विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.13
भगवन् सम्यग् आख्यातं यत् पृष्टो ऽसि मयाखिलम्
भूसमुद्रादिसरितां संस्थानं ग्रहसंस्थितिः ॥
विष्ण्वाधारं यथा चैतत् त्रैलोक्यं समवस्थितम्
परमार्थश् च मे प्रोक्तो यथा ज्ञानं प्रधानतः ॥
यत् तु तद् भगवान् आह भरतस्य महीपतेः
कथयिष्यामि चरितं तन् ममाख्यातुम् अर्हसि ॥
भरतः स महीपालः सालग्रामे ऽवसत् किल
योगयुक्तः समाधाय वासुदेवे मनः सदा ॥
पुण्यदेशप्रभावेन ध्यायतश् च सदा हरिम्
कथं तु नाभवन् मुक्तिर् यदाभूत् स द्विजः पुनः ॥
विप्रत्वे च कृतं तेन यद् भूयः सुमहात्मना
पूर्वकर्मस्वभावेन तन् ममाख्यातुम् अर्हसि ॥
सालग्रामे महाभागो भगवन्न्यस्तमानसः
उवास सुचिरं कालं मैत्रेय पृथिवीपतिः ॥
अहिंसादिष्व् अशेषेषु गुणेषु गुणिनां वरः
अवाप परमां काष्ठां मनसश् चापि संयमे ॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव
कृष्ण विष्णो हृषीकेशेत्य् आह राजा स केवलम् ॥
.... .... वासुदेव नमो ऽस्तु ते ॥
इति राजाह भरतो ... ॥
नान्यज् जगाद मैत्रेय किंचित् स्वप्नान्तरेष्व् अपि
एतत् पदं तदर्थं च विना नान्यद् अचिन्तयत् ॥
समित्पुष्पकुशादानं चक्रे देवक्रियाकृते
नान्यानि चक्रे कर्माणि निःसङ्गो योगतापसः ॥
जगाम सो ऽभिषेकार्थम् एकदा तु महानदीम्
सस्नौ तत्र तदा चक्रे स्नानस्यानन्तरक्रियाः ॥
अथाजगाम तत् तीर्थं जलं पातुं पिपासिता
आसन्नप्रसवा ब्रह्मन्न् एकैव हरिणी वनात् ॥
ततः समभवत् तत्र पीतप्राये जले तया
सिंहस्य नादः सुमहान् सर्वप्राणिभयंकरः ॥
ततः सा सहसा त्रासाद् आप्लुता निम्नगातटम्
अत्युच्चारोहणेनास्या नद्यां गर्भः पपात सः ॥
तम् ऊह्यमानं वेगेन वीचिमालापरिप्लुतम्
जग्राह स नृपो गर्भात् पतितं मृगपोतकम् ॥
गर्भप्रच्युतिदुःखेन प्रोत्तुङ्गाक्रमणेन च
मैत्रेय सापि हरिणी पपात च ममार च ॥
हरिणीं तां विलोक्याथ विपन्नां नृपतापसः
मृगपोतं समादाय पुनर् आश्रमम् आगतः ॥
चकारानुदिनं चासौ मृगपोतस्य वै नृपः
पोषणं पुष्यमाणश् च स तेन ववृधे मुने ॥
चचाराश्रमपर्यन्ते तृणानि गहनेषु सः
दूरं गत्वा च शार्दूल त्रासाद् अभ्याययौ पुनः ॥
प्रातर् गत्वातिदूरं च सायम् आयात् तदाश्रमम्
पुनश् च भरतस्याभूद् आश्रमस्योटजाजिरे ॥
तस्य तस्मिन् मृगे दूर समीपपरिवर्तिनि
आसीच् चेतः समासक्तं न ययाव् अन्यतो द्विज ॥
विमुक्तराज्यतनयः प्रोज्झिताशेषबान्धवः
ममत्वं स चकारोच्चैस् तस्मिन् हरिणबालके ॥
किं वृकैर् भक्षितो व्याघ्रैः किं सिंहेन निपातितः
चिरायमाणे निष्क्रान्ते तस्यासीद् इति मानसम् ॥
एषा वसुमती तस्य खुराग्रक्षतकर्बुरा ॥
प्रीतये मम यातो ऽसौ क्व ममैणकबालकः
विषाणाग्रेण मद्बाहु कण्डूयनपरो हि सः
क्षेमेणाभ्यागतो ऽरण्याद् अपि मां सुखयिष्यति ॥
एते लूनशिखास् तस्य दशनैर् अचिरोद्गतैः
कुशकाशा विराजन्ते बटवः सामगा इव ॥
इत्थं चिरगते तस्मिन् स चक्रे मानसं मुनिः
प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन् मृगे ॥
समाधिभङ्गस् तस्यासीत् तन्मयत्वादृतात्मनः
संत्यक्तराज्यभोगर्द्धि स्वजनस्यापि भूपतेः ॥
चपले चपलं तस्मिन् दूरगं दूरगामिनि
मृगपोते ऽभवच् चित्तं स्थैर्यवत् तस्य भूपतेः ॥
कालेन गच्छता सो ऽथ कालं चक्रे महीपतिः
पितेव सास्रं पुत्रेण मृगपोतेन वीक्षितः ॥
मृगम् एष तदाद्राक्षीत् त्यजन् प्राणान् असाव् अपि
तन्मयत्वेन मैत्रेय नान्यत् किंचिद् अचिन्तयत् ॥
ततश् च तत्कालकृतां भावनां प्राप्य तादृशीम्
जम्बूमार्गे महारण्ये जज्ञे जातिस्मरो मृगः ॥
जातिस्मरत्वाद् उद्विग्नः संसारात् स द्विजोत्तम
विहाय मातरं भूयः सालग्रामम् उपाययौ ॥
शुष्कैस् तृणैस् तथा पर्णैः स कुर्वन्न् आत्मपोषणम्
मृगत्वहेतुभूतस्य कर्मणो निष्कृतिं ययौ ॥
तत्र चोत्सृष्टदेहो ऽसौ जज्ञे जातिस्मरो द्विजः
सदाचारवतां शुद्धे योगिनां प्रवरे कुले ॥
सर्वविज्ञानसंपन्नः सर्वशास्त्रार्थतत्त्ववित्
अपश्यत् स च मैत्रेय आत्मानं प्रकृतेः परम् ॥
आत्मनो ऽधिगतज्ञानो देवादीनि महामुने
सर्वभूतान्य् अभेदेन ददर्श स महामतिः ॥
न पपाठ गुरुप्रोक्तां कृतोपनयनः श्रुतिम्
न ददर्श च कर्माणि शास्त्राणि जगृहे न च ॥
उक्तो ऽपि बहुशः किंचिज् जडवाक्यम् अभाषत
तद् अप्य् असंस्कारगुणं ग्राम्यवाक्योक्तिसंश्रितम् ॥
अपध्वस्तवपुः सो ऽथ मलिनाम्बरधृग् द्विजः
क्लिन्नदन्तान्तरः सर्वैः परिभूतः स नागरैः ॥
संमानना परां हानिं योगर्द्धेः कुरुते यतः
जनेनावमतो योगी योगसिद्धिं च विन्दति ॥
तस्माच् चरेत वै योगी सतां धर्मम् अदूषयन्
जना यथावमन्येरन् गच्छेयुर् नैव संगतिम् ॥
हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः
आत्मानं दर्शयाम् आस जडोन्मत्ताकृतिं जने ॥
भुङ्क्ते कुल्माषवाट्यादि शाकं वन्यं फलं कणान्
यद् यद् आप्नोति सुबहु तद् अत्ते कालसंयमम् ॥
पितर्य् उपरते सो ऽथ भ्रातृभ्रातृव्यबान्धवैः
कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः ॥
स रूक्षपीनावयवो जडकारी च कर्मणि
सर्वलोकोपकरणं बभूवाहारवेतनः ॥
तं तादृशम् असंस्कारं विप्राकृतिविचेष्टितम्
क्षत्ता सौवीरराजस्य विष्टियोग्यम् अमन्यत ॥
.... .... काल्यै पशुम् अयोजयत् ॥
रात्रौ तं समलंकृत्य वैशंसनविधानतः ॥
अधिष्ठितं महाकाली ज्ञात्वा योगेश्वरं तदा ॥
ततः खड्गं समादाय निशितं निशि सा तदा ॥
क्षत्तारं क्रूरकर्माणम् अच्छिनत् कण्ठमूलतः ॥
पिशितार्थपरिकरैः पपौ रुधिरम् उल्बणम् ॥
ततः सौवीरराजस्य प्रयातस्य महात्मनः ॥
विष्टिकर्ताथ तं तत्र विष्टियोग्यो ऽयम् इत्य् अपि ॥
क्षत्ता सौवीरराजस्य .... .... ॥
स राजा शिबिकारूढो गन्तुं कृतमतिर् द्विज
बभूवेक्षुमतीतीरे कपिलर्षेर् वराश्रमम् ॥
श्रेयः किम् अत्र संसारे दुःखप्राये नृणाम् इति
प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् ॥
उवाह शिबिकां तस्य क्षत्तुर् वचनचोदितः
नृणां विष्टिगृहीतानाम् अन्येषां सो ऽपि मध्यगः ॥
गृहीतो विष्टिना विप्रः सर्वज्ञानैकभाजनः
जातिस्मरो ऽसौ पापस्य क्षयकाम उवाह ताम् ॥
ययौ जडगतिः सो ऽथ युगमात्रावलोकनम्
कुर्वन् मतिमतां श्रेष्ठस् ते त्व् अन्ये त्वरितं ययुः ॥
विलोक्य नृपतिः सो ऽपि विषमां शिबिकागतिम्
किम् एतद् इत्य् आह समं गम्यतां शिबिकावहाः ॥
पुनस् तथैव शिबिकां विलोक्य विषमां हसन्
नृपः किम् एतद् इत्य् आह भवद्भिर् गम्यते ऽन्यथा ॥
भूपतेर् वदतस् तस्य श्रुत्वेत्थं बहुशो वचः
शिबिकोद्वाहकाः प्रोचुर् अयं यातीत्य् असत्वरम् ॥
किं श्रान्तो ऽस्य् अल्पम् अध्वानं त्वयोढा शिबिका मम
किम् आयाससहो न त्वं पीवान् असि निरीक्ष्यसे ॥
नाहं पीवा न चैवोढा शिबिका भवतो मया
न श्रान्तो ऽस्मि न चायासः सोढव्यो ऽस्ति महीपते ॥
प्रत्यक्षं दृश्यसे पीवान् अद्यापि शिबिका त्वयि
श्रमश् च भारोद्वहने भवत्य् एव हि देहिनाम् ॥
प्रत्यक्षं भवता भूप यद् दृष्टं मम तद् वद
बलवान् अबलश् चेति वाच्यं पश्चाद् विशेषणम् ॥
त्वयोढा शिबिका चेति त्वय्य् अद्यापि च संस्थिता
मिथ्यैतद् अत्र तु भवाञ् शृणोतु वचनं मम ॥
भूमौ पादयुगस्यास्था जङ्घे पादद्वये स्थिते
ऊरू जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ॥
वक्षःस्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ
स्कन्धाश्रितेयं शिबिका मम भारो ऽत्र किं कृतः ॥
शिबिकायां स्थितं चेदं देहं त्वदुपलक्षितम्
तत्र त्वम् अहम् अप्य् अत्र प्रोच्यते चेदम् अन्यथा ॥
अहं त्वं च तथान्ये च भूतैर् उह्याम पार्थिव
गुणप्रवाहपतितो भूतवर्गो ऽपि यात्य् अयम् ॥
कर्मवश्या गुणा ह्य् एते सत्त्वाद्याः पृथिवीपते
अविद्यासंचितं कर्म तच् चाशेषेषु जन्तुषु ॥
आत्मा शुद्धो ऽक्षरः शान्तो निर्गुणः प्रकृतेः परः
प्रवृद्ध्यपचयौ नास्य एकस्याखिलजन्तुषु ॥
यदा नोपचयस् तस्य न चैवापचयो नृप
तदा पीवान् असीतीत्थं कया युक्त्या त्वयेरितम् ॥
भूपादजङ्घाकट्यूरु जठरादिषु संस्थिते
शिबिकेयं यदा स्कन्धे तदा भारः समस् त्वया ॥
तथान्यैर् जन्तुभिर् भूप शिबिकोत्थो न केवलम्
शैलद्रुमगृहोत्थो ऽपि पृथिवीसंभवो ऽपि वा ॥
यदा पुंसः पृथग्भावः प्राकृतैः कारणैर् नृप
वोढव्यस् तु तदा भारः कतमो नृपते मया ॥
यद्द्रव्या शिबिका चेयं तद्द्रव्यो भूतसंग्रहः
भवतो मे ऽखिलस्यास्य ममत्वेनोपबृंहितः ॥
एवम् उक्त्वाभवन् मौनी स वहञ् छिबिकां द्विजः
सो ऽपि राजावतीर्योर्व्यां तत्पादौ जगृहे त्वरन् ॥
भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्विज
कथ्यतां को भवान् अत्र जाल्मरूपधरः स्थितः ॥
यो भवान् यन् निमित्तं वा यद् आगमनकारणम्
तत् सर्वं कथ्यतां विद्वन् मह्यं शुश्रूषवे त्वया ॥
श्रूयतां को ऽहम् इत्य् एतद् वक्तुं भूप न शक्यते
उपभोगनिमित्तं च सर्वत्रागमनक्रिया ॥
सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ
धर्माधर्मोद्भवौ भोक्तुं जन्तुर् देहादिम् ऋच्छति ॥
सर्वस्यैव हि भूपाल जन्तोः सर्वत्र कारणम्
धर्माधर्मौ यतस् तस्मात् कारणं पृच्छ्यते कुतः ॥
धर्माधर्मौ न संदेहः सर्वकार्येषु कारणम्
उपभोगनिमित्तं च देहीदेशान्तरागमः ॥
यत् त्व् एतद् भवता प्रोक्तं को ऽहम् इत्य् एतद् आत्मनः
वक्तुं न शक्यते श्रोतुं तन् ममेच्छा प्रवर्तते ॥
यो ऽस्ति सो ऽहम् इति ब्रह्मन् कथं वक्तुं न शक्यते
आत्मन्य् एव न दोषाय शब्दो ऽहम् इति यो द्विज ॥
शब्दो ऽहम् इति दोषाय नात्मन्य् एष तथैव तत्
अनात्मन्य् आत्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ॥
जिह्वा ब्रवीत्य् अहम् इति दन्तौष्ठौ तालुकं नृप
एते नाहं यतः सर्वे वाङ्निष्पादनहेतवः ॥
किं हेतुभिर् वदत्य् एषा वाग् एवाहम् इति स्वयम्
तथापि वाङ् नाहम् एतद् वक्तुम् इत्थं न युज्यते ॥
पिण्डः पृथग् यतः पुंसः शिरःपाण्यादिलक्षणः
ततो ऽहम् इति कुत्रैतां संज्ञां राजन् करोम्य् अहम् ॥
यद्य् अन्यो ऽस्ति परः को ऽपि मत्तः पार्थिवसत्तम
तदैषो ऽहम् अयं चान्यो वक्तुम् एवम् अपीष्यते ॥
यदा समस्तदेहेषु पुमान् एको व्यवस्थितः
तदा हि को भवान् को ऽहम् इत्य् एतद् विफलं वचः ॥
त्वं राजा शिबिका चेयम् वयं वाहाः पुरःसराः
अयं च भवतो लोको न सद् एतन् नृपोच्यते ॥
वृक्षाद् दारु ततश् चेयं शिबिका त्वदधिष्ठिता
क्व वृक्षसंज्ञा याता स्याद् दारुसंज्ञाथ वा नृप ॥
वृक्षारूढो महाराजो नायं वदति ते जनः
न च दारुणि सर्वस् त्वां ब्रवीति शिबिकागतम् ॥
शिबिकादारुसंघातो रचनास्थितिसंस्थितिः
अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिबिका त्वया ॥
एवं छत्रशलाकानां पृथग्भावो विमृश्यताम्
क्व यातं छत्रम् इत्य् एष न्यायस् त्वयि तथा मयि ॥
पुमान् स्त्री गौर् अयं वाजी कुञ्जरो विहगस् तरुः
देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ॥
पुमान् न देवो न नरो न पशुर् न च पादपः
शरीराकृतिभेदास् तु भूपैते कर्मयोनयः ॥
वस्तु राजेति यल् लोके यच् च राजभटात्मकम्
तथान्यच् च नृपेत्थं तन् न सत्संकल्पनामयम् ॥
यत् तु कालान्तरेणापि नान्यसंज्ञाम् उपैति वै
परिणामादिसंभूतं तद् वस्तु नृप तच् च किम् ॥
त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपो रिपुः
पत्न्याः पतिः पिता सूनोः कं त्वां भूप वदाम्य् अहम् ॥
त्वं किम् एतच् छिरः किं नु शिरस् तव तथोदरम्
किम् उ पादादिकं त्वं वै तवैतत् किं महीपते ॥
समस्तावयवेभ्यस् त्वं पृथग् भूप व्यवस्थितः
को ऽहम् इत्य् एव निपुणो भूत्वा चिन्तय पार्थिव ॥
एवं व्यवस्थिते तत्त्वे मयाहम् इति भाषितुम्
पृथक्करणनिष्पाद्यं शक्यते नृपते कथम् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0