विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.10
कथितं मे त्वया सर्वं यत् पृष्टो ऽसि महामुने
भृगुसर्गात् प्रभृत्य् एष सर्गो मे कथ्यतां पुनः ॥
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर् विष्णुपरिग्रहः
तथा धातृविधातारौ ख्यात्यां जातौ सुतौ भृगोः ॥
आयतिर् नियतिश् चैव मेरोः कन्ये महात्मनः
धातृविधात्रोस् ते भार्ये तयोर् जातौ सुताव् उभौ ॥
प्राणश् चैव मृकण्डुश् च मार्कण्डेयो मृकण्डुतः
ततो वेदशिरा जज्ञे प्राणस्यापि सुतं शृणु ॥
प्राणस्य द्युतिमान् पुत्रो राजवांश् च ततो ऽभवत्
ततो वंशो महाभाग विस्तारं भार्गवो गतः ॥
पत्नी मरीचेः संभूतिः पौर्णमासम् असूयत
विरजाः पर्वतश् चैव तस्य पुत्रौ महात्मनः ॥
वंशसंकीर्तने पुत्रान् वदिष्ये ऽहं ततो द्विज
स्मृतिश् चाङ्गिरसः पत्नी प्रसूता कन्यकास् तथा
सिनीवाली कुहूश् चैव राका चानुमती तथा ॥
अनसूया तथैवात्रेर् जज्ञे पुत्रान् अकल्मषान्
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥
प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस् तत्सुतो ऽभवत्
पूर्वजन्मनि सो ऽगस्त्यः स्मृतः स्वायंभुवे ऽन्तरे ॥
कर्दमश् चार्वरीवांश् च सहिष्णुश् च सुतत्रयम्
क्षमा तु सुषुवे भार्या पुलहस्य प्रजापतेः ॥
क्रतोश् च सन्नतिर् भार्या वालखिल्यान् असूयत
षष्टिस् तानि सहस्राणि ऋषीणाम् ऊर्ध्वरेतसाम्
अङ्गुष्ठपर्वमात्राणां ज्वलद्भास्करतेजसाम् ॥
ऊर्जायां च वसिष्ठस्य सप्ताजायन्त वै सुताः ॥
रजो गोत्रोर्ध्वबाहुश् च सवनश् चानघस् तथा
सुतपाः शुक्र इत्य् एते सर्वे सप्तर्षयो ऽमलाः ॥
यो ऽसाव् अग्निर् अभिमानी ब्रह्मणस् तनयो ऽग्रजः
तस्मात् स्वाहा सुतांल् लेभे त्रीन् उदारौजसो द्विज ॥
पावकं पवमानं च शुचिं चापि जलाशिनम् ॥
तेषां तु संतताव् अन्ये चत्वारिंशच् च पञ्च च
कथ्यन्ते वह्नयश् चैते पिता पुत्रत्रयं च यत् ॥
एवम् एकोनपञ्चाशद् वह्नयः परिकीर्तिताः ॥
पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव
अग्निष्वात्ता बर्हिषदो ऽनग्नयः साग्नयश् च ये ॥
तेभ्यः स्वधा सुते जज्ञे मेनां वै धारिणीं तथा
ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्य् उभे द्विज ॥
उत्तमज्ञानसंपन्ने सर्वैः समुदितैर् गुणैः ॥
इत्य् एषा दक्षकन्यानां कथितापत्यसंततिः
श्रद्धावान् संस्मरन्न् एताम् अनपत्यो न जायते ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0