विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.4
ब्रह्मा नारायणाख्यो ऽसौ कल्पादौ भगवान् यथा
ससर्ज सर्वभूतानि तद् आचक्ष्व महामुने ॥
प्रजाः ससर्ज भगवान् ब्रह्मा नारायणात्मकः
प्रजापतिपतिर् देवो यथा तन् मे निशामय ॥
अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः
सत्त्वोद्रिक्तस् तथा ब्रह्मा शून्यं लोकम् अवैक्षत ॥
नारायणः परो ऽचिन्त्यः परेषाम् अपि स प्रभुः
ब्रह्मस्वरूपी भगवान् अनादिः सर्वसंभवः ॥
इमं चोदाहरन्त्य् अत्र श्लोकं नारायणं प्रति
ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥
तोयान्तः स महीं ज्ञात्वा जगत्य् एकार्णवे प्रभुः
अनुमानात् तदुद्धारं कर्तुकामः प्रजापतिः ॥
अकरोत् स तनूम् अन्यां कल्पादिषु यथा पुरा
मत्स्यकूर्मादिकां तद्वद् वाराहं वपुर् आस्थितः ॥
वेदयज्ञमयं रूपम् अशेषजगतः स्थितौ
स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः ॥
जनलोकगतैः सिद्धैः सनकाद्यैर् अभिष्टुतः
प्रविवेश तदा तोयम् आत्माधारो धराधरः ॥
निरीक्ष्य तं तदा देवी पातालतलम् आगतम्
तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुंधरा ॥
नमस् ते सर्वभूताय तुभ्यं शङ्खगदाधर
माम् उद्धरास्माद् अद्य त्वं त्वत्तो ऽहं पूर्वम् उत्थिता ॥
त्वयाहम् उद्धृता पूर्वं त्वन्मयाहं जनार्दन
तथान्यानि च भूतानि गगनादीन्य् अशेषतः ॥
नमस् ते परमात्मात्मन् पुरुषात्मन् नमो ऽस्तु ते
प्रधानव्यक्तभूताय कालभूताय ते नमः ॥
त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत्
सर्गादिषु प्रभो ब्रह्म विष्णुरुद्रात्मरूपधृक् ॥
संभक्षयित्वा सकलं जगत्य् एकार्णवीकृते
शेषे त्वम् एव गोविन्द चिन्त्यमानो मनीषिभिः ॥
भवतो यत् परं रूपं तन् न जानाति कश्चन
अवतारेषु यद् रूपं तद् अर्चन्ति दिवौकसः ॥
त्वाम् आराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः
वासुदेवम् अनाराध्य को मोक्षं समवाप्स्यति ॥
यत् किंचिन् मनसा ग्राह्यं यद् ग्राह्यं चक्षुरादिभिः
बुद्ध्या च यत् परिच्छेद्यं तद् रूपम् अखिलं तव ॥
त्वन्मयाहं त्वदाधारा त्वत्सृष्टा त्वाम् उपाश्रिता
माधवीम् इति लोको ऽयम् अभिधत्ते ततो हि माम् ॥
जयाखिलज्ञानमय जय स्थूलमयाव्यय
जयानन्त जयाव्यक्त जय व्यक्तमय प्रभो
परापरात्मन् विश्वात्मञ् जय यज्ञपते ऽनघ ॥
त्वं यज्ञस् त्वं वषट्कारस् त्वम् ओंकारस् त्वम् अग्नयः
त्वं वेदास् त्वं तदङ्गानि त्वं यज्ञपुरुषो हरे ॥
सूर्यादयो ग्रहास् तारा नक्षत्राण्य् अखिलानि च
मूर्तामूर्तम् अदृश्यं च दृश्यं च पुरुषोत्तम ॥
तथैव मायया सर्वं त्वत्तो ऽहम् इव दृश्यते ॥
यच् चोक्तं यच् च नैवोक्तं मयात्र परमेश्वर
तत् सर्वं त्वं नमस् तुभ्यं भूयो भूयो नमो नमः ॥
एवं संस्तूयमानस् तु पृथिव्या पृथिवीधरः
सामस्वरध्वनिः श्रीमाञ् जगर्ज परिघर्घरम् ॥
ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः
रसातलाद् उत्पलपत्रसंनिभः समुत्थितो नील इवाचलो महान् ॥
उत्तिष्ठता तेन मुखानिलाहतं तत्संप्लवाम्भो जनलोकसंश्रयान्
सनन्दनादीन् अपकल्मषान् मुनीन् चकार भूयो ऽपि पवित्रतास्पदम् ॥
प्रयान्ति तोयानि खुराग्रविक्षते रसातले ऽधः कृतशब्दसंततम्
श्वासानिलार्ताः परितः प्रयान्ति सिद्धा जने ये नियतं वसन्ति ॥
नारायणस्यापि तनुर् विशन्ति ... ॥
उत्तिष्ठतस् तस्य जलार्द्रकुक्षेर् महावराहस्य महीं विगृह्य
विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयः स्तुवन्ति ॥
तं तुष्टुवुस् तोषपरीतचेतसो लोके जने ये निवसन्ति योगिनः
सनन्दनाद्या नतिनम्रकन्धरा धराधरं धीरतरोद्धतेक्षणम् ॥
जयेश्वराणां परमेश केशव प्रभो गदाशङ्खधरासिचक्रधृक्
प्रसूतिनाशस्थितिहेतुर् ईश्वरस् त्वम् एव नान्यत् परमं च यत् पदम् ॥
पादेषु वेदास् तव यूपदंष्ट्र दन्तेषु यज्ञाश् चितयश् च वक्त्रे
हुताशजिह्वो ऽसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस् त्वम् एव ॥
विलोचने रात्र्यहनी महात्मन् सर्वास्पदं ब्रह्म परं शिरस् ते
सूक्तान्य् अशेषाणि सटाकलापो घ्राणं समस्तानि हवींषि देव ॥
स्रुक्तुण्ड सामस्वरधीरनाद प्राग्वंशकायाखिलसत्रसंधे
पूर्तेष्टधर्मश्रवणो ऽसि देव सनातनात्मन् भगवन् प्रसीद ॥
पदक्रमाक्रान्तम् अनन्तम् आदि स्थितं त्वम् एवाक्षर विश्वमूर्ते
विश्वस्य विद्मः परमेश्वरो ऽसि प्रसीद नाथो ऽसि चराचरस्य ॥
दंष्ट्राग्रविन्यस्तम् अशेषम् एतद् भूमण्डलं नाथ विभाव्यते ते
विगाहतः पद्मवनं विलग्नं सरोजिनीपत्रम् इवोढपङ्कम् ॥
द्यावापृथिव्योर् अतुलप्रभाव यद् अन्तरं तद् वपुषा तवैव
व्याप्तं जगद् व्याप्तिसमर्थदीप्ते हिताय विश्वस्य विभो भव त्वम् ॥
परमार्थस् त्वम् एवैको नान्यो ऽस्ति जगतः पते
तवैष महिमा येन व्याप्तम् एतच् चराचरम् ॥
यद् एतद् दृश्यते मूर्तम् एतज् ज्ञानात्मनस् तव
भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपम् अयोगिनः ॥
ज्ञानस्वरूपम् अखिलं जगद् एतद् अबुद्धयः
अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे ॥
ये तु ज्ञानविदः शुद्ध चेतसस् ते ऽखिलं जगत्
ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर ॥
प्रसीद सर्वसर्वात्मन् भवाय जगताम् इमाम्
उद्धरोर्वीम् अमेयात्मञ् शं नो देह्य् अब्जलोचन ॥
सत्त्वोद्रिक्तो ऽसि भगवन् गोविन्द पृथिवीम् इमाम्
समुद्धर भवायेश शं नो देह्य् अब्जलोचन ॥
सर्गप्रवृत्तिर् भवतो जगताम् उपकारिणी
भवत्व् एषा नमस् ते ऽस्तु शं नो देह्य् अब्जलोचन ॥
एवं संस्तूयमानस् तु परमात्मा महीधरः
उज्जहार क्षितिं क्षिप्रं न्यस्तवांश् च महार्णवे ॥
तस्योपरि जलौघस्य महती नौर् इव स्थिता
विततत्वात् तु देहस्य न मही याति संप्लवम् ॥
ततः क्षितिं समां कृत्वा पृथिव्यां सो ऽचिनोद् गिरीन्
यथाविभागं भगवान् अनादिः सर्वसंभवः ॥
प्राक्सर्गदग्धान् अखिलान् पर्वतान् पृथिवीतले
अमोघेन प्रभावेन ससर्जामोघवाञ्छितः ॥
भूविभागं ततः कृत्वा सप्तद्वीपं यथातथम्
भूराद्यांश् चतुरो लोकान् पूर्ववत् समकल्पयत् ॥
ब्रह्मरूपधरो देवस् ततो ऽसौ रजसा वृतः
चकार सृष्टिं भगवांश् चतुर्वक्त्रधरो हरिः ॥
निमित्तमात्रम् एवासौ सृज्यानां सर्गकर्मणि
प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥
निमित्तमात्रं मुक्त्वैकं नान्यत् किंचिद् अपेक्ष्यते
नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0