विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.9
इदं च शृणु मैत्रेय यत् पृष्टो ऽहम् इह त्वया
श्रीसंबद्धं मयाप्य् एतच् श्रुतम् आसीन् मरीचितः ॥
दुर्वासाः शंकरस्यांशश् चचार पृथिवीम् इमाम्
स ददर्श स्रजं दिव्याम् ऋषिर् विद्याधरीकरे ॥
संतानकानाम् अखिलं यस्या गन्धेन वासितम्
अतिसेव्यम् अभूद् ब्रह्मन् तद् वनं वनचारिणाम् ॥
उन्मत्तव्रतधृग् विप्रः स दृष्ट्वा शोभनां स्रजम्
तां ययाचे वरारोहां विद्याधरवधूं ततः ॥
याचिता तेन तन्वङ्गी मालां विद्याधराङ्गना
ददौ तस्मै विशालाक्षी सादरं प्रणिपत्य तम् ॥
ताम् आदायात्मनो मूर्ध्नि स्रजम् उन्मत्तरूपधृक्
कृत्वा स विप्रो मैत्रेय परिबभ्राम मेदिनीम् ॥
स ददर्श समायान्तम् उन्मत्तैरावतस्थितम्
त्रैलोक्याधिपतिं देवं सह देवैः शचीपतिम् ॥
ताम् आत्मनः स शिरसः स्रजम् उन्मत्तषट्पदाम्
आदायामरराजाय चिक्षेपोन्मत्तवन् मुनिः ॥
गृहीत्वामरराजेन स्रग् ऐरावतमूर्धनि
न्यस्ता रराज कैलास शिखरे जाह्नवी यथा ॥
मदान्धकारिताक्षो ऽसौ गन्धाकृष्टेन वारणः
करेणाघ्राय चिक्षेप तां स्रजं धरणीतले ॥
ततश् चुक्रोध भगवान् दुर्वासा मुनिसत्तमः
मैत्रेय देवराजानं क्रुद्धश् चैतद् उवाच ह ॥
ऐश्वर्यमददुष्टात्मन्न् अतिस्तब्धो ऽसि वासव
श्रियो धाम स्रजं यस् त्वं मद्दत्तां नाभिनन्दसि ॥
प्रसाद इति नोक्तं ते प्रणिपातपुरःसरम्
हर्षोत्फुल्लकपोलेन न चापि शिरसा धृता ॥
मया दत्ताम् इमां मालां यस्मान् न बहु मन्यसे
त्रैलोक्यश्रीर् अतो मूढ विनाशम् उपयास्यति ॥
मां मन्यते ऽन्यैः सदृशं नूनं शक्र भवान् द्विजैः
अतो ऽवमानम् अस्मासु मानिना भवता कृतम् ॥
मद्दत्ता भवता यस्मात् क्षिप्ता माला महीतले
तस्मात् प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति ॥
यस्य संजातकोपस्य भयम् एति चराचरम्
तं त्वं माम् अतिगर्वेण देवराजावमन्यसे ॥
महेन्द्रो वारणस्कन्धाद् अवतीर्य त्वरान्वितः
प्रसादयाम् आस मुनिं दुर्वाससम् अकल्मषम् ॥
प्रसाद्यमानः स तदा प्रणिपातपुरःसरम्
प्रत्युवाच सहस्राक्षं दुर्वासा मुनिसत्तमः ॥
नाहं कृपालुहृदयो न च मां भजते क्षमा
अन्ये ते मुनयः शक्र दुर्वाससम् अवेहि माम् ॥
गौतमादिभिर् अन्यैस् त्वं गर्वम् आपादितो मुधा
अक्षान्तिसारसर्वस्वं दुर्वाससम् अवेहि माम् ॥
वसिष्ठाद्यैर् दयासारैः स्तोत्रं कुर्वद्भिर् उच्चकैः
गर्वं गतो ऽसि येनैवं माम् अप्य् अद्यावमन्यसे ॥
ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम्
निरीक्ष्य कस् त्रिभुवने मम यो न गतो भयम् ॥
नाहं क्षमिष्ये बहुना किम् उक्तेन शतक्रतो
विडम्बनाम् इमां भूयः करोष्य् अनुनयात्मिकाम् ॥
इत्य् उक्त्वा प्रययौ विप्रो देवराजो ऽपि तं पुनः
आरुह्यैरावतं ब्रह्मन् प्रययाव् अमरावतीम् ॥
ततःप्रभृति निःश्रीकं सशक्रं भुवनत्रयम्
मैत्रेयासीद् अपध्वस्तं संक्षीणौषधिवीरुधम् ॥
न यज्ञाः संप्रवर्तन्ते न तपस्यन्ति तापसाः
न च दानादिधर्मेषु मनश् चक्रे तदा जनः ॥
निःसत्त्वाः सकला लोका लोभाद्युपहतेन्द्रियाः
स्वल्पे ऽपि हि बभूवुस् ते साभिलाषा द्विजोत्तम ॥
यतः सत्त्वं ततो लक्ष्मीः सत्त्वं भूत्यनुसारि च
निःश्रीकाणां कुतः सत्त्वं विना तेन गुणाः कुतः ॥
बलशौर्याद्यभावश् च पुरुषाणां गुणैर् विना
लङ्घनीयः समस्तस्य बलशौर्यविवर्जितः
भवत्य् अपध्वस्तमतिर् लङ्घितः प्रथितः पुमान् ॥
एवम् अत्यन्तनिःश्रीके त्रैलोक्ये सत्त्ववर्जिते
देवान् प्रति बलोद्योगं चक्रुर् दैतेयदानवाः ॥
लोभाभिभूता निःश्रीका दैत्याः सत्त्वविवर्जिताः
श्रिया विहीनैर् निःसत्त्वैर् देवैश् चक्रुस् ततो रणम् ॥
विजितास् त्रिदशा दैत्यैर् इन्द्राद्याः शरणं ययुः
पितामहं महाभागं हुताशनपुरोगमाः ॥
यथावत् कथितो देवैर् ब्रह्मा प्राह ततः सुरान्
परावरेशं शरणं व्रजध्वम् असुरार्दनम् ॥
उत्पत्तिस्थितिनाशानाम् अहेतुं हेतुम् ईश्वरम्
प्रजापतिपतिं विष्णुम् अनन्तम् अपराजितम् ॥
प्रधानपुंसोर् अजयोः कारणं कार्यभूतयोः
प्रणतार्तिहरं विष्णुं स वः श्रेयो विधास्यति ॥
एवम् उक्त्वा सुरान् सर्वान् ब्रह्मा लोकपितामहः
क्षीरोदस्योत्तरं तीरं तैर् एव सहितो ययौ ॥
स गत्वा त्रिदशैः सर्वैः समवेतः पितामहः
तुष्टाव वाग्भिर् इष्टाभिः परावरपतिं हरिम् ॥
नमामि सर्वं सर्वेशम् अनन्तम् अजम् अव्ययम्
लोकधामधराधारम् अप्रकाशम् अभेदिनम् ॥
नारायणम् अणीयांसम् अशेषाणाम् अणीयसाम्
समस्तानां गरिष्ठं च भूरादीनां गरीयसाम् ॥
यत्र सर्वं यतः सर्वम् उत्पन्नं मत्पुरःसरम्
सर्वभूतश् च यो देवः पराणाम् अपि यः परः ॥
परः परस्मात् पुरुषात् परमात्मस्वरूपधृक्
योगिभिश् चिन्त्यते यो ऽसौ मुक्तिहेतोर् मुमुक्षुभिः ॥
सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः
स शुद्धः सर्वशुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥
कलाकाष्ठानिमेषादि कालसूत्रस्य गोचरे
यस्य शक्तिर् न शुद्धस्य प्रसीदतु स नो हरिः ॥
प्रोच्यते परमेशो हि यः शुद्धो ऽप्य् उपचारतः
प्रसीदतु स नो विष्णुर् आत्मा यः सर्वदेहिनाम् ॥
यः कारणं च कार्यं च कारणस्यापि कारणम्
कार्यस्यापि च यः कार्यं प्रसीदतु स नो हरिः ॥
कार्यकार्यस्य यत् कार्यं तत्कार्यस्यापि यः स्वयम्
तत्कार्यकार्यभूतो यस् ततश् च प्रणतो ऽस्मि तम् ॥
कारणं कारणस्यापि तस्य कारणकारणम्
तत्कारणानां हेतुं तं प्रणतो ऽस्मि सुरेश्वरम् ॥
भोक्तारं भोज्यभूतं च स्रष्टारं सृज्यम् एव च
कार्यकर्तृस्वरूपं तं प्रणतो ऽस्मि परं पदम् ॥
विशुद्धबोधवन् नित्यम् अजम् अक्षयम् अव्ययम्
अव्यक्तम् अविकारं यत् तद् विष्णोः परमं पदम् ॥
न स्थूलं न च सूक्ष्मं यन् न विशेषणगोचरम्
तत् पदं परमं विष्णोः प्रणमामि सदामलम् ॥
यस्यायुतायुतांशांशे विश्वशक्तिर् इयं स्थिता
परब्रह्मस्वरूपस्य प्रणमामि तम् अव्ययम् ॥
यन् न देवा न मुनयो न चाहं न च शंकरः
जानन्ति परमेशस्य तद् विष्णोः परमं पदम् ॥
यद् योगिनः सदोद्युक्ताः पुण्यपापक्षये ऽक्षयम्
पश्यन्ति प्रणवे चिन्त्यं तद् विष्णोः परमं पदम् ॥
शक्तयो यस्य देवस्य ब्रह्मविष्णुशिवात्मिकाः
भवन्त्य् अभूतपूर्वस्य तद् विष्णोः परमं पदम् ॥
सर्वेश सर्वभूतात्मन् सर्व सर्वाश्रयाच्युत
प्रसीद विष्णो भक्तानां व्रज नो दृष्टिगोचरम् ॥
इत्य् उदीरितम् आकर्ण्य ब्रह्मणस् त्रिदशास् ततः
प्रणम्योचुः प्रसीदेति व्रज नो दृष्टिगोचरम् ॥
यन् नायं भगवान् ब्रह्मा जानाति परमं पदम्
तं नताः स्मो जगद्धाम तव सर्वगताच्युत ॥
इत्य् अन्ते वचसस् तेषां देवानां ब्रह्मणस् तथा
ऊचुर् देवर्षयः सर्वे बृहस्पतिपुरोगमाः ॥
आद्यो यज्ञः पुमान् ईड्यो यः पूर्वेषां च पूर्वजः
तं नताः स्मो जगत्स्रष्टुः स्रष्टारम् अविशेषणम् ॥
भगवन् भूतभव्येश यज्ञमूर्तिधराव्यय
प्रसीद प्रणतानां त्वं सर्वेषां देहि दर्शनम् ॥
एष ब्रह्मा तथैवायं सह रुद्रैस् त्रिलोचनः
सर्वादित्यैः समं पूषा पावको ऽयं सहाग्निभिः ॥
अश्विनौ वसवश् चेमे सर्वे चैते मरुद्गणाः
साध्या विश्वे तथा देवा देवेन्द्रश् चायम् ईश्वरः ॥
प्रणामप्रवणा नाथ दैत्यसैन्यपराजिताः
शरणं त्वाम् अनुप्राप्ताः समस्ता देवतागणाः ॥
एवं संस्तूयमानस् तु भगवाञ् छङ्खचक्रधृक्
जगाम दर्शनं तेषां मैत्रेय परमेश्वरः ॥
तं दृष्ट्वा ते तदा देवाः शङ्खचक्रगदाधरम्
अपूर्वरूपसंस्थानं तेजसां राशिम् ऊर्जितम् ॥
प्रणम्य प्रणताः पूर्वं संक्षोभस्तिमितेक्षणाः
तुष्टुवुः पुण्डरीकाक्षं पितामहपुरोगमाः ॥
नमो नमस् ते विश्वेश त्वं ब्रह्मा त्वं पिनाकधृक्
इन्द्रस् त्वम् अग्निः पवनो वरुणः सविता यमः
वसवो मरुतः साध्या विश्वेदेवगणा भवान् ॥
यो ऽयं तवागतो देव समीपं देवतागणः
स त्वम् एव जगत्स्रष्टा यतः सर्वगतो भवान् ॥
त्वं यज्ञस् त्वं वषट्कारस् त्वम् ओङ्कारः प्रजापतिः
वेत्ता वेद्यं च सर्वात्मंस् त्वन्मयं चाखिलं जगत् ॥
त्वाम् आर्ताः शरणं विष्णो प्रयाता दैत्यनिर्जिताः
वयं प्रसीद सर्वात्मंस् तेजसाप्याययस्व नः ॥
तावद् आर्तिस् तथा वाञ्छा तावन् मोहस् तथासुखम्
यावन् नायाति शरणं त्वाम् अशेषाघनाशनम् ॥
त्वं प्रसादं प्रसन्नात्मन् प्रपन्नानां कुरुष्व नः
तेजसां नाथ सर्वेषां स्वशक्त्याप्यायनं कुरु ॥
एवं संस्तूयमानस् तु प्रणतैर् अमरैर् हरिः
प्रसन्नदृष्टिर् भगवान् इदम् आह स विश्वकृत् ॥
तेजसो भवतां देवाः करिष्याम्य् उपबृंहणम्
वदाम्य् अहं यत् क्रियतां भवद्भिस् तद् इदं सुराः ॥
आनीय सहिता दैत्यैः क्षीराब्धौ सकलौषधीः
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्
मथ्यताम् अमृतं देवाः सहाये मय्य् अवस्थिते ॥
सामपूर्वं च दैतेयास् तत्र साहाय्यकर्मणि
सामान्यफलभोक्तारो यूयं वाच्या भविष्यथ ॥
मथ्यमाने च तत्राब्धौ यत् समुत्पद्यते ऽमृतम्
तत्पानाद् बलिनो यूयम् अमराश् च भविष्यथ ॥
तथा चाहं करिष्यामि ते यथा त्रिदशद्विषः
न प्राप्स्यन्त्य् अमृतं देवाः केवलं क्लेशभागिनः ॥
इत्य् उक्ता देवदेवेन सर्व एव ततः सुराः
संधानम् असुरैः कृत्वा यत्नवन्तो ऽमृते ऽभवन् ॥
नानौषधीः समानीय देवदैतेयदानवाः
क्षिप्त्वा क्षीराब्धिपयसि शरदभ्रामलत्विषि ॥
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम्
ततो मथितुम् आरब्धा मैत्रेय तरसामृतम् ॥
विबुधाः सहिताः सर्वे यतः पुच्छं ततः कृताः
कृष्णेन वासुकेर् दैत्याः पूर्वकाये निवेशिताः ॥
ते तस्य फणनिःश्वास वह्निनापहतत्विषः
निस्तेजसो ऽसुराः सर्वे बभूवुर् अमितद्युते ॥
तेनैव मुखनिःश्वास वायुनास्तबलाहकैः
पुच्छप्रदेशे वर्षद्भिस् तदा चाप्यायिताः सुराः ॥
क्षीरोदमध्ये भगवान् कूर्मरूपी स्वयं हरिः
मन्दराद्रेर् अधिष्ठानं भ्रमतो ऽभून् महामुने ॥
रूपेणान्येन देवानां मध्ये चक्रगदाधरः
चकर्ष नागराजानं दैत्यमध्ये ऽपरेण च ॥
उपर्य् आक्रान्तवाञ् छैलं बृहद्रूपेण केशवः
तथापरेण मैत्रेय यन् न दृष्टं सुरासुरैः ॥
तेजसा नागराजानं तथाप्यायितवान् हरिः
अन्येन तेजसा देवान् उपबृंहितवान् विभुः ॥
मथ्यमाने ततस् तस्मिन् क्षीराब्धौ देवदानवैः
हविर्धामाभवत् पूर्वं सुरभिः सुरपूजिता ॥
जग्मुर् मुदं ततो देवा दानवाश् च महामुने
व्याक्षिप्तचेतसश् चैव बभूवुः स्तिमितेक्षणाः ॥
किम् एतद् इति सिद्धानां दिवि चिन्तयतां ततः
बभूव वारुणी देवी मदाघूर्णितलोचना ॥
कृतावर्तात् ततस् तस्मात् क्षीरोदाद् वासयञ् जगत्
गन्धेन पारिजातो ऽभूद् देवस्त्रीनन्दनस् तरुः ॥
रूपौदार्यगुणोपेतस् ततश् चाप्सरसां गणः
क्षीरोदधेः समुत्पन्नो मैत्रेय परमाद्भुतः ॥
ततः शीतांशुर् अभवज् जगृहे तं महेश्वरः
जगृहुश् च विषं नागाः क्षीरोदाब्धिसमुत्थितम् ॥
ततो धन्वन्तरिर् देवः श्वेताम्बरधरः स्वयम्
बिभ्रत्कमण्डलुं पूर्णम् अमृतस्य समुत्थितः ॥
ततः स्वस्थमनस्कास् ते सर्वे दैतेयदानवाः
बभूवुर् मुदिताः सद्यो मैत्रेय मुनिभिः सह ॥
ततः स्फुरत्कान्तिमती विकासिकमले स्थिता
श्रीर् देवी पयसस् तस्माद् उत्थिता धृतपङ्कजा ॥
तां तुष्टुवुर् मुदा युक्ताः श्रीसूक्तेन महर्षयः ॥
विश्वावसुमुखास् तस्या गन्धर्वाः पुरतो जगुः
घृताचीप्रमुखा ब्रह्मन् ननृतुश् चाप्सरोगणाः ॥
गङ्गाद्याः सरितस् तोयैः स्नानार्थम् उपतस्थिरे
दिग्गजा हेमपात्रस्थम् आदाय विमलं जलम्
स्नापयां चक्रिरे देवीं सर्वलोकमहेश्वरीम् ॥
क्षीरोदो रूपधृक् तस्यै मालाम् अम्लानपङ्कजाम्
ददौ विभूषणान्य् अङ्गे विश्वकर्मा चकार ह ॥
दिव्यमाल्याम्बरधरा स्नाता भूषणभूषिता
पश्यतां सर्वदेवानां ययौ वक्षःस्थलं हरेः ॥
ततो ऽवलोकिता देवा हरिवक्षःस्थलस्थया
लक्ष्म्या मैत्रेय सहसा परां निर्वृतिम् आगताः ॥
उद्वेगं परमं जग्मुर् दैत्या विष्णुपराङ्मुखाः
त्यक्ता लक्ष्म्या महाभाग विप्रचित्तिपुरोगमाः ॥
ततस् ते जगृहुर् दैत्या धन्वन्तरिकरे स्थितम्
कमण्डलुं महावीर्या यत्रास्ते तद् द्विजामृतम् ॥
मायया मोहयित्वा तान् विष्णुः स्त्रीरूपम् आस्थितः
दानवेभ्यस् तद् आदाय देवेभ्यः प्रददौ विभुः ॥
ततः पपुः सुरगणाः शक्राद्यास् तत् तदामृतम्
उद्यतायुधनिस्त्रिंशा दैत्यास् तांश् च समभ्ययुः ॥
पीते ऽमृते च बलिभिर् देवैर् दैत्यचमूस् तदा
वध्यमाना दिशो भेजे पातालं च विवेश वै ॥
ततो देवा मुदा युक्ताः शङ्खचक्रगदाधरम्
प्रणिपत्य यथापूर्वम् अशासंस् तत् त्रिविष्टपम् ॥
देवदेवे गते तस्मिन् वासुदेवेश्वरं हरिम् ॥
तुष्टुवुः पुण्डरीकाक्षम् अन्तर्धानगतं हरिम् ॥
ततः प्रसन्नभाः सूर्यः प्रययौ स्वेन वर्त्मना
ज्योतींषि च यथामार्गं प्रययुर् मुनिसत्तम ॥
जज्वाल भगवांश् चोच्चैश् चारुदीप्तिर् विभावसुः
धर्मे च सर्वभूतानां तदा मतिर् अजायत ॥
श्रिया जुष्टं च त्रैलोक्यं बभूव द्विजसत्तम
शक्रश् च त्रिदशश्रेष्ठः पुनः श्रीमान् अजायत ॥
सिंहासनगतः शक्रः संप्राप्य त्रिदिवं पुनः
देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥
दुर्वासशापपातेन पुनर् मा भूद् इयं हरे ॥
तथ्येति चाभिप्रायेणस् तुष्टाव श्रियमानतः ॥
नमस्ये सर्वलोकानां जननीम् अब्जसंभवाम्
श्रियम् उन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥
पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् ॥
वन्दे पद्ममुखां देवीं पद्मनाभप्रियाम् अहम् ॥
त्वं सिद्धिस् त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी
संध्या रात्रिः प्रभा भूतिर् मेधा श्रद्धा सरस्वती ॥
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस् त्वम् एव च
सौम्यासौम्यैर् जगद् रूपैस् त्वयैतद् देवि पूरितम् ॥
का त्व् अन्या त्वाम् ऋते देवि सर्वयज्ञमयं वपुः
अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ॥
त्वया देवि परित्यक्तं सकलं भुवनत्रयम्
विनष्टप्रायम् अभवत् त्वयेदानीं समेधितम् ॥
दाराः पुत्रास् तथागारं सुहृद्धान्यधनादिकम्
भवत्य् एतन् महाभागे नित्यं त्वद्वीक्षणान् नृणाम् ॥
शरीरारोग्यम् ऐश्वर्यम् अरिपक्षक्षयः सुखम्
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥
त्वं माता सर्वभूतानां देवदेवो हरिः पिता
त्वयैतद् विष्णुना चाम्ब जगद् व्याप्तं चराचरम् ॥
मा नः कोशं तथा गोष्ठं मा गृहं मा परिच्छदम्
मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥
मा पुत्रान् मा सुहृद्वर्गान् मा पशून् मा विभूषणम्
त्यजेथा मम देवस्य विष्णोर् वक्षःस्थलालये ॥
सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर् गुणैः
त्यज्यन्ते ते नराः सद्यः संत्यक्ता ये त्वयामले ॥
त्वयावलोकिताः सद्यः शीलाद्यैर् अखिलैर् गुणैः
कुलैश्वर्यैश् च युज्यन्ते पुरुषा निर्गुणा अपि ॥
स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान्
स शूरः स च विक्रान्तो यस् त्वया देवि वीक्षितः ॥
सद्यो वैगुण्यम् आयान्ति शीलाद्याः सकला गुणाः
पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥
न ते वर्णयितुं शक्ता गुणाञ् जिह्वापि वेधसः
प्रसीद देवि पद्माक्षि मास्मांस् त्याक्षीः कदाचन ॥
एवं श्रीः संस्तुता सम्यक् प्राह हृष्टा शतक्रतुम्
शृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥
परितुष्टास्मि देवेश स्तोत्रेणानेन ते हरे
वरं वृणीष्व यस् त्व् इष्टो वरदाहं तवागता ॥
वरदा यदि मे देवि वरार्हो यदि चाप्य् अहम्
त्रैलोक्यं न त्वया त्याज्यम् एष मे ऽस्तु वरः परः ॥
स्तोत्रेण यस् तथैतेन त्वां स्तोष्यत्य् अब्धिसंभवे
स त्वया न परित्याज्यो द्वितीयो ऽस्तु वरो मम ॥
त्रैलोक्यं त्रिदशश्रेष्ठ न संत्यक्ष्यामि वासव
दत्तो वरो मयायं ते स्तोत्राराधनतुष्टया ॥
यश् च सायं तथा प्रातः स्तोत्रेणानेन मानवः
मां स्तोष्यति न तस्याहं भविष्यामि पराङ्मुखी ॥
एवं ददौ वरौ देवी देवराजाय वै पुरा
मैत्रेय श्रीर् महाभागा स्तोत्राराधनतोषिता ॥
भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वम् उदधेः पुनः
देवदानवयत्नेन प्रसूतामृतमन्थने ॥
एवं यदा जगत्स्वामी देवदेवो जनार्दनः
अवतारं करोत्य् एषा तदा श्रीस् तत्सहायिनी ॥
पुनश् च पद्मा संभूता आदित्यो ऽभूद् यदा हरिः
यदा तु भार्गवो रामस् तदाभूद् धरणी त्व् इयम् ॥
राघवत्वे ऽभवत् सीता रुक्मिणी कृष्णजन्मनि
अन्येषु चावतारेषु विष्णोर् एषा सहायिनी ॥
देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी
विष्णोर् देहानुरूपां वै करोत्य् एषात्मनस् तनुम् ॥
यश् चैतच् छृणुयाज् जन्म लक्ष्म्या यश् च पठेन् नरः
श्रियो न विच्युतिस् तस्य गृहे यावत् कुलत्रयम् ॥
पठ्यते येषु चैवेयं गृहेषु श्रीस्तुतिर् मुने
अलक्ष्मीः कलहाधारा न तेष्व् आस्ते कदाचन ॥
एतत् ते कथितं ब्रह्मन् यन् मां त्वं परिपृच्छसि
क्षीराब्धौ श्रीर् यथा जाता पूर्वं भृगुसुता सती ॥
इति सकलविभूत्यवाप्तिहेतुः स्तुतिर् इयम् इन्द्रमुखोद्गता हि लक्ष्म्याः
अनुदिनम् इह पठ्यते नृभिर् यैर् वसति न तेषु कदाचिद् अप्य् अलक्ष्मीः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0