भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.14

2.14.1

निशम्य तस्येति वचः परमार्थसमन्वितम्
प्रश्रयावनतो भूत्वा तम् आह नृपतिर् द्विजम् ॥

2.14.1*13:1

नाहम् इत्यादिवाक्येन प्रमाणासंभवे गते ॥

2.14.1*13:2

प्रमेयासंभवाशङ्की भूयो भूयो ऽथ पृच्छति ॥

2.14.2

भगवन् यत् त्वया प्रोक्तं परमार्थमयं वचः
श्रुते तस्मिन् भ्रमन्तीव मनसो मम वृत्तयः ॥

2.14.3

एतद् विवेकविज्ञानं यद् अशेषेषु जन्तुषु
भवता दर्शितं विप्र तत् परं प्रकृतेर् महत् ॥

2.14.4

नाहं वहामि शिबिकां शिबिका न मयि स्थिता
शरीरम् अन्यद् अस्मत्तो येनेयं शिबिका धृता ॥

2.14.5

गुणप्रवृत्त्या भूतानां प्रवृत्तिः कर्मचोदिता
प्रवर्तन्ते गुणाश् चैते किं ममेति त्वयोदितम् ॥

2.14.6

एतस्मिन् परमार्थज्ञ मम श्रोत्रपथं गते
मनो विह्वलताम् एति परमार्थार्थितां गतम् ॥

2.14.7

पूर्वम् एव महाभागं कपिलर्षिम् अहं द्विज
प्रष्टुम् अभ्युद्यतो गत्वा श्रेयः किं न्व् इत्य् असंशयम् ॥

2.14.8

तदन्तरे च भवता यद् इदं वाक्यम् ईरितम्
तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥

2.14.9

कपिलर्षिर् भगवतः सर्वभूतस्य वै किल
विष्णोर् अंशो जगन्मोह नाशायोर्वीम् उपागतः ॥

2.14.10

स एव भगवान् नूनम् अस्माकं हितकाम्यया
प्रत्यक्षताम् अत्र गतो यथैतद् भवतोच्यते ॥

2.14.11

तन् मह्यं प्रणताय त्वं यच् छ्रेयः परमं द्विज
तद् वदाखिलविज्ञान जलवीच्युदधिर् भवान् ॥

2.14.12

भूप पृच्छसि किं श्रेयः परमार्थं नु पृच्छसि
श्रेयांस्य् अपरमार्थानि अशेषाण्य् एव भूपते ॥

2.14.13

देवताराधनं कृत्वा धनसंपदम् इच्छति
पुत्रान् इच्छति राज्यं च श्रेयस् तत्प्राप्तिलक्षणम् ॥

2.14.14

कर्म यज्ञात्मकं श्रेयः स्वर्लोकफलदायि यत्
श्रेयः प्रधानं च फले तद् एवानभिसंहिते ॥

2.14.15

आत्मा ध्येयः सदा भूप योगयुक्तैस् तथा परम्
श्रेयस् तस्यैव संयोगः श्रेयो यः परमात्मनः ॥

2.14.16

श्रेयांस्य् एवम् अनेकानि शतशो ऽथ सहस्रशः
सन्त्य् अत्र परमार्थास् तु न त्व् एते श्रूयतां च मे ॥

2.14.17

धर्माय त्यज्यते किं तु परमार्थो धनं यदि
व्ययश् च क्रियते कस्मात् कामप्राप्त्युपलक्षणः ॥

2.14.18

पुत्रश् चेत् परमार्थाख्यः सो ऽप्य् अन्यस्य नरेश्वर
परमार्थभूतः सो ऽन्यस्य परमार्थो हि तत्पिता ॥

2.14.19

एवं न परमार्थो ऽस्ति जगत्य् अस्मिंश् चराचरे
परमार्थो हि कार्याणि कारणानाम् अशेषतः ॥

2.14.20

राज्यादिप्राप्तिर् अत्रोक्ता परमार्थतया यदि
परमार्था भवन्त्य् अत्र न भवन्ति च वै ततः ॥

2.14.21

ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव
परमार्थभूतं तत्रापि श्रूयतां गदतो मम ॥

2.14.22

यत् तु निष्पाद्यते कार्यं मृदा कारणभूतया
तत् कारणानुगमनाज् ज्ञायते नृप मृण्मयम् ॥

2.14.23

एवं विनाशिभिर् द्रव्यैः समिदाज्यकुशादिभिः
निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥

2.14.24

अनाशी परमार्थश् च प्राज्ञैर् अभ्युपगम्यते
तत् तु नाशि न संदेहो नाशिद्रव्योपपादितम् ॥

2.14.25

तद् एवाफलदं कर्म परमार्थो मतस् तव
मुक्तिसाधनभूतत्वात् परमार्थो न साधनम् ॥

2.14.26

ध्यानं चैवात्मनो भूप परमार्थार्थशब्दितम्
भेदकारि परेभ्यस् तत् परमार्थो न भेदवान् ॥

2.14.27

परमात्मात्मनोर् योगः परमार्थ इतीष्यते
मिथ्यैतद् अन्यद्रव्यं हि नैति तद्द्रव्यतां यतः ॥

2.14.28

तस्माच् छ्रेयांस्य् अशेषाणि नृपैतानि न संशयः
परमार्थस् तु भूपाल संक्षेपाच् छ्रूयतां मम ॥

2.14.29

एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः
जन्मवृद्ध्यादिरहित आत्मा सर्वगतो ऽव्ययः ॥

2.14.30

परज्ञानमयो ऽसद्भिर् नामजात्यादिभिर् विभुः
न योगवान् न युक्तो ऽभून् नैव पार्थिव योक्ष्यति ॥

2.14.31

तस्यात्मपरदेहेषु सतो ऽप्य् एकमयं हि यत्
विज्ञानं परमार्थो ऽसौ द्वैतिनो ऽतत्त्वदर्शिनः ॥

2.14.32

वेणुरन्ध्रविभेदेन भेदः षड्जादिसंज्ञितः
अभेदव्यापिनो वायोस् तथा तस्य महात्मनः ॥

2.14.33

एकत्वं रूपभेदश् च बाह्यकर्मप्रवृत्तिजः
देवादिभेदे ऽपध्वस्ते नास्त्य् एवावरणो हि सः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc