भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.21

1.21.1

संह्लादपुत्र आयुष्माञ् शिबिर् बाष्कल एव च
विरोचनस् तु प्राह्लादिर् बलिर् जज्ञे विरोचनात् ॥

1.21.2

बलेः पुत्रशतं त्व् आसीद् बाणज्येष्ठं महामुने
हिरण्याक्षसुताश् चासन् सर्व एव महाबलाः ॥

1.21.3

झर्झरः शकुनिश् चैव भूतसंतापनस् तथा
महानाभो महाबाहुः कालनाभस् तथापरः ॥

1.21.4

अभवन् दनुपुत्राश् च द्विमूर्धा शंकरस् तथा
अयोमुखः शङ्कुशिराः कपिलः शम्बरस् तथा ॥

1.21.5

एकचक्रो महाबाहुस् तारकश् च महाबलः
स्वर्भानुर् वृषपर्वा च पुलोमा च महाबलः ॥

1.21.6

एते दनोः सुताः ख्याता विप्रचित्तिश् च वीर्यवान् ॥

1.21.7

स्वर्भानोस् तु प्रभा कन्या शर्मिष्ठा वार्षपर्वणी
उपदानवी हयशिराः प्रख्याता वरकन्यकाः ॥

1.21.8

वैश्वानरसुते चोभे पुलोमा कालका तथा
उभे ते तु महाभागे मारीचेस् तु परिग्रहः ॥

1.21.9

ताभ्यां पुत्रसहस्राणि षष्टिर् दानवसत्तमाः
पौलोमाः कालकेयाश् च मारीचतनयाः स्मृताः ॥

1.21.10

ततो ऽपरे महावीर्या दारुणास् त्व् अतिनिर्घृणाः
सिंहिकायाम् अथोत्पन्ना विप्रचित्तेः सुतास् तथा ॥

1.21.11

त्र्यंशः शल्यश् च बलवान् नभश् चैव महाबलः
वातापिर् नमुचिश् चैव इल्वलः खसृमस् तथा ॥

1.21.12

अन्धको नरकश् चैव कालनाभस् तथैव च
स्वर्भानुश् च महावीर्यो वक्त्रयोधी महासुरः ॥

1.21.13

एते वै दानवश्रेष्ठा दनुवंशविवर्धनाः
एतेषां पुत्रपौत्राश् च शतशो ऽथ सहस्रशः ॥

1.21.14

प्रह्लादस्य तु दैत्यस्य निवातकवचाः कुले
समुत्पन्नाः सुमहता तपसा भावितात्मनः ॥

1.21.15

षट् सुताः सुमहासत्त्वास् ताम्रायाः परिकीर्तिताः
शुकी श्येनी च भासी च सुग्रीवी शुचिगृध्रिका ॥

1.21.16

शुकी शुकान् अजनयद् उलूकी प्रत्युलूककान्
श्येनी श्येनांस् तथा भासी भासान् गृद्ध्रांश् च गृद्ध्र्य् अपि ॥

1.21.17

शुच्य् औदकान् पक्षिगणान् सुग्रीवी तु व्यजायत
अश्वान् उष्ट्रान् गर्दभांश् च ताम्रावंशाः प्रकीर्तिताः ॥

1.21.18

विनतायास् तु द्वौ पुत्रौ विख्यातौ गरुडारुणौ
सुपर्णः पततां श्रेष्ठो दारुणः पन्नगाशनः ॥

1.21.19

सुरसायाः सहस्रं तु सर्पाणाम् अमितौजसाम्
अनेकशिरसां ब्रह्मन् खेचराणां महात्मनाम् ॥

1.21.20

काद्रवेयास् तु बलिनः सहस्रम् अमितौजसः
सुपर्णवशगा ब्रह्मञ् जज्ञिरे नैकमस्तकाः ॥

1.21.21

तेषां प्रधानभूतास् ते शेषवासुकितक्षकाः
शङ्खश्वेतो महापद्मः कम्बलाश्वतराव् उभौ ॥

1.21.22

एलापुत्रस् तथा नागः कर्कोटकधनंजयौ
एते चान्ये च बहवो दन्दशूका विषोल्बणाः ॥

1.21.23

गणं क्रोधवशं विद्धि ते च सर्वे च दंष्ट्रिणः
स्थलजाः पक्षिणो ऽब्जाश् च दारुणाः पिशिताशनाः ॥

1.21.23*59

क्रोधात् तु जनयाम् आस पिशाचांश् च महाबलान् ॥

1.21.24

गास् तु वै जनयाम् आस सुरभिर् महिषीस् तथा
इरावृक्षलतावल्लीस् तृणजातीश् च सर्वशः ॥

1.21.25

खषा तु यक्षरक्षांसि मुनिर् अप्सरसस् तथा
अरिष्टा तु महासत्त्वान् गन्धर्वान् समजीजनत् ॥

1.21.26

एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः
तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः ॥

1.21.27

एष मन्वन्तरे सर्गो ब्रह्मन् स्वारोचिषे स्मृतः
वैवस्वते च महति वारुणे वितते क्रतौ ॥

1.21.28

जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते
पूर्वं यत्र तु सप्तर्षीन् उत्पन्नान् सप्त मानसान् ॥

1.21.29

पुत्रत्वे कल्पयाम् आस स्वयम् एव पितामहः
गन्धर्वभोगिदेवानां दानवानां च सत्तम ॥

1.21.30

दितिर् विनष्टपुत्रा वै तोषयाम् आस कश्यपम्
तया चाराधितः सम्यक् कश्यपस् तपतां वरः ॥

1.21.31

वरेण छन्दयाम् आस सा च वव्रे ततो वरम्
पुत्रम् इन्द्रवधार्थाय समर्थम् अमितौजसम् ॥

1.21.32

स च तस्यै वरं प्रादाद् भार्यायै मुनिसत्तमः
दत्त्वा च वरम् अव्यग्रः कश्यपस् ताम् उवाच ह ॥

1.21.33ab

शक्रं पुत्रो निहन्ता ते यदि गर्भं शरच्छतम् ॥

1.21.33ab*60:1

संध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि ॥

1.21.33ab*60:2

न स्थातव्यं न भोक्तव्यं वृक्षमूलेषु सर्वदा ॥

1.21.33cd

समाहितातिप्रयता शुचिनी धारयिष्यसि ॥

1.21.34

इत्य् एवम् उक्त्वा तां देवीं स गतः कश्यपो मुनिः
दधार सा च तं गर्भं सम्यक् छौचसमन्विता ॥

1.21.35

गर्भम् आत्मवधार्थाय ज्ञात्वा तं मघवान् अपि
शुश्रूषुस् ताम् अथागच्छद् विनयाद् अमराधिपः ॥

1.21.36

तस्याश् चैवान्तरप्रेप्सुर् अतिष्ठत् पाकशासनः
ऊने वर्षशते चास्या ददर्शान्तरम् आत्मवान् ॥

1.21.37

अकृत्वा पादयोः शौचं दितिः शयनम् आविशत्
निद्राम् आहारयाम् आस तस्याः कुक्षिं प्रविश्य सः ॥

1.21.38

वज्रपाणिर् महागर्भं तं चिच्छेदाथ सप्तधा
स पाट्यमानो वज्रेण प्ररुरोदातिदारुणम् ॥

1.21.39

मा रोदीर् इति तं शक्रः पुनः पुनर् अभाषत
सो ऽभवत् सप्तधा गर्भस् तम् इन्द्रः कुपितः पुनः ॥

1.21.40

एकैकं सप्तधा चक्रे वज्रेणारिविदारिणा
मरुतो नाम देवास् ते बभूवुर् अतिवेगिनः ॥

1.21.41

यद् उक्तं वै मघवता तेनैव मरुतो ऽभवन्
देवा एकोनपञ्चाशत् सहाया वज्रपाणिनः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc