विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.22
यदाभिषिक्तः स पृथुः पूर्वं राज्ये महर्षिभिः
ततः क्रमेण राज्यानि ददौ लोकपितामहः ॥
नक्षत्रग्रहविप्राणां वीरुधां चाप्य् अशेषतः
सोमं राज्ये ऽदधद् ब्रह्मा यज्ञानां तपसाम् अपि ॥
राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा
आदित्यानां पतिं विष्णुं वसूनाम् अथ पावकम् ॥
प्रजापतीनां दक्षं तु वासवं मरुताम् अपि
दैत्यानां दानवानां च प्रह्लादम् अधिपं ददौ ॥
मरुतां दितिपुत्राणां वासवम् अधिपं ददौ ॥
पितॄणां धर्मराजानं यमं राज्ये ऽभ्यषेचयत्
ऐरावतं गजेन्द्राणाम् अशेषाणां पतिं ददौ ॥
पतत्रिणां च गरुडं देवानाम् अपि वासवम्
उच्चैःश्रवसम् अश्वानां वृषभं तु गवाम् अपि ॥
हिमालयं स्थावरणां मुनीनां कपिलं मुनिम् ॥
शेषं तु नागराजानं मृगाणां सिंहम् ईश्वरम् ॥
मृगाणाम् अपि सर्वेषां राज्ये सिंहं ददौ विभुः ॥
क्रव्यादानां दंष्ट्रिणां च मृगाणां व्याघ्रम् ईश्वरम् ॥
वनस्पतीनां राजानं प्लक्षम् एवाभ्यषेचयत् ॥
एवं विभज्य जातीनां प्राधान्येनाकरोत् प्रभून् ॥
एवं विभज्य राज्यानि दिशां पालान् अनन्तरम्
प्रजापतिपतिर् ब्रह्मा स्थापयाम् आस सर्वतः ॥
पूर्वस्यां दिशि राजानं वैराजस्य प्रजापतेः
दिशापालं सुधन्वानं राजानं सो ऽभ्यषेचयत् ॥
दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः
पुत्रं शङ्खपदं नाम राजानं सो ऽभ्यषेचयत् ॥
पश्चिमस्यां दिशि तथा रजसः पुत्रम् अच्युतम्
केतुमन्तं महात्मानं राजानम् अभिषिक्तवान् ॥
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः
उदीच्यां दिशि दुर्धर्षं राजानं सो ऽभ्यषेचयत् ॥
तैर् इयं पृथिवी सर्वा सप्तद्वीपा सकानना
यथाप्रदेशम् अद्यापि धर्मतः परिपाल्यते ॥
एते सर्वे प्रवृत्तस्य स्थितौ विष्णोर् महात्मनः
विभूतिभूता राजानो ये चान्ये मुनिसत्तम ॥
ये भविष्यन्ति ये भूताः सर्वभूतेश्वरा द्विज
ते सर्वे सर्वभूतस्य विष्णोर् अंशा द्विजोत्तम ॥
ये तु देवाधिपतयो ये च दैत्याधिपास् तथा
दानवानां च ये नाथा ये नाथाः पिशिताशिनाम् ॥
पशूनां ये च पतयः पतयो ये च पक्षिणाम्
मनुष्याणां च सर्पाणां नागानां चाधिपास् तु ये ॥
वृक्षाणां पर्वतानां च ग्रहाणां चापि ये ऽधिपाः
अतीता वर्तमानाश् च ये भविष्यन्ति चापरे
ते सर्वे सर्वभूतस्य विष्णोर् अंशसमुद्भवाः ॥
न हि पालनसामर्थ्यम् ऋते सर्वेश्वरं हरिम्
स्थितौ स्थितं महाप्राज्ञ भवत्य् अन्यस्य कस्यचित् ॥
सृजत्य् एष जगत् सृष्टौ स्थितौ पाति सनातनः
हन्ति चैवान्तकत्वे च रजःसत्त्वादिसंश्रयः ॥
चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ
प्रलयं च करोत्य् अन्ते चतुर्भेदो जनार्दनः ॥
एकेनांशेन ब्रह्मासौ भवत्य् अव्यक्तमूर्तिमान्
मरीचिमिश्राः पतयः प्रजानाम् अन्यभागतः ॥
कालस् तृतीयस् तस्यांशः सर्वभूतानि चापरः
इत्थं चतुर्धा संसृष्टौ वर्तते ऽसौ रजोगुणः ॥
एकांशेनास्थितो विष्णुः करोति परिपालनम्
मन्वादिरूपी चान्येन कालरूपो ऽपरेण च ॥
सर्वभूतेषु चान्येन संस्थितः कुरुते स्थितिम्
सत्त्वं गुणं समाश्रित्य जगतः पुरुषोत्तमः ॥
आश्रित्य तमसो वृत्तिम् अन्तकाले तथा प्रभुः
रुद्रस्वरूपी भगवान् एकांशेन भवत्य् अजः ॥
अग्न्यन्तकादिरूपेण भागेनान्येन वर्तते
कालस्वरूपो भागो ऽन्यः सर्वभूतानि चापरः ॥
विनाशं कुर्वतस् तस्य चतुर्धैवं महात्मनः
विभागकल्पना ब्रह्मन् कथ्यते सार्वकालिकी ॥
ब्रह्मा दक्षादयः कालस् तथैवाखिलजन्तवः
विभूतयो हरेर् एता जगतः सृष्टिहेतवः ॥
विष्णुर् मन्वादयः कालः सर्वभूतानि च द्विज
स्थितेर् निमित्तभूतस्य विष्णोर् एता विभूतयः ॥
रुद्रः कालो ऽन्तकाद्याश् च समस्ताश् चैव जन्तवः
चतुर्धा प्रलयायैता जनार्दनविभूतयः ॥
जगदादौ तथा मध्ये सृष्टिर् आप्रलयाद् द्विज
धात्रा मरीचिमिश्रैश् च क्रियते जन्तुभिस् तथा ॥
ब्रह्मा सृजत्य् आदिकाले मरीचिप्रमुखास् ततः
उत्पादयन्त्य् अपत्यानि जन्तवश् च प्रतिक्षणम् ॥
कालेन न विना ब्रह्मा सृष्टिनिष्पादको द्विज
न प्रजापतयः सर्वे न चैवाखिलजन्तवः ॥
एवम् एव विभागो ऽयं स्थिताव् अप्य् उपदिश्यते
चतुर्धा देवदेवस्य मैत्रेय प्रलये तथा ॥
यत् किंचित् सृज्यते येन सत्त्वजातेन वै द्विज
तस्य सृज्यस्य संभूतौ तत् सर्वं वै हरेस् तनुः ॥
हन्ति यावत् क्वचित् किंचित् भूतं स्थावरजङ्गमम्
जनार्दनस्य तद् रौद्रं मैत्रेयान्तकरं वपुः ॥
एवम् एव जगत्स्रष्टा जगत्पाता तथा जगत्
जगद्भक्षयिता देवः समस्तस्य जनार्दनः ॥
सर्गस्थित्यन्तकालेषु त्रिधैवं संप्रवर्तते
गुणप्रवृत्त्या परमं पदं तस्यागुणं महत् ॥
तच् च ज्ञानमयं व्यापि स्वसंवेद्यम् अनौपमम्
चतुष्प्रकारं तद् अपि स्वरूपं परमात्मनः ॥
चतुष्प्रकारतां तस्य ब्रह्मभूतस्य वै मुने
त्वाम् आचक्ष्व यथान्यायं यद् उक्तं परमं पदम् ॥
मैत्रेय कारणं प्रोक्तं साधनं सर्ववस्तुषु
साध्यं च वस्त्व् अभिमतं यत् साधयितुम् आत्मनः ॥
योगिनो मुक्तिकामस्य प्राणायामादि साधनम्
साध्यं च परमं ब्रह्म पुनर् नावर्तते यतः ॥
साधनालम्बनं ज्ञानं मुक्तये योगिनां हि यत्
स भेदः प्रथमस् तस्य ज्ञानभूतस्य वै मुने ॥
युञ्जतः क्लेशमुक्त्यर्थं साध्यं यद् ब्रह्मयोगिनः
तदालम्बनविज्ञानं द्वितीयो ऽंशो महामुने ॥
उभयोस् त्व् अविभागेन साध्यसाधनयोर् हि यत्
विज्ञानम् अद्वैतमयं तद्भागो ऽन्यो मयोदितः ॥
ज्ञानत्रयस्य चैतस्य विशेषो यो महामुने
तन् निराकरणद्वार दर्शितात्मस्वरूपवत् ॥
निर्व्यापारम् अनाख्येयं व्याप्तिमात्रम् अनौपमम्
आत्मसंबोधविषयं सत्तामात्रम् अलक्षणम् ॥
प्रशान्तम् अभयं शुद्धं दुर्विभाव्यम् असंश्रयम्
विष्णोर् ज्ञानमयस्योक्तं तज् ज्ञानं परमं पदम् ॥
तत्राज्ञाननिरोधेन योगिनो यान्ति ये लयम्
संसारकर्षणोप्तौ ते यान्ति निर्बीजतां द्विज ॥
एवंप्रकारम् अमलं नित्यं व्यापकम् अक्षयम्
समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥
तद् ब्रह्म परमं योगी यतो नावर्तते पुनः
अपुण्यपुण्योपरमे क्षीणक्लेशो ऽतिनिर्मलः ॥
द्वे रूपे ब्रह्मणस् तस्य मूर्तं चामूर्तम् एव च
क्षराक्षरस्वरूपे ते सर्वभूतेषु च स्थिते ॥
अक्षरं तत् परं ब्रह्म क्षरं सर्वम् इदं जगत्
एकदेशस्थितस्येन्दोर् ज्योत्स्ना विस्तारिणी यथा
परस्य ब्रह्मणः शक्तिस् तथैतद् अखिलं जगत् ॥
तत्राप्य् आसन्नदूरत्वाद् बहुत्वस्वल्पतामयः
ज्योत्स्नाभेदो ऽस्ति तच्छक्तेस् तद्वन् मैत्रेय विद्यते ॥
ब्रह्मविष्णुशिवा ब्रह्मन् प्रधाना ब्रह्मशक्तयः
ततश् च देवा मैत्रेय न्यूना दक्षादयस् ततः ॥
ततो मनुष्याः पशवो मृगपक्षिसरीसृपाः
न्यूना न्यूनतराश् चैव वृक्षगुल्मादयस् ततः ॥
तद् एतद् अक्षयं नित्यं जगन् मुनिवराखिलम्
आविर्भावतिरोभाव जन्मनाशविकल्पवत् ॥
सर्वशक्तिमयो विष्णुः स्वरूपं ब्रह्मणो ऽपरम्
मूर्तं यद् योगिभिः पूर्वं योगारम्भेषु चिन्त्यते ॥
सालम्बनो महायोगः सबीजो यत्र संस्थितः
मनस्य् अव्याहते सम्यग् युञ्जतां जायते मुने ॥
स परः सर्वशक्तीनां ब्रह्मणः समनन्तरः
मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥
तत्र सर्वम् इदं प्रोतम् ओतं चैवाखिलं जगत्
ततो जगज् जगत् तस्मिन् स जगच् चाखिलं मुने ॥
क्षराक्षरमयो विष्णुर् बिभर्त्य् अखिलम् ईश्वरः
पुरुषाव्याकृतमयं भूषणास्त्रस्वरूपवत् ॥
भूषणास्त्रस्वरूपस्थं यद् एतद् अखिलं जगत्
बिभर्ति भगवान् विष्णुस् तन् ममाख्यातुम् अर्हसि ॥
नमस् कृत्वाप्रमेयाय विष्णवे प्रभविष्णवे
कथयामि यथाख्यातं वसिष्ठेन ममाभवत् ॥
आत्मानम् अस्य जगतो निर्लेपम् अगुणामलम्
बिभर्ति कौस्तुभमणि स्वरूपं भगवान् हरिः ॥
अस्य जगत आत्मानं पुरुषं शुद्धं क्षत्रज्ञम् ॥
श्रीवत्ससंस्थानधरम् अनन्ते च समाश्रितम्
प्रधानं बुद्धिर् अप्य् आस्ते गदारूपेण माधवे ॥
भूतादिम् इन्द्रियादिं च द्विधाहंकारम् ईश्वरः
बिभर्ति शङ्खरूपेण शार्ङ्गरूपेण च स्थितम् ॥
चलत्स्वरूपम् अत्यन्तं जवेनान्तरितानिलम्
चक्रस्वरूपं च मनो धत्ते विष्णुकरे स्थितम् ॥
पञ्चरूपा तु या माला वैजयन्ती गदाभृतः
सा भूतहेतुसंघाता भूतमाला च वै द्विज ॥
यानीन्द्रियाण्य् अशेषाणि बुद्धिकर्मात्मकानि वै
शररूपाण्य् अशेषाणि तानि धत्ते जनार्दनः ॥
बिभर्ति यच् चासिरत्नम् अच्युतो ऽत्यन्तनिर्मलम्
विद्यामयं तु तज् ज्ञानम् अविद्याचर्मसंस्थितम् ॥
इत्थं पुमान् प्रधानं च बुद्ध्यहंकारम् एव च
भूतानि च हृषीकेशे मनः सर्वेन्द्रियाणि च
विद्याविद्ये च मैत्रेय सर्वम् एतत् समाश्रितम् ॥
अस्त्रभूषणसंस्थान स्वरूपं रूपवर्जितः
बिभर्ति मायारूपो ऽसौ श्रेयसे प्राणिनां हरिः ॥
सविकारं प्रधानं च पुमांसं चाखिलं जगत्
बिभर्ति पुण्डरीकाक्षस् तद् एवं परमेश्वरः ॥
या विद्या या तथाविद्या यत् सद् यच् चासद् अव्यये
तत् सर्वं सर्वभूतेशे मैत्रेय मधुसूदने ॥
कलाकाष्ठानिमेषादि दिनर्त्वयनहायनैः
कालस्वरूपो भगवान् अपारो हरिर् अव्ययः ॥
भूर्लोको ऽथ भुवर्लोकः स्वर्लोको मुनिसत्तम
महर् जनस् तपः सत्यं सप्तलोकान् इमान् विभुः ॥
लोकात्ममूर्तिः सर्वेषां पूर्वेषाम् अपि पूर्वजः
आधारः सर्वविद्यानां स्वयम् एव हरिः स्थितः ॥
देवमानुषपश्वादि स्वरूपैर् बहुभिर् विभुः
स्थितः सर्वेश्वरो ऽनन्तो भूतमूर्तिर् अमूर्तिमान् ॥
ऋचो यजूंषि सामानि तथैवाथर्वणानि च
इतिहासोपवेदाश् च वेदान्तेषु तथोक्तयः ॥
वेदाङ्गानि समस्तानि मन्वादिगदितानि च
शास्त्राण्य् अशेषाण्य् आख्यानान्य् अनुवाकाश् च ये क्वचित् ॥
काव्यालापाश् च ये केचिद् गीतकान्य् अखिलानि च
शब्दमूर्तिधरस्यैतद् वपुर् विष्णोर् महात्मनः ॥
यानि मूर्तान्य् अमूर्तानि यान्य् अत्रान्यत्र वा क्वचित्
सन्ति वै वस्तुजातानि तानि सर्वाणि तद्वपुः ॥
अहं हरिः सर्वम् इदं जनार्दनो नान्यत् ततः कारणकार्यजातम्
ईदृङ् मनो यस्य न तस्य भूयो भवोद्भवा द्वन्द्वगदा भवन्ति ॥
इत्य् एष ते ऽंशः प्रथमः पुराणस्यास्य वै द्विज
यथावत् कथितो यस्मिञ् श्रुते पापैर् विमुच्यते ॥
कार्त्तिक्यां पुष्करस्नाने द्वादशाब्दे तु यत् फलम्
तद् अस्य श्रवणे सर्वं मैत्रेयाप्नोति मानवः ॥
देवर्षिपितृगन्धर्व यक्षादीनां च संभवम्
भवन्ति शृण्वतः पुंसो देवाद्या वरदा मुने ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0