भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.2

2.2.1

कथितो भवता ब्रह्मन् सर्गः स्वायम्भुवस्य मे
श्रोतुम् इच्छाम्य् अहं त्वत्तः सकलं मण्डलं भुवः ॥

2.2.2

यावन्तः सागरा द्वीपास् तथा वर्षाणि पर्वताः
वनानि सरितः पुर्यो देवादीनां तथा मुने ॥

2.2.3

यत्प्रमाणम् इदं सर्वं यदाधारं यदात्मकम्
संस्थानम् अस्य च मुने यथावद् वक्तुम् अर्हसि ॥

2.2.4

मैत्रेय श्रूयताम् एतत् संक्षेपाद् गदतो मम
नास्य वर्षशतेनापि वक्तुं शक्नोमि विस्तरम् ॥

2.2.5

जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश् चापरो द्विज
कुशः क्रौञ्चस् तथा शाकः पुष्करश् चैव सप्तमः ॥

2.2.6

एते द्वीपाः समुद्रैस् तु सप्त सप्तभिर् आवृताः
लवणेक्षुसुरासर्पिर् दधिदुग्धजलैः समम् ॥

2.2.7

जम्बूद्वीपः समस्तानाम् एतेषां मध्यसंस्थितः
तस्यापि मेरुर् मैत्रेय मध्ये कनकपर्वतः ॥

2.2.8

चतुरशीतिसाहस्रो योजनैर् अस्य चोच्छ्रयः ॥

2.2.9

प्रविष्टः षोडशाधस्ताद् द्वात्रिंशन् मूर्ध्नि विस्तृतः
मूले षोडशसाहस्रो विस्तारस् तस्य सर्वतः ॥

2.2.10

भूपद्मस्यास्य शैलो ऽसौ कर्णिकाकारसंस्थितः ॥

2.2.11

हिमवान् हेमकूटश् च निषधश् चास्य दक्षिणे
नीलः श्वेतश् च शृङ्गी च उत्तरे वर्षपर्वताः ॥

2.2.12

लक्षप्रमाणौ द्वौ मध्यौ दशहीनास् तथापरे
सहस्रद्वितयोच्छ्रायास् तावद्विस्तारिणश् च ते ॥

2.2.13

भारतं प्रथमं वर्षं ततः किंपुरुषं स्मृतम्
हरिवर्षं तथैवान्यन् मेरोर् दक्षिणतो द्विज ॥

2.2.14

रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम्
उत्तराः कुरवश् चैव यथा वै भारतं तथा ॥

2.2.15

नवसाहस्रम् एकैकम् एतेषां द्विजसत्तम
इलावृतं च तन्मध्ये सौवर्णो मेरुर् उच्छ्रितः ॥

2.2.16

मेरोश् चतुर्दिशं तत्र नवसाहस्रविस्तृतम्
इलावृतं महाभाग चत्वारश् चात्र पर्वताः ॥

2.2.17ab

विष्कम्भा रचिता मेरोर् योजनायुतम् उच्छ्रिताः ॥

2.2.17ab*1

सर्वैः सरोभिश् च समं दिक्ष्व् एते केसराचलाः ॥

2.2.17cd

पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥

2.2.17ef

विपुलः पश्चिमे पार्श्वे सुपार्श्वश् चोत्तरे स्मृतः ॥

2.2.18

कदम्बस् तेषु जम्बूश् च पिप्पलो वट एव च
एकादशशतायामाः पादपा गिरिकेतवः ॥

2.2.19

जम्बूद्वीपस्य सा जम्बूर् नामहेतुर् महामुने
महागजप्रमाणानि जम्ब्वास् तस्याः फलानि वै
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥

2.2.20

रसेन तेषां प्रख्याता तत्र जम्बूनदीति वै
सरित् प्रवर्तते सा च पीयते तन्निवासिभिः ॥

2.2.21

न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः
तत्पानात् स्वच्छमनसां जनानां तत्र जायते ॥

2.2.22

तीरमृत् तद्रसं प्राप्य सुखवायुविशोषिता
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥

2.2.23

भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे
वर्षे द्वे तु मुनिश्रेष्ठ तयोर् मध्यम् इलावृतम् ॥

2.2.24

वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम्
वैभ्राजं पश्चिमे तद्वद् उत्तरे नन्दनं स्मृतम् ॥

2.2.25

अरुणोदं महाभद्रम् असितोदं समानसम्
सरांस्य् एतानि चत्वारि देवभोग्यानि सर्वदा ॥

2.2.26

शीतअम्भश् च कुमुन्दश् च कुररी माल्यवांस् तथा
वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः ॥

2.2.27

त्रिकूटः शिशिरश् चैव पतंगो रुचकस् तथा
निषधाद्या दक्षिणतस् तस्य केसरपर्वताः ॥

2.2.28

शिखिवासाः सवैडूर्यः कपिलो गन्धमादनः
जारुधिप्रमुखास् तद्वत् पश्चिमे केसराचलाः ॥

2.2.29

मेरोर् अनन्तराङ्गेषु जठरादिष्व् अवस्थिताः
शङ्खकूटो ऽथ ऋषभो हंसो नागस् तथापरः
कालञ्जनाद्याश् च तदा उत्तरे केसराचलाः ॥

2.2.29*2

केसरास् तु तथोच्छ्रायस् ते ऽशीतिपृथुलायताः ॥

2.2.30

चतुर्दशसहस्राणि योजनानां महापुरी
मेरोर् उपरि मैत्रेय ब्रह्मणः प्रथिता दिवि ॥

2.2.31

तस्याः समन्ततश् चाष्टौ दिशासु विदिशासु च
इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः ॥

2.2.32

विष्णुपादविनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम्
समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै दिवः ॥

2.2.33

सा तत्र पतिता दिक्षु चतुर्धा प्रतिपद्यते
सीता चालकनन्दा च चक्षुर् भद्रा च वै क्रमात् ॥

2.2.34

पूर्वेण सीता शैलात् तु शैलं यात्य् अन्तरिक्षगा
ततश् च पूर्ववर्षेण भद्राश्वेनैति सार्णवम् ॥

2.2.35

तथैवालकनन्दापि दक्षिणेनैत्य भारतम्
प्रयाति सागरं भूत्वा सप्तभेदा महामुने ॥

2.2.36

चक्षुश् च पश्चिमगिरीन् अतीत्य सकलांस् ततः
पश्चिमं केतुमालाख्यं वर्षं गत्वैति सागरम् ॥

2.2.37

भद्रा तथोत्तरगिरीन् उत्तरांश् च तथा कुरून्
अतीत्योत्तरम् अम्भोधिं समभ्येति महामुने ॥

2.2.38

आनीलनिषधायामौ माल्यवद्गन्धमादनौ
तयोर् मध्यगतो मेरुः कर्णिकाकारसंस्थितः ॥

2.2.39

भारताः केतुमालाश् च भद्राश्वाः कुरवस् तथा
पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ॥

2.2.40

जठरो देवकूटश् च मर्यादापर्वताव् उभौ
तौ दक्षिणोत्तरायामाव् आनीलनिषधायतौ ॥

2.2.41

गन्धमादनकैलासौ पूर्वपश्चायताव् उभौ
अशीतियोजनायामाव् अर्णवान्तर्व्यवस्थितौ ॥

2.2.42

निषधः पारियात्रश् च मर्यादापर्वताव् उभौ
मेरोः पश्चिमदिग्भागे यथापूर्वौ तथा स्थितौ ॥

2.2.43

त्रिशृङ्गो जारुधिश् चैव उत्तरौ वर्षपर्वतौ
पूर्वपश्चायताव् एताव् अर्णवान्तर्व्यवस्थितौ ॥

2.2.44

इत्य् एते मुनिवर्योक्ता मर्यादापर्वतास् तव
जठराद्याः स्थिता मेरोस् येषां द्वौ द्वौ चतुर्दिशम् ॥

2.2.45

मेरोश् चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः
शीताद्याश् च मुने तेषाम् अतीव हि मनोरमाः
शैलानाम् अन्तरद्रोण्यः सिद्धचारणसेविताः ॥

2.2.46

सुरम्याणि तथा तासु काननानि पुराणि च
लक्ष्मीविष्ण्वग्निसूर्यादि देवानां मुनिसत्तम
तास्व् आयतनवर्याणि जुष्टानि वरकिंनरैः ॥

2.2.47

गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः
क्रीडन्ति तासु रम्यासु शैलद्रोणीष्व् अहर्निशम् ॥

2.2.48

भौमा ह्य् एते स्मृताः स्वर्गा धर्मिणाम् आलया मुने
नैतेषु पापकर्तारो यान्ति जन्मशतैर् अपि ॥

2.2.49

भद्राश्वे भगवान् विष्णुर् आस्ते हयशिरा द्विज
वराहः केतुमाले तु भारते कूर्मरूपधृक् ॥

2.2.50

मत्स्यरूपश् च गोविन्दः कुरुष्व् आस्ते जनार्दनः
विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः ॥

2.2.51

सर्वस्याधारभूतो ऽसौ मैत्रेयास्ते ऽखिलात्मकः ॥

2.2.52

यानि किंपुरुषाद्यानि वर्षाण्य् अष्टौ महामुने
न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम् ॥

2.2.53

स्वस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः
दश द्वादशवर्षाणां सहस्राणि स्थिरायुषः ॥

2.2.54

न तेषु वर्षते देवो भौमान्य् अम्भांसि तेषु वै
कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना ॥

2.2.55

सर्वेष्व् एतेषु वर्षेषु सप्त सप्त कुलाचलाः
नद्यश् च शतशस् तेभ्यः प्रसूता या द्विजोत्तम ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc