भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.7

1.7.1

ततो ऽभिध्यायतस् तस्य जज्ञिरे मानसाः प्रजाः
तच्छरीरसमुत्पन्नैः कार्यैस् तैः करणैः सह
क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस् तस्य धीमतः ॥

1.7.2

ते सर्वे समवर्तन्त ये मया प्राग् उदाहृताः
देवाद्याः स्थावरान्ताश् च त्रैगुण्यविषये स्थिताः ॥

1.7.3

एवं भूतानि सृष्टानि चराणि स्थावराणि च ॥

1.7.4

यदास्य ताः प्रजाः सर्वा न व्यवर्धन्त धीमतः
तदान्यान् मानसान् पुत्रान् सदृशान् आत्मनो ऽसृजत् ॥

1.7.5

भृगुं पुलस्त्यं पुलहं क्रतुम् अङ्गिरसं तथा
मरीचिं दक्षम् अत्रिं च वसिष्ठं चैव मानसान् ॥

1.7.6

नव ब्रह्माण इत्य् एते पुराणे निश्चयं गताः ॥

1.7.6*26:1

ख्यातिं भूतिं च संभूतिं क्षमां प्रीतिं तथैव च ॥

1.7.6*26:2

सन्नतिं च तथैवोर्जाम् अनसूयां तथैव च ॥

1.7.6*26:3

प्रसूतिं च ततः सृष्ट्वा ददौ तेषां महात्मनाम् ॥

1.7.6*26:4

पत्न्यो भवध्वम् इत्य् उक्त्वा तेषाम् एव तु दत्तवान् ॥

1.7.7

सनन्दनादयो ये च पूर्वं सृष्टास् तु वेधसा
न ते लोकेष्व् असज्जन्त निरपेक्षाः प्रजासु ते ॥

1.7.8

सर्वे ते ऽभ्यागतज्ञाना वीतरागा विमत्सराः
तेष्व् एवं निरपेक्षेषु लोकसृष्टौ महात्मनः
ब्रह्मणो ऽभून् महान् क्रोधस् त्रैलोक्यदहनक्षमः ॥

1.7.9

तस्य क्रोधसमुद्भूतं ज्वालामालाविदीपितम्
ब्रह्मणो ऽभूत् तदा सर्वं त्रैलोक्यम् अखिलं मुने ॥

1.7.10

भ्रुकुटीकुटिलात् तस्य ललाटात् क्रोधदीपितात्
समुत्पन्नस् तदा रुद्रो मध्याह्नार्कसमप्रभः
अर्धनारीनरवपुः प्रचण्डो ऽतिशरीरवान् ॥

1.7.11

विभजात्मानम् इत्य् उक्त्वा तं ब्रह्मान्तर्दधे ततः ॥

1.7.12

तथोक्तो ऽसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाकरोत्
बिभेद पुरुषत्वं च दशधा चैकधा च सः ॥

1.7.13

सौम्यासौम्यैस् तथा शान्त (अ)शान्तैः स्त्रीत्वं च स प्रभुः
बिभेद बहुधा देवः स्वरूपैर् असितैः सितैः ॥

1.7.14

ततो ब्रह्मात्मसंभूतं पूर्वं स्वायम्भुवं प्रभुः
आत्मानम् एव कृतवान् प्राजापत्ये मनुं द्विज ॥

1.7.15

शतरूपां च तां नारीं तपोनिर्धूतकल्मषाम्
स्वायम्भुवो मनुर् देवः पत्नीत्वे जगृहे विभुः ॥

1.7.16

तस्माच् च पुरुषाद् देवी शतरूपा व्यजायत
प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञितम्
कन्याद्वयं च धर्मज्ञ रूपौदार्यगुणान्वितम् ॥

1.7.17

ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा
प्रजापतिः स जग्राह तयोर् जज्ञे सदक्षिणः
पुत्रो यज्ञो महाभाग दम्पत्योर् मिथुनं ततः ॥

1.7.18

यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे
यामा इति समाख्याता देवाः स्वायम्भुवे मनौ ॥

1.7.19

प्रसूत्यां च तथा दक्षश् चतस्रो विंशतिं तथा
ससर्ज कन्यास् तासां तु सम्यङ् नामानि मे शृणु ॥

1.7.20

श्रद्धा लक्ष्मीर् धृतिस् तुष्टिर् पुष्टिर् मेधा क्रिया तथा
बुद्धिर् लज्जा वपुः शान्तिः सिद्धिः कीर्तिस् त्रयोदशी ॥

