भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.3

2.3.1

उत्तरं यत् समुद्रस्य हिमाद्रेश् चैव दक्षिणम्
वर्षं तद् भारतं नाम भारती यत्र संततिः ॥

2.3.2

नवयोजनसाहस्रो विस्तारो ऽस्य महामुने
कर्मभूमिर् इयं स्वर्गम् अपवर्गं च गच्छताम् ॥

2.3.3

महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः
विन्ध्यश् च पारियात्रश् च सप्तात्र कुलपर्वताः ॥

2.3.4

अतः संप्राप्यते स्वर्गो मुक्तिम् अस्मात् प्रयान्ति च
तिर्यक्त्वं नरकं चापि यान्त्य् अतः पुरुषा मुने ॥

2.3.5

इतः स्वर्गश् च मोक्षश् च मध्यं चान्तश् च गम्यते
न खल्व् अन्यत्र मर्त्यानां कर्म भूमौ विधीयते ॥

2.3.6

भारतस्यास्य वर्षस्य नव भेदान् निशामय
इन्द्रद्वीपः कसेरुश् च ताम्रपर्णो गभस्तिमान् ॥

2.3.7

नागद्वीपस् तथा सौम्यो गान्धर्वस् त्व् अथ वारुणः
अयं तु नवमस् तेषां द्वीपः सागरसंवृतः ॥

2.3.8

योजनानां सहस्रं तु द्वीपो ऽयं दक्षिणोत्तरात्
पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥

2.3.9

ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश् च भागशः
इज्यायुधवणिज्याद्यैर् वर्तयन्तो व्यवस्थिताः ॥

2.3.10

शतद्रूचन्द्रभागाद्या हिमवत्पादनिःसृताः
वेदस्मृतिमुखाश् चान्याः पारियात्रोद्भवा मुने ॥

2.3.11

नर्मदासुरसाद्याश् च नद्यो विन्ध्याद्रिनिर्गताः
तापीपयोष्णीनिर्विन्ध्या प्रमुखा ऋक्षसंभवाः ॥

2.3.12

गोदावरी भीमरथी कृष्णवेण्यादिकास् तथा
सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥

2.3.13

कृतमालाताम्रपर्णी प्रमुखा मलयोद्भवाः
त्रिसामा ऋषिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥

2.3.14

ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसंभवाः
आसां नद्युपनद्यश् च सन्त्य् अन्याश् च सहस्रशः ॥

2.3.15

तास्व् इमे कुरुपाञ्चाला मध्यदेशादयो जनाः
पूर्वदेशादिकाश् चैव कामरूपनिवासिनः ॥

2.3.16

पुण्ड्राः कलिङ्गा मगधा दाक्षिणाद्याश् च कृत्स्नशः
तथापरान्ताः सौराष्ट्राः शूराभीरास् तथार्बुदाः ॥

2.3.17

कारूषा मालवाश् चैव पारियात्रनिवासिनः
सौवीराः सैन्धवा हूणाः साल्वाः शाकलवासिनः ॥

2.3.18

मद्रा रामास् तथाम्बष्ठाः पारसीकादयस् तथा
आसां पिबन्ति सलिलं वसन्ति सरितां सदा
समीपतो महाभागा हृष्टपुष्टजनाकुलाः ॥

2.3.19

चत्वारि भारते वर्षे युगान्य् अत्र महामुने
कृतं त्रेता द्वापरं च कलिश् चान्यत्र न क्वचित् ॥

2.3.20

तपस् तप्यन्ति यतयो जुह्वते चात्र यज्विनः
दानानि चात्र दीयन्ते परलोकार्थम् आदरात् ॥

2.3.21

पुरुषैर् यज्ञपुरुषो जम्बूद्वीपे सदेज्यते
यज्ञैर् यज्ञमयो विष्णुर् अन्यद्वीपेषु चान्यथा ॥

2.3.22

अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने
यतो हि कर्मभूर् एषा ह्य् अतो ऽन्या भोगभूमयः ॥

2.3.23

अत्र जन्मसहस्राणां सहस्रैर् अपि सत्तम
कदाचिल् लभते जन्तुर् मानुष्यं पुण्यसंचयात् ॥

2.3.24

गायन्ति देवाः किल गीतकानि धन्यास् तु ये भारतभूमिभागे
स्वर्गापवर्गास्पदहेतुभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥

2.3.25

कर्माण्य् असंकल्पिततत्फलानि संन्यस्य विष्णौ परमात्मरूपे
अवाप्य तां कर्ममहीम् अनन्ते तस्मिंल् लयं ये त्व् अमलाः प्रयान्ति ॥

2.3.26

जानीम नैतत् क्व वयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम्
प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीनाः ॥

2.3.27

नववर्षं तु मैत्रेय जम्बूद्वीपम् इदं मया
लक्षयोजनविस्तारं संक्षेपात् कथितं तव ॥

2.3.28

जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः
मैत्रेय वलयाकारः स्थितः क्षारोदधिर् बहिः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc