विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.12
रथस् त्रिचक्रः सोमस्य कुन्दाभास् तस्य वाजिनः
वामदक्षिणतो युक्ता दश तेन चरत्य् असौ ॥
वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिना
ह्रासवृद्धिक्रमस् तस्य रश्मीनां सवितुर् यथा ॥
अर्कस्येव हि तस्याश्वाः सकृद्युक्ता वहन्ति ते
कल्पम् एकं मुनिश्रेष्ठ वारिगर्भसमुद्भवाः ॥
क्षीणं पीतं सुरैः सोमम् आप्याययति दीप्तिमान्
मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः ॥
क्रमेण येन पीतो ऽसौ देवैस् तेन निशाकरम्
आप्याययत्य् अनुदिनं भास्करो वारितस्करः ॥
संभृतं चार्धमासेन तत् सोमस्थं सुधामृतम्
पिबन्ति देवा मैत्रेय सुधाहारा यतो ऽमराः ॥
त्रयस् त्रिंशत्सहस्राणि त्रयस् त्रिंशच्छतानि च
त्रयस् त्रिंशत् तथा देवाः पिबन्ति क्षणदाकरम् ॥
कलाद्वयावशिष्टस् तु प्रविष्टः सूर्यमण्डलम्
अमाख्यरश्मौ वसति अमावास्या ततः स्मृता ॥
अप्सु तस्मिन्न् अहोरात्रे पूर्वं विशति चन्द्रमाः
ततो वीरुत्सु वसति प्रयात्य् अर्कं ततः क्रमात् ॥
छिनत्ति वीरुधो यस् तु वीरुत्संस्थे निशाकरे
पत्रं वा पातयत्य् एकं ब्रह्महत्यां स विन्दति ॥
शेषे पञ्चदशे भागे किंचिच्छिष्टे कलात्मके
अपराह्णे पितृगणा जघन्यं पर्युपासते ॥
पिबन्ति द्विकलं सोमं शिष्टा तस्य कला तु या
सुधामृतमयी पुण्या ताम् इन्दोः पितरो मुने ॥
निःसृतं तद् अमावास्यां गभस्तिभ्यः सुधामृतम्
मासतृप्तिम् अवाप्याग्र्यां पितरः सन्ति निर्वृताः
सौम्या बर्हिषदश् चैव अग्निष्वात्ताश् च ते त्रिधा ॥
एवं देवान् सिते पक्षे कृष्णपक्षे तथा पितॄन्
वीरुधश् चामृतमयैः शीतैर् अप्परमाणुभिः ॥
वीरुधौषधिनिष्पत्त्या मनुष्यपशुकीटकान्
आप्याययति शीतांशुः प्राकाश्याह्लादनेन तु ॥
वाय्वग्निद्रव्यसंभूतो रथश् चन्द्रसुतस्य च
पिशङ्गैस् तुरगैर् युक्तः सो ऽष्टाभिर् वायुवेगिभिः ॥
सवरूथः सानुकर्षो युक्तो भूसंभवैर् हयैः
सोपासङ्गपताकस् तु शुक्रस्यापि रथो महान् ॥
अष्टाश्वः काञ्चनः श्रीमान् भौमस्यापि रथो महान्
पद्मरागारुणैर् अश्वैः संयुक्तो वह्निसंभवैः ॥
अष्टाभिः पाण्डरैर् युक्तैर् वाजिभिः काञ्चने रथे
तस्मिंस् तिष्ठति वर्षं वै राशौ राशौ बृहस्पतिः ॥
आकाशसंभवैर् अश्वैः शबलैः स्यन्दनं युतम्
समारुह्य शनैर् याति मन्दगामी शनैश्चरः ॥
स्वर्भानोस् तुरगा ह्य् अष्टौ भृङ्गाभा धूसरं रथम्
सकृद्युक्तास् तु मैत्रेय वहन्त्य् अविरतं सदा ॥
आदित्यान् निःसृतो राहुः सोमं गच्छति पर्वसु
आदित्यम् एति सोमाच् च पुनः सौरेषु पर्वसु ॥
तथा केतुरथस्याश्वा अष्टौ ते वातरंहसः
पलालधूमवर्णाभा लाक्षारसनिभारुणाः ॥
एते मया ग्रहाणां वै तवाख्याता रथा नव
सर्वे ध्रुवे महाभाग प्रबद्धा वायुरश्मिभिः ॥
ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्य् अशेषतः
भ्रमन्त्य् उचितचारेण मैत्रेयानिलरश्मिभिः ॥
यावन्त्यश् चैव तारास् तास् तावन्तो वातरश्मयः
सर्वे ध्रुवे निबद्धास् ते भ्रमन्तो भ्रामयन्ति तम् ॥
तैलपीडा यथा चक्रं भ्रमन्तो भ्रामयन्ति वै
तथा भ्रमन्ति ज्योतींषि वातविद्धानि सर्वशः ॥
अलातचक्रवद् यान्ति वातचक्रेरितानि तु
यस्माज् ज्योतींषि वहति प्रवहस् तेन स स्मृतः ॥
शिशुमारस् तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति
संनिवेशं च तस्यापि शृणुष्व मुनिसत्तम ॥
यद् अह्ना कुरुते पापं दृष्ट्वा तं निशि मुच्यते
यावन्त्यश् चैव तारास् ताः शिशुमाराश्रिता दिवि
तावन्त्य् एव तु वर्षाणि जीवत्य् अभ्यधिकानि च ॥
उत्तानपादस् तस्याथ विज्ञेयो ह्य् उत्तरो हनुः
यज्ञो ऽधरश् च विज्ञेयो धर्मो मूर्धानम् आश्रितः ॥
हृदि नारायणश् चास्ते अश्विनौ पूर्वपादयोः
वरुणश् चार्यमा चैव पश्चिमे तस्य सक्थिनी ॥
शिश्नं संवत्सरस् तस्य मित्रो ऽपानं समाश्रितः ॥
पुच्छे ऽग्निश् च महेन्द्रश् च कश्यपो ऽथ ततो ध्रुवः
तारका शिशुमारस्य नास्तम् एति चतुष्टयम् ॥
इत्य् एष संनिवेशो यः पृथिव्या ज्योतिषां तथा
द्वीपानाम् उदधीनां च पर्वतानां च कीर्तितः ॥
वर्षाणां च नदीनां च ये च तेषु वसन्ति वै
तेषां स्वरूपम् आख्यातं संक्षेपाच् छ्रूयतां पुनः ॥
यद् अम्बु वैष्णवः कायस् ततो विप्र वसुंधरा
पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता ॥
ज्योतींषि विष्णुर् भुवनानि विष्णुर् वनानि विष्णुर् गिरयो दिशश् च
नद्यः समुद्राश् च स एव सर्वं यद् अस्ति यन् नास्ति च विप्रवर्य ॥
ज्ञानस्वरूपो भगवान् यतो ऽसाव् अशेषमूर्तिर् न तु वस्तुभूतः
ततो हि शैलाब्धिधरादिभेदाञ् जानीहि विज्ञानविजृम्भितानि ॥
यदा तु शुद्धं निजरूपि सर्वं कर्मक्षये ज्ञानम् अपास्तदोषम्
तदा हि संकल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः ॥
वस्त्व् अस्ति किं कुत्रचिद् आदिमध्य पर्यन्तहीनं सततैकरूपम्
यच् चान्यथात्वं द्विज याति भूयो न तत् तथा तत्र कुतो हि तत्त्वम् ॥
मही घटत्वं घटतः कपालिका कपालिका चूर्णरजस् ततो ऽणुः
जनैः स्वकर्मस्तिमितात्मनिश्चयैर् आलक्ष्यते ब्रूहि किम् अत्र वस्तु ॥
तस्मान् न विज्ञानम् ऋते ऽस्ति किंचित् क्वचित् कदाचिद् द्विज वस्तुजातम्
विज्ञानम् एकं निजकर्मभेद विभिन्नचित्तैर् बहुधाभ्युपेतम् ॥
ज्ञानं विशुद्धं विमलं विशोकम् अशेषलोभादिनिरस्तसङ्गम्
एकं सदैकं परमः परेशः स वासुदेवो न यतो ऽन्यद् अस्ति ॥
सद्भाव एषो भवतो मयोक्तो ज्ञानं यथा सत्यम् असत्यम् अन्यत्
एतत् तु यत् संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते ॥
यज्ञः पशुर् वह्निर् अशेष-ऋत्विक् सोमः सुराः स्वर्गमयश् च कामः
इत्यादिकर्माश्रितमार्गदृष्टं भूरादिभोगाश् च फलानि तेषाम् ॥
यच् चैतद् भुवनगतं मया तवोक्तं सर्वत्र व्रजति हि कर्मवश्य एकः
ज्ञात्वैवं ध्रुवम् अचलं सदैकरूपं तत् कुर्याद् विशति हि येन वासुदेवम् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0