युतिमान् पुष्पवांस् तथा
कुशेशयो हरिश् चैव सप्तमो मन्दराचलः ॥
वर्षाचलास् तु सप्तैते तत्र द्वीपे महामुने
नद्यश् च सप्त तासां तु शृणु नामान्य् अनुक्रमात् ॥
धूतपापा शिवा चैव पवित्रा संमतिस् तथा
विद्युद् अम्भा मही चान्या सर्वपापहरास् त्व् इमाः ॥
अन्याः सहस्रशस् तत्र क्षुद्रनद्यस् तथाचलाः
कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत् स्मृतम् ॥
तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः
घृतोदश् च समुद्रो वै क्रौञ्चद्वीपेन संवृतः ॥
क्रौञ्चद्वीपो महाभाग श्रूयतां चापरो महान्
कुशद्वीपस्य विस्ताराद् द्विगुणो यस्य विस्तरः ॥
क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः
तन्नामानि च वर्षाणि तेषां चक्रे महीपतिः ॥
कुशलो मनुगश् चोष्णः पीवरो ऽथान्धकारकः
मुनिश् च दुन्दुभिश् चैव सप्तैते तत्सुता मुने ॥
तत्रापि देवगन्धर्व सेविताः सुमनोरमाः
वर्षाचला महाबुद्धे तेषां नामानि मे शृणु ॥
क्रौञ्चश् च वामनश् चैव तृतीयश् चान्धकारकः
चतुर्थो रत्नशैलश् च स्वाहिनी हयसंनिभः ॥
दिवावृत् पञ्चमश् चात्र तथान्यः पुण्डरीकवान्
दुन्दुभिश् च महाशैलो द्विगुणास् ते परस्परम्
द्वीपा द्वीपेषु ये शैला यथा द्वीपानि ते तथा ॥
वर्षेष्व् एतेषु रम्येषु वर्षशैलवरेषु च
निवसन्ति निरातङ्काः सह देवगणैः प्रजाः ॥
पुष्कराः पुष्कला धन्यास् तिष्याख्याश् च महामुने
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चानुक्रमोदिताः ॥
ते तत्र नद्यो मैत्रेय याः पिबन्ति शृणुष्व ताः
सप्त प्रधानाः शतशस् तत्रान्याः क्षुद्रनिम्नगाः ॥
गौरी कुमुद्वती चैव संध्या रात्रिर् मनोजवा
ख्यातिश् च पुण्डरीका च सप्तैता वर्षनिम्नगाः ॥
अत्रापि वर्णैर् भगवान् पुष्कराद्यैर् जनार्दनः
यागै रुद्रस्वरूपस्थ इज्यते यज्ञसंनिधौ ॥
क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु
आवृतः सर्वतः क्रौञ्च द्वीपतुल्येन मानतः ॥
दधिमण्डोदकश् चापि शाकद्वीपेन संवृतः
क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन महामुने ॥
शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः
सप्तैव तनयास् तेषां ददौ वर्षाणि सप्त सः ॥
जलदश् च कुमारश् च सुकुमारो मणीचकः
कुसुमोदः सुमोदाकिः सप्तमश् च महाद्रुमः ॥
तत्संज्ञान्य् एव तत्रापि सप्त वर्षाण्य् अनुक्रमात्
तत्रापि पर्वताः सप्त वर्षविच्छेदकारिणः ॥
पूर्वस् तत्रोदयगिरिर् जलधारस् तथापरः
तथा रैवतकः श्यामस् तथैवाम्भोगिरिर् द्विज
आम्बिकेयस् तथा रम्यः केसरी पर्वतोत्तमः ॥
निवसन्ति महात्मानो निरातङ्का निरामयाः ॥
शाकस् तत्र महावृक्षः सिद्धगन्धर्वसेवितः
यत्पत्रवातसंस्पर्शाद् आह्लादो जायते परः ॥
तत्र पुण्या जनपदाश् चातुर्वर्ण्यसमन्विताः
नद्यश् चात्र महापुण्याः सर्वपापभयापहाः ॥
सुकुमारी कुमारी च नलिनी वेणुका च या
इक्षुश् च धेनुका चैव गभस्ती सप्तमी तथा ॥
अन्यास् त्व् अयुतशस् तत्र क्षुद्रनद्यो महामुने
महीधरास् तथा सन्ति शतशो ऽथ सहस्रशः ॥
ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्थिताः
वर्षेषु ते जनपदाः स्वर्गाद् अभ्येत्य मेदिनीम् ॥
धर्महानिर् न तेष्व् अस्ति न संघर्षः परस्परम्
मर्यादाव्युत्क्रमो वापि तेषु देशेषु सप्तसु ॥
मगाश् च मागधाश् चैव मानसा मन्दगास् तथा
मगा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास् तु ते
वैश्यास् तु मानसास् तेषां शूद्रास् तेषां तु मन्दगाः ॥
शाकद्वीपे तु तैर् विष्णुः सूर्यरूपधरो मुने
यथोक्तैर् इज्यते सम्यक् कर्मभिर् नियतात्मभिः ॥
शाकद्वीपस् तु मैत्रेय क्षीरोदेन समन्ततः
शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः ॥
क्षीराब्धिः सर्वतो ब्रह्मन् पुष्कराख्येन वेष्टितः
द्वीपेन शाकद्वीपात् तु द्विगुणेन समन्ततः ॥
पुष्करेणावृतो ब्रह्मन् क्षीरोदुसापि सर्वतः ॥
पुष्करे सवनस्यापि महावीरो ऽभवत् सुतः
धातकिश् च तयोस् तत्र द्वे वर्षे नामचिह्निते
महावीरं तथैवान्यद् धातकीखण्डसंज्ञितम् ॥
एकश् चात्र महाभाग प्रख्यातो वर्षपर्वतः
मानसोत्तरसंज्ञो वै मध्यतो वलयाकृतिः ॥
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशद् उच्छ्रितः
तावद् एव च विस्तीर्णः सर्वतः परिमण्डलः ॥
पुष्करद्वीपवलयं मध्येन विभजन्न् इव
स्थितो ऽसौ तेन विच्छिन्नं जातं वर्षद्वयं मुने ॥
वलयाकारम् एकैकं तयोर् वर्षं तथा गिरिः ॥
दश वर्षसहस्राणि तत्र जीवन्ति मानवाः
निरामया विशोकाश् च रागद्वेषविवर्जिताः ॥
अधमोत्तमौ न तेष्व् आस्तां न वध्यवधकौ द्विज
नेर्ष्यासूया भयं रोषो दोषो लोभादिको न च ॥
महावीरं बहिर् वर्षं धातकीखण्डम् अन्ततः
मानसोत्तरशैलस्य देवदैत्यादिसेवितम् ॥
सत्यानृते न तत्रास्तां द्वीपे पुष्करसंज्ञिते
न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते ॥
तुल्यवेषास् तु मनुजा देवैस् तत्रैकरूपिणः ॥
वर्णाश्रमाचारहीनं धर्माचरणवर्जितम्
त्रयीवार्तादण्डनीति शुश्रूषारहितं च यत् ॥
वर्षद्वयं तु मैत्रेय भौमः स्वर्गो ऽयम् उत्तमः
सर्वस्य सुखदः कालो जरारोगादिवर्जितः
पुष्करे धातकीषण्डे महावीरे च वै मुने ॥
न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानम् उत्तमम्
तस्मिन् निवसति ब्रह्मा पूज्यमानः सुरासुरैः ॥
स्वादूदकेनोदधिना पुष्करः परिवेष्टितः
समेन पुष्करस्यैव विस्तारान् मण्डलात् तथा ॥
एवं द्वीपाः समुद्रैस् तु सप्त सप्तभिर् आवृताः
द्वीपश् चैव समुद्रश् च समानौ द्विगुणौ परौ ॥
पयांसि सर्वदा सर्व समुद्रेषु समानि वै
न्यूनातिरिक्तता तेषां कदाचिन् नैव जायते ॥
स्थालीस्थम् अग्निसंयोगाद् उद्रेकि सलिलं यथा
तथेन्दुवृद्धौ सलिलम् अम्भोधौ मुनिसत्तम ॥
अन्यूनानतिरिक्ताश् च वर्धन्त्य् आपो ह्रसन्ति च
उदयास्तमयेष्व् इन्दोः पक्षयोः शुक्लकृष्णयोः ॥
दशोत्तराणि पञ्चैव अङ्गुलानां शतानि वै
अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां महामुने ॥
भोजनं पुष्करद्वीपे तत्र स्वयम् उपस्थितम्
षड्रसं भुञ्जते विप्र प्रजाः सर्वाः सदैव हि ॥
स्वादूदकस्य पुरतो दृश्यते ऽलोकसंस्थितिः
द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता ॥
लोकालोकस् ततः शैलो योजनायुतविस्तृतः
उच्छ्रायेणापि तावन्ति सहस्राण्य् अचलो हि सः ॥
ततस् तमः समावृत्य तं शैलं सर्वतः स्थितम्
तमश् चाण्डकटाहेन समन्तात् परिवेष्टितम् ॥
क्वचित् क्वचित् पुराणेषु विरोधो यदि लक्ष्यते ॥
कल्पभेदादिभिस् तत्र व्यवस्था सद्भिर् इष्यते ॥
पञ्चाशत्कोटिविस्तारा सेयम् उर्वी महामुने
सहैवाण्डकटाहेन सद्वीपाब्धिमहीधरा ॥
सेयं धात्री विधात्री च सर्वभूतगुणाधिका
आधारभूता सर्वेषां मैत्रेय जगताम् इति ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0