1.7.21

पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥

1.7.22

ख्यातिः सत्य् अथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा
सन्नतिश् चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥

1.7.23

भृगुर् भवो मरीचिश् च तथा चैवाङ्गिरा मुनिः
पुलस्त्यः पुलहश् चैव क्रतुश् चर्षिवरस् तथा ॥

1.7.24

अत्रिर् वसिष्ठो वह्निश् च पितरश् च यथाक्रमम्
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तम ॥

1.7.25

श्रद्धा कामं चला दर्पं नियमं धृतिर् आत्मजम्
संतोषं च तथा तुष्टिर् लोभं पुष्टिर् असूयत ॥

1.7.26

मेधा श्रुतं क्रिया दण्डं नयं विनयम् एव च
बोधं बुद्धिस् तथा लज्जा विनयं वपुर् आत्मजम्
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिर् असूयत ॥

1.7.27

सुखं सिद्धिर् यशः कीर्तिर् इत्य् एते धर्मसूनवः
कामाद् रतिः सुतं हर्षं धर्मपौत्रम् असूयत ॥

1.7.28

हिंसा भार्या त्व् अधर्मस्य तयोर् जज्ञे तथानृतम्
कन्या च निकृतिस् ताभ्यां भयं नरकम् एव च ॥

1.7.29

माया च वेदना चैव मिथुनं त्व् इदम् एतयोः
तयोर् जज्ञे ऽथ वै माया मृत्युं भूतापहारिणम् ॥

1.7.30

वेदना स्वसुतं चापि दुःखं जज्ञे ऽथ रौरवात्
मृत्योर् व्याधिजराशोक तृष्णाक्रोधाश् च जज्ञिरे ॥

1.7.31

दुःखोत्तराः स्मृता ह्य् एते सर्वे चाधर्मलक्षणाः
नैषां भार्यास्ति पुत्रो वा ते सर्वे ह्य् ऊर्ध्वरेतसः ॥

1.7.32

रौद्राण्य् एतानि रूपाणि विष्णोर् मुनिवरात्मज
नित्यप्रलयहेतुत्वं जगतो ऽस्य प्रयान्ति वै ॥

1.7.33

दक्षो मरीचिर् अत्रिश् च भृग्वाद्याश् च प्रजेश्वराः
जगत्य् अत्र महाभाग नित्यं सर्गस्य हेतवः ॥

1.7.34

मनवो मनुपुत्राश् च भूपा वीर्यधराश् च ये
सन्मार्गाभिरताः शूरास् ते नित्यं स्थितिकारिणः ॥

1.7.35

येयं नित्यस्थितिर् ब्रह्मन् नित्यसर्गस् तथेरितः
नित्याभावश् च तेषां वै स्वरूपं मम कथ्यताम् ॥

1.7.36

सर्गस्थितिविनाशांश् च भगवान् मधुसूदनः
तैस् तै रूपैर् अचिन्त्यात्मा करोत्य् अव्याहतान् विभुः ॥

1.7.37

नैमित्तिकः प्राकृतिकस् तथैवात्यन्तिको द्विज
नित्यश् च सर्वभूतानां प्रलयो ऽयं चतुर्विधः ॥

1.7.38

ब्राह्मो नैमित्तिकस् तत्र यच् छेते जगतः पतिः
प्रयाति प्राकृते चैव ब्रह्माण्डं प्रकृतौ लयम् ॥

1.7.39

ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि
नित्यः सदैव जातानां यो विनाशो दिवानिशम् ॥

1.7.40

प्रसूतिः प्रकृतेर् या तु सा सृष्टिः प्राकृता स्मृता
दैनंदिनी तथा प्रोक्ता यान्तरप्रलयाद् अनु ॥

1.7.41

भूतान्य् अनुदिनं यत्र जायन्ते मुनिसत्तम
नित्यसर्गो हि स प्रोक्तः पुराणार्थविचक्षणैः ॥

1.7.42

एवं सर्वशरीरेषु भगवान् भूतभावनः
संस्थितः कुरुते विष्णुर् उत्पत्तिस्थितिसंयमान् ॥

1.7.43

सृष्टिस्थितिविनाशानां शक्तयः सर्वदेहिषु
वैष्णव्यः परिवर्तन्ते मैत्रेयाहर्निशं सदा ॥

1.7.44

गुणत्रयमयं ह्य् एतद् ब्रह्मञ् छक्तित्रयं महत्
यो ऽतियाति स यात्य् एव परं नावर्तते पुनः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc