भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.8

1.8.1

कथितस् तामसः सर्गो ब्रह्मणस् ते महामुने
रुद्रसर्गं प्रवक्ष्यामि तन् मे निगदतः शृणु ॥

1.8.2

कल्पादाव् आत्मनस् तुल्यं सुतं प्रध्यायतस् ततः
प्रादुर् आसीत् प्रभोर् अङ्के कुमारो नीललोहितः ॥

1.8.3

रुदन् वै सुस्वरं सो ऽथ द्रवंश् च द्विजसत्तम
किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह ॥

1.8.4

नाम देहीति तं सो ऽथ प्रत्युवाच प्रजापतिः
रुद्रस् त्वं देव नाम्नासि मा रोदीर् धैर्यम् आवह
एवम् उक्तः पुनः सो ऽथ सप्तकृत्वो रुरोद वै ॥

1.8.5

ततो ऽन्यानि ददौ तस्मै सप्त नामानि स प्रभुः
स्थानानि चैषाम् अष्टानां पत्नीः पुत्रांश् च वै विभुः ॥

1.8.6

भवं शर्वम् अथेशानं तथा पशुपतिं द्विज
भीमम् उग्रं महादेवम् उवाच स पितामहः ॥

1.8.7

चक्रे नामान्य् अथैतानि स्थानान्य् एषां चकार सः
सूर्यो जलं मही वायुर् वह्निर् आकाशम् एव च
दीक्षितो ब्राह्मणः सोम इत्य् एतास् तनवः क्रमात् ॥

1.8.8

सुवर्चला तथैवोषा विकेशी चापरा शिवा
स्वाहा दिशस् तथा दीक्षा रोहिणी च यथाक्रमम् ॥

1.8.9

सूर्यादीनां नरश्रेष्ठ रुद्राद्यैर् नामभिः सह
पत्न्यः स्मृता महाभाग तदपत्यानि मे शृणु ॥

1.8.10

येषां सूतिप्रसूतैश् च इदम् आपूरितं जगत् ॥

1.8.11

शनैश्चरस् तथा शुक्रो लोहिताङ्गो मनोजवः
स्कन्दः स्वर्गो ऽथ सन्तानो बुधश् चानुक्रमात् सुताः ॥

1.8.12

एवंप्रकारो रुद्रो ऽसौ सतीं भार्याम् अविन्दत
दक्षकोपाच् च तत्याज सा सती स्वं कलेवरम् ॥

1.8.12*27

उपयेमे दुहितरं दक्षस्यैव प्रजापतेः ॥

1.8.13

हिमवद्दुहिता साभून् मेनायां द्विजसत्तम
उपयेमे पुनश् चोमाम् अनन्यां भगवान् भवः ॥

1.8.14

देवौ धातृविधातारौ भृगोः ख्यातिर् असूयत
श्रियं च देवदेवस्य पत्नी नारायणस्य या ॥

1.8.15

क्षीराब्धौ श्रीः समुत्पन्ना श्रूयते ऽमृतमन्थने
भृगोः ख्यात्यां समुत्पन्नेत्य् एतद् आह कथं भवान् ॥

1.8.16

नित्यैवैषा जगन्माता विष्णोः श्रीर् अनपायिनी
यथा सर्वगतो विष्णुस् तथैवेयं द्विजोत्तम ॥

1.8.17

अर्थो विष्णुर् इयं वाणी नीतिर् एषा नयो हरिः
बोधो विष्णुर् इयं बुद्धिर् धर्मो ऽसौ सत्क्रिया त्व् इयम् ॥

1.8.18

स्रष्टा विष्णुर् इयं सृष्टिः श्रीर् भूमिर् भूधरो हरिः
संतोषो भगवांल् लक्ष्मीस् तुष्टिर् मैत्रेय शाश्वती ॥

1.8.19

इच्छा श्रीर् भगवान् कामो यज्ञो ऽसौ दक्षिणा तु सा
आज्याहुतिर् असौ देवी पुरोडाशो जनार्दनः ॥

1.8.20

पत्नीशाला मुने लक्ष्मीः प्राग्वंशो मधुसूदनः
चितिर् लक्ष्मीर् हरिर् यूप इध्मा श्रीर् भगवान् कुशः ॥

1.8.21

सामस्वरूपी भगवान् उद्गीतिः कमलालया
स्वाहा लक्ष्मीर् जगन्नाथो वासुदेवो हुताशनः ॥

1.8.22

शंकरो भगवाञ् छौरिर् गौरी लक्ष्मीर् द्विजोत्तम
मैत्रेय केशवः सूर्यस् तत्प्रभा कमलालया ॥

1.8.23

विष्णुः पितृगणः पद्मा स्वधा शाश्वतपुष्टिदा
द्यौः श्रीः सर्वात्मको विष्णुर् अवकाशो ऽतिविस्तरः ॥

1.8.24

शशाङ्कः श्रीधरः कान्तिः श्रीस् तस्यैवानपायिनी
धृतिर् लक्ष्मीर् जगच्चेष्टा वायुः सर्वत्रगो हरिः ॥

1.8.25

जलधिर् द्विज गोविन्दस् तद्वेला श्रीर् महामते
लक्ष्मीस्वरूपम् इन्द्राणी देवेन्द्रो मधुसूदनः ॥

1.8.26

यमश् चक्रधरः साक्षाद् धूमोर्णा कमलालया
ऋद्धिः श्रीः श्रीधरो देवः स्वयम् एव धनेश्वरः ॥

1.8.27

गौरी लक्ष्मीर् महाभागा केशवो वरुणः स्वयम्
श्रीर् देवसेना विप्रेन्द्र देवसेनापतिर् हरिः ॥

1.8.28

अवष्टम्भो गदापाणिः शक्तिर् लक्ष्मीर् द्विजोत्तम
काष्ठा लक्ष्मीर् निमेषो ऽसौ मुहूर्तो ऽसौ कला तु सा ॥

1.8.29

ज्योत्स्ना लक्ष्मीः प्रदीपो ऽसौ सर्वः सर्वेश्वरो हरिः
लताभूता जगन्माता श्रीर् विष्णुर् द्रुमसंस्थितिः ॥

1.8.30

विभावरी श्रीर् दिवसो देवश् चक्रगदाधरः
वरप्रदो वरो विष्णुर् वधूः पद्मवनालया ॥

1.8.31

नदस्वरूपी भगवाञ् श्रीर् नदीरूपसंस्थिता
ध्वजश् च पुण्डरीकाक्षः पताका कमलालया ॥

1.8.32

तृष्णा लक्ष्मीर् जगत्स्वामी लोभो नारायणः परः
रतिरागौ च धर्मज्ञ लक्ष्मीर् गोविन्द एव च ॥

1.8.33

किं वात्र बहुनोक्तेन संक्षेपेणेदम् उच्यते ॥

1.8.34

देवतिर्यङ्मनुष्येषु पुंनाम्नि भगवान् हरिः
स्त्रीनाम्नि लक्ष्मीर् मैत्रेय नानयोर् विद्यते परम् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc