भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.2

1.2.1

अविकाराय शुद्धाय नित्याय परमात्मने
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥

1.2.2

नमो हिरण्यगर्भाय हरये शंकराय च
वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे ॥

1.2.3

एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः
अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे ॥

1.2.4

सर्गस्थितिविनाशानां जगतो यो जगन्मयः
मूलभूतो नमस् तस्मै विष्णवे परमात्मने ॥

1.2.5

आधारभूतं विश्वस्याप्य् अणीयांसम् अणीयसाम्
प्रणम्य सर्वभूतस्थम् अच्युतं पुरुषोत्तमम् ॥

1.2.6

ज्ञानस्वरूपम् अत्यन्त निर्मलं परमार्थतः
तम् एवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥

1.2.7

विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे तथा प्रभुम्
प्रणम्य जगताम् ईशम् अजम् अक्षयम् अव्ययम् ॥

1.2.8

कथयामि यथापूर्वं दक्षाद्यैर् मुनिसत्तमैः
पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥

1.2.9

तैश् चोक्तं पुरुकुत्साय भूभुजे नर्मदातटे
सारस्वताय तेनापि मम सारस्वतेन च ॥

1.2.10

परः पराणां परमः परमात्मात्मसंस्थितः
रूपवर्णादिनिर्देश विशेषणविवर्जितः ॥

1.2.11

अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः
वर्जितः शक्यते वक्तुं यः सदास्तीति केवलम् ॥

1.2.12

सर्वत्रासौ समस्तं च वसत्य् अत्रेति वै यतः
ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥

1.2.13

तद् ब्रह्म परमं नित्यम् अजम् अक्षयम् अव्ययम्
एकस्वरूपं च सदा हेयाभावाच् च निर्मलम् ॥

1.2.14

तद् एव सर्वम् एवैतद् व्यक्ताव्यक्तस्वरूपवत्
तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥

1.2.15

परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज
व्यक्ताव्यक्ते तथैवान्ये रूपे कालस् तथापरम् ॥

1.2.16

प्रधानपुरुषव्यक्त कालानां परमं हि यत्
पश्यन्ति सूरयः शुद्धं तद् विष्णोः परमं पदम् ॥

1.2.17

प्रधानपुरुषव्यक्त कालास् तु प्रविभागशः
रूपाणि स्थितिसर्गान्त व्यक्तिसद्भावहेतवः ॥

1.2.18

व्यक्तं विष्णुस् तथाव्यक्तं पुरुषः काल एव च
क्रीडतो बालकस्येव चेष्टां तस्य निशामय ॥

1.2.19

अव्यक्तं कारणं यत् तत् प्रधानम् ऋषिसत्तमैः
प्रोच्यते प्रकृतिः सूक्ष्मा नित्या सदसदात्मिका ॥

1.2.20

अक्षयं नान्यदाधारम् अमेयम् अजरं ध्रुवम्
शब्दस्पर्शविहीनं तद् रूपादिभिर् असंहतम् ॥

1.2.21

त्रिगुणं तज् जगद्योनिर् अनादिप्रभवाव्ययम्
तेनाग्रे सर्वम् एवासीद् व्याप्तं वै प्रलयाद् अनु ॥

1.2.22

वेदवादविदो विद्वन् नियता ब्रह्मवादिनः
पठन्ति चैतम् एवार्थं प्रधानप्रतिपादकम् ॥

1.2.23

नाहो न रात्रिर् न नभो न भूमिर् नासीत् तमो ज्योतिर् अभून् न चान्यत्
श्रोत्रादिबुद्ध्यानुपलभ्यम् एकं प्राधानिकं ब्रह्म पुमांस् तदासीत् ॥

1.2.24

विष्णोः स्वरूपात् परतो हि ते ऽन्ये रूपे प्रधानं पुरुषश् च विप्र
तस्यैव ते ऽन्येन धृते वियुक्ते रूपान्तरं तद् द्विज कालसंज्ञम् ॥

1.2.25

प्रकृतौ च स्थितं व्यक्तम् अतीतप्रलये तु यत्
तस्मात् प्राकृतसंज्ञो ऽयम् उच्यते प्रतिसंचरः ॥

1.2.26

अनादिर् भगवान् कालो नान्तो ऽस्य द्विज विद्यते
अव्युच्छिन्नास् ततस् त्व् एते सर्गस्थित्यन्तसंयमाः ॥

1.2.27

गुणसाम्ये ततस् तस्मिन् पृथक् पुंसि व्यवस्थिते
कालस्वरूपं तद् विष्णोर् मैत्रेय परिवर्तते ॥

1.2.27*21

कालस्वरूपरूपं तद् विष्णोर् मैत्रेय वर्तते ॥

1.2.28

ततस् तत् परमं ब्रह्म परमात्मा जगन्मयः
सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः ॥

1.2.29

प्रधानं पुरुषं चापि प्रविश्यात्मेच्छया हरिः
क्षोभयाम् आस संप्राप्ते सर्गकाले व्ययाव्ययौ ॥

1.2.30

यथा संनिधिमात्रेण गन्धः क्षोभाय जायते
मनसो नोपकर्तृत्वात् तथासौ परमेश्वरः ॥

1.2.31

स एव क्षोभको ब्रह्मन् क्षोभ्यश् च पुरुषोत्तमः
स संकोचविकासाभ्यां प्रधानत्वे ऽपि च स्थितः ॥

1.2.32

विकासाणुस्वरूपैश् च ब्रह्मरूपादिभिस् तथा
व्यक्तस्वरूपश् च तथा विष्णुः सर्वेश्वरेश्वरः ॥

1.2.33

गुणसाम्यात् ततस् तस्मात् क्षेत्रज्ञाधिष्ठितान् मुने
गुणव्यञ्जनसंभूतिः सर्गकाले द्विजोत्तम ॥

1.2.34

प्रधानतत्त्वम् उद्भूतं महान्तं तत् समावृणोत्
सात्त्विको राजसश् चैव तामसश् च त्रिधा महान्
प्रधानतत्त्वेन समं त्वचा बीजम् इवावृतम् ॥

1.2.35

वैकारिकस् तैजसश् च भूतादिश् चैव तामसः
त्रिविधो ऽयम् अहंकारो महत्तत्त्वाद् अजायत ॥

1.2.36

भूतेन्द्रियाणां हेतुः स त्रिगुणत्वान् महामुने
यथा प्रधानेन महान् महता स तथावृतः ॥

1.2.37

भूतादिस् तु विकुर्वाणः शब्दतन्मात्रकं ततः
ससर्ज शब्दतन्मात्राद् आकाशं शब्दलक्षणम् ॥

1.2.38

शब्दमात्रं तथाकाशं भूतादिः स समावृणोत्
आकाशस् तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ॥

1.2.39

बलवान् अभवद् वायुस् तस्य स्पर्शो गुणो मतः
आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ॥

1.2.40

ततो वायुर् विकुर्वाणो रूपमात्रं ससर्ज ह
ज्योतिर् उत्पद्यते वायोस् तद् रूपगुणम् उच्यते ॥

1.2.41

स्पर्शमात्रस् ततो वायू रूपमात्रं समावृणोत्
ज्योतिश् चापि विकुर्वाणं रसमात्रं ससर्ज ह ॥

1.2.42

संभवन्ति ततो ऽम्भांसि रसाधाराणि तानि च
रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत् ॥

1.2.43

विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे
संघातो जायते तस्मात् तस्य गन्धो गुणो मतः ॥

1.2.44

तस्मिंस् तस्मिंस् तु तन्मात्रा तेन तन्मात्रता स्मृता
तन्मात्राण्य् अविशेषाणि अविशेषास् ततो हि ते ॥

1.2.45

न शान्ता नापि घोरास् ते न मूढाश् चाविशेषिणः
भूततन्मात्रसर्गो ऽयम् अहंकारात् तु तामसात् ॥

1.2.46

तैजसानीन्द्रियाण्य् आहुर् देवा वैकारिका दश
एकादशं मनश् चात्र देवा वैकारिकाः स्मृताः ॥

1.2.47

त्वक् चक्षुर् नासिका जिह्वा श्रोत्रम् अत्र च पञ्चमम्
शब्दादीनाम् अवाप्त्यर्थं बुद्धियुक्तानि वै द्विज ॥

1.2.48

पायूपस्थौ करौ पादौ वाक् च मैत्रेय पञ्चमी
विसर्गशिल्पगत्युक्ति कर्म तेषां च कथ्यते ॥

1.2.49

आकाशवायुतेजांसि सलिलं पृथिवी तथा
शब्दादिभिर् गुणैर् ब्रह्मन् संयुक्तान्य् उत्तरोत्तरैः ॥

1.2.50

शान्ता घोराश् च मूढाश् च विशेषास् तेन ते स्मृताः ॥

1.2.51

नानावीर्याः पृथग्भूतास् ततस् ते संहतिं विना
नाशक्नुवन् प्रजाः स्रष्टुम् असमागम्य कृत्स्नशः ॥

1.2.52

समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः
एकसंघातलक्ष्याश् च संप्राप्यैक्यम् अशेषतः ॥

1.2.53

पुरुषाधिष्ठितत्वाच् च अव्यक्तानुग्रहेण च
महदाद्या विशेषान्ता ह्य् अण्डम् उत्पादयन्ति ते ॥

1.2.54

तत् क्रमेण विवृद्धं तु जलबुद्बुदवत् समम्
भूतेभ्यो ऽण्डं महाबुद्धे बृहत् तद् उदकेशयम्
प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानम् अनुत्तमम् ॥

1.2.55

तत्राव्यक्तस्वरूपो ऽसौ व्यक्तरूपी जगत्पतिः
विष्णुर् ब्रह्मस्वरूपेण स्वयम् एव व्यवस्थितः ॥

1.2.56

मेरुर् उल्बम् अभूत् तस्य जरायुश् च महीधराः
गर्भोदकं समुद्राश् च तस्यासन् सुमहात्मनः ॥

1.2.57

साद्रिद्वीपसमुद्राश् च सज्योतिर् लोकसंग्रहः
तस्मिन्न् अण्डे ऽभवद् विप्र सदेवासुरमानुषः ॥

1.2.58

वारिवह्न्यनिलाकाशैस् ततो भूतादिना बहिः
वृतं दशगुणैर् अण्डं भूतादिर् महता तथा ॥

1.2.59

अव्यक्तेनावृतो ब्रह्मंस् तैः सर्वैः सहितो महान्
एभिर् आवरणैर् अण्डं सप्तभिः प्राकृतैर् वृतम्
नालिकेरफलस्यान्तर् बीजं बाह्यदलैर् इव ॥

1.2.60

जुषन् रजोगुणं तत्र स्वयं विश्वेश्वरो हरिः
ब्रह्मा भूत्वास्य जगतो विसृष्टौ संप्रवर्तते ॥

1.2.61

सृष्टं च पात्य् अनुयुगं यावत् कल्पविकल्पना
सत्त्वभृद् भगवान् विष्णुर् अप्रमेयपराक्रमः ॥

1.2.62

तमोउद्रेकी च कल्पान्ते रुद्ररूपी जनार्दनः
मैत्रेयाखिलभूतानि भक्षयत्य् अतिभीषणः ॥

1.2.63

संभक्षयित्वा भूतानि जगत्य् एकार्णवीकृते
नागपर्यङ्कशयने शेते ऽसौ परमेश्वरः ॥

1.2.64

प्रबुद्धश् च पुनः सृष्टिं करोति ब्रह्मरूपधृक् ॥

1.2.65

सृष्टिस्थित्यन्तकरणाद् ब्रह्मविष्णुशिवात्मिकाम्
स संज्ञां याति भगवान् एक एव जनार्दनः ॥

1.2.66

स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च
उपसंहरते चान्ते संहर्ता च स्वयं प्रभुः ॥

1.2.67

पृथिव्य् आपस् तथा तेजो वायुर् आकाशम् एव च
सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज् जगत् ॥

1.2.68

स एव सर्वभूतेशो विश्वरूपो यतो ऽव्ययः
सर्गादिकं ततो ऽस्यैव भूतस्थम् उपकारकम् ॥

1.2.69

स एव सृज्यः स च सर्गकर्ता स एव पात्य् अत्ति च पाल्यते च
ब्रह्माद्यवस्थाभिर् अशेषमूर्तिर् विष्णुर् वरिष्ठो वरदो वरेण्यः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc