विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.5
यथा ससर्ज देवो ऽसौ देवर्षिपितृदानवान्
मनुष्यतिर्यग्वृक्षादीन् भूव्योमसलिलौकसः ॥
यद्गुणं यत्स्वभावं च यद्रूपं च जगद् द्विज
सर्गादौ सृष्टवान् ब्रह्मा तन् ममाचक्ष्व विस्तरात् ॥
मैत्रेय कथयाम्य् एष शृणुष्व सुसमाहितः
यथा ससर्ज देवो ऽसौ देवादीन् अखिलान् विभुः ॥
सृष्टिं चिन्तयतस् तस्य कल्पादिषु यथा पुरा
अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस् तमोमयः ॥
तमो मोहो महामोहस् तामिस्रो ह्य् अन्धसंज्ञितः
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥
पञ्चधावस्थितः सर्गो ध्यायतो ऽप्रतिबोधवान्
बहिर् अन्तश् चाप्रकाशः संवृतात्मा नगात्मकः ॥
मुख्या नगा यतश् चोक्ता मुख्यसर्गस् ततस् त्व् अयम् ॥
तं दृष्ट्वासाधकं सर्गम् अमन्यद् अपरं पुनः ॥
तस्याभिध्यायतः सर्गं तिर्यक्स्रोतो ऽभ्यवर्तत
यस्मात् तिर्यक्प्रवृत्तः स तिर्यक्स्रोतस् ततः स्मृतः ॥
पश्वादयस् ते विख्यातास् तमःप्राया ह्य् अवेदिनः
उत्पथग्राहिणश् चैव ते ऽज्ञाने ज्ञानमानिनः ॥
अहंकृता अहंमाना अष्टाविंशद्वधात्मकाः
अन्तःप्रकाशास् ते सर्वे आवृताश् च परस्परम् ॥
तम् अप्य् असाधकं मत्वा ध्यायतो ऽन्यस् ततो ऽभवत्
ऊर्ध्वस्रोतस् तृतीयस् तु सात्त्विकोर्ध्वम् अवर्तत ॥
ते सुखप्रीतिबहुला बहिर् अन्तश् च नावृताः
प्रकाशा बहिर् अन्तश् च ऊर्ध्वस्रोतोद्भवाः स्मृताः ॥
तुष्ट्यात्मकस् तृतीयस् तु देवसर्गस् तु स स्मृतः
तस्मिन् सर्गे ऽभवत् प्रीतिर् निष्पन्ने ब्रह्मणस् तथा ॥
ततो ऽन्यं स तदा दध्यौ साधकं सर्गम् उत्तमम्
असाधकांस् तु ताञ् ज्ञात्वा मुख्यसर्गादिसंभवान् ॥
तथाभिध्यायतस् तस्य सत्याभिध्यायिनस् ततः
प्रादुर्भूतस् तदाव्यक्ताद् अर्वाक्स्रोतस् तु साधकः ॥
यस्माद् अर्वाग् व्यवर्तन्त ततो ऽर्वाक्स्रोतसस् तु ते
ते च प्रकाशबहुलास् तमोउद्रिक्ता रजोऽधिकाः ॥
तस्मात् ते दुःखबहुला भूयो भूयश् च कारिणः
प्रकाशा बहिर् अन्तश् च मनुष्याः साधकास् तु ते ॥
पञ्चमो ऽनुग्रहः सर्गः स चतुर्धा व्यवस्थितः ॥
विपर्ययेण चाशक्त्या सिद्ध्या तुष्ट्या तथैव च ॥
निवृत्तं वर्तमानं च सर्वे जानन्ति वै पुनः ॥
भूतादिकानां भूतानां षष्ठः सर्गः स उच्यते ॥
ते परिग्राहिणः सर्गे संविभागनताः सदा ॥
क्रोधनाश् चाप्य् अशीलाश् च ज्ञेया भूतादिकास् तु ते ॥
इत्य् एते कथिताः सर्गाः षड् अत्र मुनिसत्तम
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस् तु सः ॥
तन्मात्राणां द्वितीयश् च भूतसर्गस् तु स स्मृतः
वैकारिकस् तृतीयस् तु सर्ग ऐन्द्रियकः स्मृतः ॥
इत्य् एष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः
मुख्यसर्गश् चतुर्थस् तु मुख्या वै स्थावराः स्मृताः ॥
पञ्चमस् तु च यः प्रोक्तस् तैर्यग्योन्यः स उच्यते
ततोर्ध्वस्रोतसां षष्ठो देवसर्गस् तु स स्मृतः ॥
ततो ऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ॥
अष्टमो ऽनुग्रहः सर्गः सात्त्विकस् तामसश् च सः
पञ्चैते वैकृताः सर्गाः प्राकृतास् तु त्रयः स्मृताः ॥
प्राकृतो वैकृतश् चैव कौमारो नवमः स्मृतः
इत्य् एते वै समाख्याता नव सर्गाः प्रजापतेः ॥
प्राकृता वैकृताश् चैव जगतो मूलहेतवः
सृजतो जगदीशस्य किम् अन्यच् छ्रोतुम् इच्छसि ॥
संक्षेपात् कथितः सर्गो देवादीनां मुने त्वया
विस्तराच् छ्रोतुम् इच्छामि त्वत्तो मुनिवरोत्तम ॥
कर्मभिर् भाविताः पूर्वैः कुशलाकुशलैस् तु ताः
ख्यात्या तया ह्य् अनिर्मुक्ताः संहारे ऽप्य् उपसंहृताः ॥
स्थावरान्ताः सुराद्यास् तु प्रजा ब्रह्मंश् चतुर्विधाः
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास् तु ताः ॥
ततो देवासुरपितॄन् मनुष्यांश् च चतुष्टयम्
सिसृक्षुर् अम्भांस्य् एतानि स्वम् आत्मानम् अयूयुजत् ॥
युक्तात्मनस् तमोमात्रा उद्रिक्ताभूत् प्रजापतेः
सिसृक्षोर् जघनात् पूर्वम् असुरा जज्ञिरे ततः ॥
उत्ससर्ज ततस् तां तु तमोमात्रात्मिकां तनुम्
सा तु त्यक्ता ततस् तेन मैत्रेयाभूद् विभावरी ॥
सिसृक्षुर् अन्यदेहस्थः प्रीतिम् आप ततः सुराः
सत्त्वोद्रिक्ताः समुद्भूता मुखतो ब्रह्मणो द्विज ॥
त्यक्ता सापि तनुस् तेन सत्त्वप्रायम् अभूद् दिनम्
ततो हि बलिनो रात्राव् असुरा देवता दिवा ॥
सत्त्वमात्रात्मिकाम् एव ततो ऽन्यां जगृहे तनुम्
पितृवन् मन्यमानस्य पितरस् तस्य जज्ञिरे ॥
उत्ससर्ज पितॄन् सृष्ट्वा ततस् ताम् अपि स प्रभुः
सा चोत्सृष्टाभवत् संध्या दिननक्तान्तरस्थिता ॥
रजोमात्रात्मिकाम् अन्यां जगृहे स तनुं ततः
रजोमात्रोत्कटा जाता मनुष्या द्विजसत्तम ॥
ताम् अप्य् आशु स तत्याज तनुं सद्यः प्रजापतिः
ज्योत्स्ना समभवत् सापि प्राक्संध्या याभिधीयते ॥
ज्योत्स्नागमे तु बलिनो मनुष्याः पितरस् तथा
मैत्रेय संध्यासमये तस्माद् एते भवन्ति वै ॥
ज्योत्स्ना रात्र्यहनी संध्या चत्वार्य् एतानि वै विभोः
ब्रह्मणस् तु शरीराणि त्रिगुणोपाश्रयाणि तु ॥
रजोमात्रात्मिकाम् एव ततो ऽन्यां जगृहे तनुम्
ततः क्षुद् ब्रह्मणो जाता जज्ञे कोपस् तया ततः ॥
क्षुत्क्षामान् अन्धकारे ऽथ सो ऽसृजद् भगवान् प्रभुः
विरूपाः श्मश्रुला जातास् ते ऽभ्यधावन्त तं प्रभुम् ॥
मैवं भो रक्ष्यताम् एष यैर् उक्तं राक्षसास् तु ते
ऊचुः खादाम इत्य् अन्ये ये ते यक्षास् तु जक्षणात् ॥
अप्रियान् अथ तान् दृष्ट्वा केशाः शीर्यन्त वेधसः
हीनाश् च शिरसो भूयः समारोहन्त तच्छिरः ॥
सर्पणात् ते ऽभवन् सर्पा हीनत्वाद् अहयः स्मृताः
ततः क्रुद्धो जगत्स्रष्टा क्रोधात्मानो विनिर्ममे
वर्णेन कपिशेनोग्रा भूतास् ते पिशिताशनाः ॥
ध्यायतो ऽङ्गात् समुद्भूता गन्धर्वास् तस्य तत्क्षणात्
पिबन्तो जज्ञिरे वाचं गन्धर्वास् तेन ते द्विज ॥
एतानि सृष्ट्वा भगवान् ब्रह्मा तच्छक्तिचोदितः
ततः स्वच्छन्दतो ऽन्यानि वयांसि वयसो ऽसृजत् ॥
अवयो वक्षसश् चक्रे मुखतो ऽजाः स सृष्टवान्
सृष्टवान् उदराद् गाश् च पार्श्वाभ्यां च प्रजापतिः ॥
पद्भ्यां चाश्वान् समातङ्गान् रासभान् गवयान् मृगान्
उष्ट्रान् अश्वतरांश् चैव न्यङ्कून् अन्याश् च जातयः ॥
ओषध्यः फलमूलिन्यो रोमभ्यस् तस्य जज्ञिरे
त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ द्विजोत्तम
सृष्ट्वा पश्वोषधीः सम्यग् युयोज स तदाध्वरे ॥
गौर् अजः पुरुषो मेषा अश्वाश्वतरगर्दभाः
एतान् ग्राम्यान् पशून् आहुर् आरण्यांश् च निबोध मे ॥
श्वापदो द्विखुरो हस्ती वानरः पक्षिपञ्चमाः
औदकाः पशवः षष्ठाः सप्तमास् तु सरीसृपाः ॥
गायत्रं च ऋचश् चैव त्रिवृत्साम रथन्तरम्
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान् मुखात् ॥
यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा
बृहत् साम तथोक्थं च दक्षिणाद् असृजन् मुखात् ॥
सामानि जगतीछन्दः स्तोमं सप्तदशं तथा
वैरूपम् अतिरात्रं च पश्चिमाद् असृजन् मुखात् ॥
एकविंशम् अथर्वाणम् आप्तोर्यामाणम् एव च
अनुष्टुभं स वैराजम् उत्तराद् असृजन् मुखात् ॥
उच्चावचानि भूतानि गात्रेभ्यस् तस्य जज्ञिरे
देवासुरपितॄन् सृष्ट्वा मनुष्यांश् च प्रजापतिः ॥
ततः पुनः ससर्जादौ स कल्पस्य पितामहः
यक्षान् पिशाचान् गन्धर्वान् तथैवाप्सरसां गणान् ॥
नरकिंनररक्षांसि वयःपशुमृगोरगान्
अव्ययं च व्ययं चैव यद् इदं स्थाणुजङ्गमम् ॥
तत् ससर्ज तदा ब्रह्मा भगवान् आदिकृद् विभुः
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे
तान्य् एव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्माव् ऋतानृते
तद्भाविताः प्रपद्यन्ते तस्मात् तत् तस्य रोचते ॥
इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः
नानात्वं विनियोगांश् च धातैवं व्यसृजत् स्वयम् ॥
नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम्
वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥
ऋषीणां नामधेयानि यथा वेदश्रुतानि वै
यथा नियोगयोग्यानि सर्वेषाम् अपि सो ऽकरोत् ॥
यथर्तुष्व् ऋतुलिङ्गानि नानारूपाणि पर्यये
दृश्यन्ते तानि तान्य् एव तथा भावा युगादिषु ॥
करोत्य् एवंविधां सृष्टिं कल्पादौ स पुनः पुनः
सिसृक्षाशक्तियुक्तो ऽसौ सृज्यशक्तिप्रचोदितः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0