भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.3

1.3.1

निर्गुणस्याप्रमेयस्य शुद्धस्याप्य् अमलात्मनः
कथं सर्गादिकर्तृत्वं ब्रह्मणो ऽभ्युपगम्यते ॥

1.3.2

शक्तयः सर्वभावानाम् अचिन्त्यज्ञानगोचराः
यतो ऽतो ब्रह्मणस् तास् तु सर्गाद्या भावशक्तयः
भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥

1.3.3

तन् निबोध यथा सर्गे भगवान् संप्रवर्तते
नारायणाख्यो भगवान् ब्रह्मा लोकपितामहः ॥

1.3.4

उत्पन्नः प्रोच्यते विद्वन् नित्य एवोपचारतः ॥

1.3.5

निजेन तस्य मानेन आयुर् वर्षशतं स्मृतम्
तत् पराख्यं तदर्धं च परार्धम् अभिधीयते ॥

1.3.6

कालस्वरूपं विष्णोश् च यन् मयोक्तं तवानघ
तेन तस्य निबोध त्वं परिमाणोपपादनम् ॥

1.3.7

अन्येषां चैव जन्तूनां चराणाम् अचराश् च ये
भूभूभृत्सागरादीनाम् अशेषाणां च सत्तम ॥

1.3.8

काष्ठा पञ्चदशाख्याता निमेषा मुनिसत्तम
काष्ठात्रिंशत् कला त्रिंशत् कला मौहूर्तिको विधिः ॥

1.3.9

तावत्संख्यैर् अहोरात्रं मुहूर्तैर् मानुषं स्मृतम्
अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥

1.3.10

तैः षड्भिर् अयनं वर्षं द्वे ऽयने दक्षिणोत्तरे
अयनं दक्षिणं रात्रिर् देवानाम् उत्तरं दिनम् ॥

1.3.11

दिव्यैर् वर्षसहस्रैस् तु कृतत्रेतादिसंज्ञितम्
चतुर्युगं द्वादशभिस् तद्विभागं निबोध मे ॥

1.3.12

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम्
दिव्याब्दानां सहस्राणि युगेष्व् आहुः पुराविदः ॥

1.3.13

तत्प्रमाणैः शतैः संध्या पूर्वा तत्राभिधीयते
संध्यांशकश् च तत्तुल्यो युगस्यानन्तरो हि सः ॥

1.3.14

संध्यासंध्यांशयोर् अन्तर् यः कालो मुनिसत्तम
युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञितः ॥

1.3.15

कृतं त्रेता द्वापरश् च कलिश् चैव चतुर्युगम्
प्रोच्यते तत्सहस्रं च ब्रह्मणो दिवसं मुने ॥

1.3.16

ब्रह्मणो दिवसे ब्रह्मन् मनवस् तु चतुर्दश
भवन्ति परिमाणं च तेषां कालकृतं शृणु ॥

1.3.17

सप्तर्षयः सुराः शक्रो मनुस् तत्सूनवो नृपाः
एककाले हि सृज्यन्ते संह्रियन्ते च पूर्ववत् ॥

1.3.18

चतुर्युगाणां संख्याता साधिका ह्य् एकसप्ततिः
मन्वन्तरं मनोः कालः सुरादीनां च सत्तम ॥

1.3.19

अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतम्
द्वापञ्चाशत् तथान्यानि सहस्राण्य् अधिकानि तु ॥

1.3.20

त्रिंशत्कोट्यस् तु संपूर्णाः संख्याताः संख्यया द्विज
सप्तषष्टिस् तथान्यानि नियुतानि महामुने ॥

1.3.20*22:1

द्विचत्वारिंशता युक्त शतेनाप्य् अधिकास् तथा ॥

1.3.20*22:2

दिव्याह्नः पञ्चसाहस्र मासा दश दिनाष्टकम् ॥

1.3.20*22:3

चतुर् यामा मुहूर्तौ द्वाव् अष्टाव् अपि कलास् तथा ॥

1.3.20*22:4

काष्टा सप्तदश द्वौ च निमेषौ तदनन्तरम् ॥

1.3.20*22:5

दैवस्यैकनिमेषस्य सप्तमो भाग इष्यते ॥

1.3.20*22:6

मानुषाब्दास् तु लक्ष्याणि तथाष्टादश तत्परम् ॥

1.3.20*22:7

सहस्रम् अष्टाविंशत्या युताश् चाब्दा चतुःशती ॥

1.3.20*22:8

चतुर्विंशेद् अहोरात्रे युता मासाश् च षट् तथा ॥

1.3.20*22:9

नाड्यो द्वादश तावत्यः कलाश् च तदनन्तरम् ॥

1.3.20*22:10

पञ्चविंशति काष्टाश् च निमेषा दशसायिका ॥

1.3.21

विंशतिश् च सहस्राणि कालो ऽयम् अधिकं विना
मन्वन्तरस्य संख्येयं मानुषैर् वत्सरैर् द्विज ॥

1.3.22

चतुर्दशगुणो ह्य् एष कालो ब्राह्मम् अहः स्मृतम्
ब्राह्मो नैमित्तिको नाम तस्यान्ते प्रतिसंचरः ॥

1.3.23

तदा हि दह्यते सर्वं त्रैलोक्यं भूर्भुवादिकम्
जनं प्रयान्ति तापार्ता महर्लोकनिवासिनः ॥

1.3.24

एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः
भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहितः ॥

1.3.25

जनस्थैर् योगिभिर् देवश् चिन्त्यमानो ऽब्जसंभवः
तत्प्रमाणां हि तां रात्रिं तदन्ते सृजते पुनः ॥

1.3.26

एवं तु ब्रह्मणो वर्षम् एवं वर्षशतं च यत्
शतं हि तस्य वर्षाणां परमायुर् महात्मनः ॥

1.3.27

एकम् अस्य व्यतीतं तु परार्धं ब्रह्मणो ऽनघ
तस्यान्ते ऽभून् महाकल्पः पाद्म इत्य् अभिविश्रुतः ॥

1.3.28

द्वितीयस्य परार्धस्य वर्तमानस्य वै द्विज
वाराह इति कल्पो ऽयं प्रथमः परिकीर्तितः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc