विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.1
भगवन् सर्वम् आख्यातं ममैतद् अखिलं त्वया
जगतः सर्गसंबन्धि यत् पृष्टो ऽसि गुरो मया ॥
यो ऽयम् अंशो जगत्सृष्टि संबन्धो गदितस् त्वया
तत्राहं श्रोतुम् इच्छामि भूयो ऽपि मुनिसत्तम ॥
प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ
तयोर् उत्तानपादस्य ध्रुवः पुत्रस् त्वयोदितः ॥
प्रियव्रतस्य नैवोक्ता भवता द्विज संततिः
ताम् अहं श्रोतुम् इच्छामि प्रसन्नो वक्तुम् अर्हसि ॥
कर्दमस्यात्मजां कन्याम् उपयेमे प्रियव्रतः
सम्राट् कुक्षिश् च तत्कन्ये दशपुत्रास् तथापरे ॥
महाप्रज्ञा महावीर्या विनीता दयिताः पितुः
प्रियव्रतसुताः ख्यातास् तेषां नामानि मे शृणु ॥
आग्नीध्रश् चाग्निबाहुश् च वपुष्मान् द्युतिमांस् तथा
मेधा मेधातिथिर् भव्यः सवनः पुत्र एव च ॥
ज्योतिष्मान् दशमस् तेषां सत्यनामा सुतो ऽभवत्
प्रियव्रतस्य पुत्राणां प्रख्याता बलवीर्यतः ॥
मेधाग्निबाहुपुत्रास् तु त्रयो योगपरायणाः
जातिस्मरा महाभागा न राज्याय मनो दधुः ॥
निर्ममाः सर्वकालं तु समस्तार्थेषु वै मुने
चक्रुः क्रिया यथान्यायम् अफलाकाङ्क्षिणो हि ते ॥
प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम
विभज्य सप्त द्वीपानि मैत्रेय सुमहात्मनाम् ॥
जम्बूद्वीपं महाभाग सो ऽग्नीध्राय ददौ पिता
मेधातिथेस् तथा प्रादात् प्लक्षद्वीपम् अथापरम् ॥
शाल्मले च वपुष्मन्तं नरेन्द्रम् अभिषिक्तवान्
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान् प्रभुः ॥
द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत्
शाकद्वीपेश्वरं चापि भव्यं चक्रे प्रियव्रतः ॥
पुष्कराधिपतिं चक्रे सवनं चापि स प्रभुः
जम्बूद्वीपेश्वरो यस् तु आग्नीध्रो मुनिसत्तम
तस्य पुत्रा बभूवुस् ते प्रजापतिसमा नव ॥
नाभिः किंपुरुषश् चैव हरिवर्ष इलावृतः
रम्यो हिरण्वान् षष्ठस् तु कुरुर् भद्राश्व एव च
केतुमालस् तथैवान्यः साधुचेष्टो नृपो ऽभवत् ॥
जम्बूद्वीपविभागांस् तु तेषां विप्र निशामय
पित्रा दत्तं हिमाह्वं तु वर्षं नाभेस् तु दक्षिणम् ॥
हेमकूटं तथा वर्षं ददौ किंपुरुषाय सः
तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान् ॥
इलावृताय प्रददौ मेरुर् यत्र तु मध्यमे
नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता ॥
श्वेतं यद् उत्तरं तस्मात् पित्रा दत्तं हिरण्वते ॥
यद् उत्तरं शृङ्गवतो वर्षं तत् कुरवे ददौ
मेरोः पूर्वेण यद् वर्षं भद्राश्वाय प्रदत्तवान् ॥
गन्धमादनवर्षं तु केतुमालाय दत्तवान्
इत्य् एतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः ॥
वर्षेष्व् एतेषु तान् पुत्रान् अभिषिच्य स भूपतिः
सालग्रामं महापुण्यं मैत्रेय तपसे ययौ ॥
यानि किंपुरुषादीनि वर्षाण्य् अष्टौ महामुने
तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्य् अयत्नतः ॥
विपर्ययो न तेष्व् अस्ति जरामृत्युभयं न च
धर्माधर्मौ न तेष्व् आस्तां नोत्तमाधममध्यमाः ॥
न तेष्व् अस्ति युगावस्था क्षेत्रेष्व् अष्टसु सर्वदा
हिमाह्वयं तु वै वर्षं नाभेर् आसीन् महात्मनः
तस्यर्षभो ऽभवत् पुत्रो मेरुदेव्यां महाद्युतिः ॥
ऋषभाद् भरतो जज्ञे ज्येष्ठः पुत्रशतस्य सः
कृत्वा राज्यं स्वधर्मेण तथेष्ट्वा विविधान् मखान् ॥
अभिषिच्य सुतं वीरं भरतं पृथिवीपतिः
तपसे स महाभागः पुलहस्याश्रमं ययौ ॥
वानप्रस्थविधानेन तत्रापि कृतनिश्चयः
तपस् तेपे यथान्यायम् इयाज स महीपतिः ॥
तपसा कर्षितो ऽत्यर्थं कृशो धमनिसंततः
नग्नो वीटां मुखे दत्त्वा वीराध्वानं ततो गतः ॥
ततश् च भारतं वर्षम् एतल् लोकेषु गीयते
भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ॥
सुमतिर् भरतस्याभूत् पुत्रः परमधार्मिकः
कृत्वा सम्यग् ददौ तस्मै राज्यम् इष्टमखः पिता ॥
पुत्रसंक्रामितश्रीस् तु भरतः स महीपतिः
योगाभ्यासरतः प्राणान् सालग्रामे ऽत्यजन् मुने ॥
अजायत च विप्रो ऽसौ योगिनां प्रवरे कुले
मैत्रेय तस्य चरितं कथयिष्यामि ते पुनः ॥
सुमतेस् तेजसस् तस्माद् इन्द्रद्युम्नो व्यजायत
परमेष्ठी ततस् तस्मात् प्रतिहारस् तदन्वयः ॥
प्रतिहर्तेति विख्यात उत्पन्नस् तस्य चात्मजः
भुवस् तस्माद् अथोद्गीथः प्रस्तावस् तत्सुतो विभुः ॥
पृथुस् ततस् ततो नक्तो नक्तस्यापि गयः सुतः
नरो गयस्य तनयस् तत्पुत्रो ऽभूद् विराट् ततः ॥
तस्य पुत्रो महावीर्यो धीमांस् तस्माद् अजायत
महान्तो ऽपि ततश् चाभून् मनस्युस् तस्य चात्मजः ॥
त्वष्टा त्वष्टुश् च विरजो रजस् तस्याप्य् अभूत् सुतः
शतजिद् रजसस् तस्य जज्ञे पुत्रशतं मुने ॥
विष्वग्ज्योतिःप्रधानास् ते यैर् इमा वर्धिताः प्रजाः
तैर् इदं भारतं वर्षं नवभेदम् अलंकृतम् ॥
तेषां वंशप्रसूतैस् तु भुक्तेयं भारती पुरा
कृतत्रेतादिसर्गेण युगाख्या ह्य् एकसप्ततिः ॥
एष स्वायंभुवः सर्गो येनेदं पूरितं जगत्
वाराहे तु मुने कल्पे पूर्वमन्वन्तराधिपः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0