विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.6
अर्वाक्स्रोतस् तु कथितो भवता यस् तु मानुषः
ब्रह्मन् विस्तरतो ब्रूहि ब्रह्मा तम् असृजद् यथा ॥
यथा च वर्णान् असृजद् यद्गुणांश् च महामुने
यच् च तेषां स्मृतं कर्म विप्रादीनां तद् उच्यताम् ॥
सत्याभिध्यायिनः पूर्वं सिसृक्षोर् ब्रह्मणो जगत्
अजायन्त द्विजश्रेष्ठ सत्त्वोद्रिक्ता मुखात् प्रजाः ॥
वक्षसो रजसोद्रिक्तास् तथान्या ब्रह्मणो ऽभवन्
रजसा तमसा चैव समुद्रिक्तास् तथोरुतः ॥
पद्भ्याम् अन्याः प्रजा ब्रह्मा ससर्ज द्विजसत्तम
तमःप्रधानास् ताः सर्वाश् चातुर्वर्ण्यम् इदं ततः ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च द्विजसत्तम
पादोरुवक्षःस्थलतो मुखतश् च समुद्गताः ॥
यज्ञनिष्पत्तये सर्वम् एतद् ब्रह्मा चकार वै
चातुर्वर्ण्यं महाभाग यज्ञसाधनम् उत्तमम् ॥
यज्ञैर् आप्यायिता देवा वृष्ट्युत्सर्गेण वै प्रजाः
आप्याययन्ते धर्मज्ञ यज्ञाः कल्याणहेतवः ॥
निष्पाद्यन्ते नरैस् तैस् तु स्वकर्माभिरतैः सदा
विशुद्धाचरणोपेतैः सद्भिः सन्मार्गगामिभिः ॥
स्वर्गापवर्गौ मानुष्यात् प्राप्नुवन्ति नरा मुने
यद् वाभिरुचितं स्थानं तद् यान्ति मनुजा द्विज ॥
प्रजास् ता ब्रह्मणा सृष्टाश् चातुर्वर्ण्यव्यवस्थितौ
सम्यक्छ्रद्धाः समाचार प्रवणा मुनिसत्तम ॥
यथेच्छावासनिरताः सर्वबाधाविवर्जिताः
शुद्धान्तःकरणाः शुद्धाः सर्वानुष्ठाननिर्मलाः ॥
शुद्धे च तासां मनसि शुद्धे ऽन्तःसंस्थिते हरौ
शुद्धज्ञानं प्रपश्यन्ति विष्ण्वाख्यं येन तत् पदम् ॥
ततः कालात्मको यो ऽसौ स चांशः कथितो हरेः
स पातयत्य् अघं घोरम् अल्पम् अल्पाल्पसारवत् ॥
अधर्मबीजम् उद्भूतं तमोलोभसमुद्भवम्
प्रजासु तासु मैत्रेय रागादिकम् असाधकम् ॥
ततः सा सहजा सिद्धिस् तेषां नातीव जायते
रसोल्लासादयश् चान्याः सिद्धयो ऽष्टौ भवन्ति याः ॥
तासु क्षीणास्व् अशेषासु वर्धमाने च पातके
द्वन्द्वाभिभवदुःखार्तास् ता भवन्ति ततः प्रजाः ॥
ततो दुर्गाणि ताश् चक्रुर् वार्क्षं पार्वतम् औदकम्
कृत्रिमं च तथा दुर्गं पुरखर्वटकादि यत् ॥
गृहाणि च यथान्यायं तेषु चक्रुः पुरादिषु
शीतातपादिबाधानां प्रशमाय महामते ॥
प्रतीकारम् इमं कृत्वा शीतादेस् ताः प्रजाः पुनः
वार्तोपायं ततश् चक्रुर् हस्तसिद्धिं च कर्मजाम् ॥
व्रीहयश् च यवाश् चैव गोधूमा अणवस् तिलाः
प्रियंगवो ह्य् उदाराश् च कोरदूषाः सतीनकाः ॥
माषा मुद्गा मसूराश् च निष्पावाः सकुलत्थकाः
आढक्यश् चणकाश् चैव शणाः सप्तदश स्मृताः ॥
इत्य् एता ओषधीनां तु ग्राम्यानां जातयो मुने
ओषध्यो यज्ञियाश् चैव ग्राम्यारण्याश् चतुर्दश ॥
व्रीहयः सयवा माषा गोधूमा अणवस् तिलाः
प्रियंगुसप्तमा ह्य् एता अष्टमास् तु कुलत्थकाः ॥
श्यामाकास् त्व् अथ नीवारा जर्तिलाः सगवेधुकाः
तथा वेणुयवाः प्रोक्तास् तद्वन् मर्कटका मुने ॥
ग्राम्यारण्याः स्मृता ह्य् एता ओषध्यस् तु चतुर्दश
यज्ञनिष्पत्तये यज्ञस् तथासां हेतुर् उत्तमः ॥
एताश् च सह यज्ञेन प्रजानां कारणं परम्
परावरविदः प्राज्ञास् ततो यज्ञान् वितन्वते ॥
अहन्य् अहन्य् अनुष्ठानं यज्ञानां मुनिसत्तम
उपकारकरं पुंसां क्रियमाणाघशान्तिदम् ॥
येषां तु कालसृष्टो ऽसौ पापबिन्दुर् महामते
चेतःसु ववृधे चक्रुस् ते न यज्ञेषु मानसम् ॥
वेदवादांस् तथा वेदान् यज्ञकर्मादिकं च यत्
तत् सर्वं निन्दमानास् ते यज्ञव्यासेधकारिणः ॥
प्रवृत्तिमार्गव्युच्छित्ति कारिणो वेदनिन्दकाः
दुरात्मानो दुराचारा बभूवुः कुटिलाशयाः ॥
संसिद्धायां तु वार्तायां प्रजाः सृष्ट्वा प्रजापतिः
मर्यादां स्थापयाम् आस यथास्थानं यथागुणम् ॥
वर्णानाम् आश्रमाणां च धर्मान् धर्मभृतां वर
लोकांश् च सर्ववर्णानां सम्यग्धर्मानुपालिनाम् ॥
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम्
स्थानम् ऐन्द्रं क्षत्रियाणां संग्रामेष्व् अनिवर्तिनाम् ॥
वैश्यानां मारुतं स्थानं स्वधर्मनिरतात्मनाम्
गान्धर्वं शूद्रजातीनां परिचर्यानुवर्तिनाम् ॥
अष्टाशीतिसहस्राणि मुनीनाम् ऊर्ध्वरेतसाम्
स्मृतं तेषां तु यत् स्थानं तद् एव गुरुवासिनाम् ॥
सप्तर्षीणां तु यत् स्थानं स्मृतं तद् वै वनौकसाम्
प्राजापत्यं गृहस्थानां ब्राह्मं संन्यासिनां स्मृतम् ॥
योगिनाम् अमृतं स्थानं यद् विष्णोः परमं पदम् ॥
एकान्तिनः सदा ब्रह्म ध्यायिनो योगिनो हि ये
तेषां तत् परमं स्थानं यद् वै पश्यन्ति सूरयः ॥
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥
तामिस्रम् अन्धतामिस्रं महारौरवरौरवौ
असिपत्रवनं घोरं कालसूत्रम् अवीचिमत् ॥
विनिन्दकानां वेदस्य यज्ञव्यासेधकारिणाम्
स्थानम् एतत् समाख्यातं स्वधर्मत्यागिनश् च ये ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0