भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.11

2.11.1

यद् एतद् भगवान् आह गणः सप्तविधो रवेः
मण्डले हिमतापादेः कारणं तन् मया श्रुतम् ॥

2.11.2

व्यापाराश् चापि कथिता गन्धर्वोरगरक्षसाम्
ऋषीणां वालखिल्यानां तथैवाप्सरसां गुरो ॥

2.11.3

यक्षाणां च रथे भानोर् विष्णुशक्तिधृतात्मनाम्
किं त्वादित्यस्य यत् कर्म तन् नात्रोक्तं त्वया मुने ॥

2.11.4

यदि सप्तगणो वारि हिमम् उष्णं च वर्षति
तत् किम् अत्र रवेर् येन वृष्टिः सूर्याद् इतीर्यते ॥

2.11.5

विवस्वान् उदितो मध्ये यात्य् अस्तम् इति किं जनः
ब्रवीत्य् एतत् समं कर्म यदि सप्तगणस्य तत् ॥

2.11.6

मैत्रेय श्रूयताम् एतद् यद् भवान् परिपृच्छति
यथा सप्तगणे ऽप्य् एकः प्राधान्येनाधिको रविः ॥

2.11.7

या तु शक्तिः परा विष्णोर् ऋग्यजुःसामसंज्ञिता
सैषा त्रयी तपत्य् अंहो जगतश् च हिनस्ति यत् ॥

2.11.8

सैष विष्णुः स्थितः स्थित्यां जगतः पालनोद्यतः
ऋग्यजुःसामभूतो ऽन्तः सवितुर् द्विज तिष्ठति ॥

2.11.9

मासि मासि रविर् यो यस् तत्र तत्र हि सा परा
त्रयीमयी विष्णुशक्तिर् अवस्थानं करोति वै ॥

2.11.10

ऋचस् तपन्ति पूर्वाह्णे मध्याह्ने च यजूंष्य् अथ
बृहद्रथन्तरादीनि सामान्य् अह्नः क्षये रवौ ॥

2.11.11

अंश एषा त्रयी विष्णोर् ऋग्यजुःसामसंज्ञिता
विष्णुशक्तिर् अवस्थानं सदादित्ये करोति सा ॥

2.11.12

न केवलं रवेः शक्तिर् वैष्णवी सा त्रयीमयी
ब्रह्माथ पुरुषो रुद्रस् त्रयम् एतत् त्रयीमयम् ॥

2.11.13

सर्गादौ ऋङ्मयो ब्रह्मा स्थितौ विष्णुर् यजुर्मयः
रुद्रः साममयो ऽन्ताय तस्मात् तस्याशुचिर् ध्वनिः ॥

2.11.14

एवं सा सात्त्विकी शक्तिर् वैष्णवी या त्रयीमयी
आत्मसप्तगणस्थं तं भास्वन्तम् अधितिष्ठति ॥

2.11.15

तया चाधिष्ठितः सो ऽपि जाज्वलीति स्वरश्मिभिः
तमः समस्तजगतां नाशं नयति चाखिलम् ॥

2.11.16

स्तुवन्ति तं वै मुनयो गन्धर्वैर् गीयते पुरः
नृत्यन्त्य् अप्सरसो यान्ति तस्य चानु निशाचराः ॥

2.11.17

वहन्ति पन्नगा यक्षैः क्रियते ऽभीषुसंग्रहः
वालखिल्यास् तथैवैनं परिवार्य समासते ॥

2.11.18

नोदेता नास्तमेता च कदाचिच् छक्तिरूपधृक्
विष्णुर् विष्णोः पृथक् तस्य गणः सप्तविधो ऽप्य् अयम् ॥

2.11.19

स्तम्भस्थदर्पणस्यैति यो ऽयम् आसन्नतां नरः
छायादर्शनसंयोगं स संप्राप्नोत्य् अथात्मनः ॥

2.11.20

एवं सा वैष्णवी शक्तिर् नैवापैति ततो द्विज
मासानुमासं भास्वन्तम् अध्यास्ते तत्र संस्थितम् ॥

2.11.21

पितृदेवमनुष्यादीन् स सदाप्याययन् प्रभुः
परिवर्तत्य् अहोरात्र कारणं सविता द्विज ॥

2.11.22

सूर्यरश्मिः सुषुम्णो यस् तर्पितस् तेन चन्द्रमाः
कृष्णपक्षे ऽमरैः शश्वत् पीयते वै सुधामयः ॥

2.11.23

पीतं तं द्विकलं सोमं कृष्णपक्षक्षये द्विज
पिबन्ति पितरस् तेषां भास्करात् तर्पणं तथा ॥

2.11.24

आदत्ते रश्मिभिर् यं तु क्षितिसंस्थं रसं रविः
तम् उत्सृजति भूतानां पुष्ट्यर्थं सस्यवृद्धये ॥

2.11.25

तेन प्रीणात्य् अशेषाणि भूतानि भगवान् रविः
पितृदेवमनुष्यादीन् एवम् आप्याययत्य् असौ ॥

2.11.26

पक्षतृप्तिं तु देवानां पितॄणां चैव मासिकीम्
शश्वत् तृप्तिं च मर्त्यानां मैत्रेयार्कः प्रयच्छति ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc