विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.15
इत्य् उक्ते मौनिनं भूयश् चिन्तयानं महीपतिम्
प्रत्युवाचाथ विप्रो ऽसाव् अद्वैतान्तर्गतां कथाम् ॥
श्रूयतां नृपशार्दूल यद् गीतम् ऋभुणा पुरा
अवबोधं जनयता निदाघस्य द्विजन्मनः ॥
ऋभुर् नामाभवत् पुत्रो ब्रह्मणः परमेष्ठिनः
विज्ञाततत्त्वसद्भावो निसर्गाद् एव भूपते ॥
प्रमाणतर्कतः सम्यक् माने मेये ऽपि निश्चिते ॥
तस्य शिष्यो निदाघो ऽभूत् पुलस्त्यतनयः पुरा
प्रादाद् अशेषविज्ञानं स तस्मै परया मुदा ॥
अवाप्तज्ञानतत्त्वस्य न तस्याद्वैतवासनाम्
स ऋभुस् तर्कयाम् आस निदाघस्य नरेश्वर ॥
देविकायास् तटे वीर नगरं नाम वै पुरम्
समृद्धम् अतिरम्यं च पुलस्त्येन निवेशितम् ॥
रम्योपवनपर्यन्ते स तस्मिन् पार्थिवोत्तम
निदाघो नाम योगज्ञ ऋभुशिष्यो ऽवसत् पुरा ॥
दिव्ये वर्षसहस्रे तु समतीते ऽस्य तत् पुरम्
जगाम स ऋभुः शिष्यं निदाघम् अवलोकितुम् ॥
स तस्य वैश्वदेवान्ते द्वारालोकनगोचरे
स्थितस् तेन गृहीतार्घो निजवेश्मप्रवेशितः ॥
प्रक्षालिताङ्घ्रिपाणिं च कृतासनपरिग्रहम्
उवाच स द्विजश्रेष्ठो भुज्यताम् इति सादरम् ॥
भो विप्रवर्य भोक्तव्यं यद् अन्नं भवतो गृहे
तत् कथ्यतां कदन्नेषु न प्रीतिः सततं मम ॥
सक्तुयावकवाट्यानाम् अपूपानां च मे गृहे
यद् रोचते द्विजश्रेष्ठ तत् त्वं भुङ्क्ष्व यथेच्छया ॥
कदन्नानि द्विजैतानि मिष्टम् अन्नं प्रयच्छ मे
संयावपायसादीनि द्रप्सफाणितवन्ति च ॥
हे हे शालिनि मद्गेहे यत् किंचिद् अतिशोभनम्
भक्ष्योपसाधनं मिष्टं तेनास्यान्नं प्रसाधय ॥
इत्य् उक्ता तेन सा पत्नी मिष्टम् अन्नं द्विजस्य यत्
प्रसाधितवती तद् वै भर्तुर् वचनगौरवात् ॥
तं भुक्तवन्तम् इच्छातो मिष्टम् अन्नं महामुनिम्
निदाघः प्राह भूपाल प्रश्रयावनतः स्थितः ॥
अपि ते परमा तृप्तिर् उत्पन्ना तुष्टिर् एव च
अपि ते मानसं स्वस्थम् आहारेण कृतं द्विज ॥
क्वनिवासो भवान् विप्र क्व च गन्तुं समुद्यतः
आगम्यते च भवता यतस् तच् च द्विजोच्यताम् ॥
क्षुद् यस्य तस्य भुक्ते ऽन्ने तृप्तिर् ब्राह्मण जायते
न मे क्षुद् अभवत् तृप्तिं कस्मान् मां परिपृच्छसि ॥
वह्निना पार्थिवे धातौ क्षपिते क्षुत्समुद्भवः
भवत्य् अम्भसि च क्षीणे नृणां तृड् अपि जायते ॥
क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज
ततः क्षुत्संभवाभावात् तृप्तिर् अस्त्य् एव मे सदा ॥
मनसः स्वस्थता तुष्टिश् चित्तधर्माव् इमौ द्विज
चेतसो यस्य तत् पृच्छ पुमान् एभिर् न युज्यते ॥
क्व निवासस् तवेत्य् उक्तं क्व गन्तासि च यत् त्वया
कुतश् चागम्यते तत्र त्रितये ऽपि निबोध मे ॥
पुमान् सर्वगतो व्यापी आकाशवद् अयं यतः
कुतः कुत्र क्व गन्तासीत्य् एतद् अप्य् अर्थवत् कथम् ॥
सो ऽहं गन्ता न चागन्ता नैकदेशनिकेतनः
त्वं चान्ये च न च त्वं च नान्ये नैवाहम् अप्य् अहम् ॥
मृष्टं न मृष्टम् इत्य् एषा जिज्ञासा मे कृता तव
किं वक्ष्यतीति तत्रापि श्रूयतां द्विजसत्तम ॥
किम् अस्वाद्व् अथ वा मृष्टं भुञ्जतो ऽन्नं द्विजोत्तम
मृष्टम् एव यदामृष्टं तद् एवोद्वेगकारणम् ॥
अमृष्टं जायते मृष्टं मृष्टाद् उद्विजते जनः
आदिमध्यावसानेषु किम् अन्नं रुचिकारकम् ॥
मृण्मयं हि गृहं यद्वन् मृदा लिप्तं स्थिरं भवेत्
पार्थिवो ऽयं तथा देहः पार्थिवैः परमाणुभिः ॥
आलिप्त आप्याययतः पुंसो भोगो ऽत्र किं कृतः ॥
यवगोधूममुद्गादि घृतं तैलं पयो दधि
गुडं फलादीनि तथा पार्थिवाः परमाणवः ॥
तद् एतद् भवता ज्ञात्वा मृष्टामृष्टविचारि यत्
तन् मनः समतालम्बि कार्यं साम्यं हि मुक्तये ॥
इत्य् आकर्ण्य वचस् तस्य परमार्थाश्रितं नृप
प्रणिपत्य महाभागो निदाघो वाक्यम् अब्रवीत् ॥
प्रसीद मद्धितार्थाय कथ्यतां यस् त्वम् आगतः
नष्टो मोहस् तवाकर्ण्य वचांस्य् एतानि मे द्विज ॥
ऋभुर् अस्मि तवाचार्यः प्रज्ञादानाय ते द्विज
इहागतो ऽहं यास्यामि परमार्थस् तवोदितः ॥
एवम् एकम् इदं विद्धि न भेदि सकलं जगत्
वासुदेवाभिधेयस्य स्वरूपं परमात्मनः ॥
तथेत्य् उक्त्वा निदाघेन प्रणिपातपुरःसरम्
पूजितः परया भक्त्या इच्छातः प्रययाव् ऋभुः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0