विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.20
एवं संचिन्तयन् विष्णुम् अभेदेनात्मनो द्विज
तन्मयत्वम् अवापाग्र्यं मेने चात्मानम् अच्युतम् ॥
विसस्मार तथात्मानं नान्यत् किंचिद् अजानत
अहम् एवाव्ययो ऽनन्तः परमात्मेत्य् अचिन्तयत् ॥
तस्य तद्भावनायोगात् क्षीणपापस्य वै क्रमात्
शुद्धे ऽन्तःकरणे विष्णुस् तस्थौ ज्ञानमयो ऽच्युतः ॥
योगप्रभावात् प्रह्लादे जाते विष्णुमये ऽसुरे
चलत्य् उरगबन्धैस् तैर् मैत्रेय त्रुटितं क्षणात् ॥
भ्रान्तग्राहगणः सोर्मिर् ययौ क्षोभं महार्णवः
चचाल च मही सर्वा सशैलवनकानना ॥
स च तं शैलसंघातं दैत्यैर् न्यस्तम् अथोपरि
प्रक्षिप्य तस्मात् सलिलान् निश्चक्राम महामतिः ॥
दृष्ट्वा च स जगद् भूयो गगनाद्युपलक्षणम्
प्रह्लादो ऽस्मीति सस्मार पुनर् आत्मानम् आत्मना ॥
तुष्टाव च पुनर् धीमान् अनादिं पुरुषोत्तमम्
एकाग्रमतिर् अव्यग्रो यतवाक्कायमानसः ॥
ओं नमः परमार्थार्थ स्थूलसूक्ष्म क्षराक्षर
व्यक्ताव्यक्त कलातीत सकलेश निरञ्जन ॥
गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थित
मूर्तामूर्त महामूर्ते सूक्ष्ममूर्ते स्फुटास्फुट ॥
करालसौम्यरूपात्मन् विद्याविद्यामयाच्युत
सदसद्रूपसद्भाव सदसद्भावभावन ॥
नित्यानित्य प्रपञ्चात्मन् निष्प्रपञ्चामलाश्रय
एकानेक नमस् तुभ्यं वासुदेवादिकारण ॥
यः स्थूलसूक्ष्मः प्रकटप्रकाशो यः सर्वभूतो न च सर्वभूतः
विश्वं यतश् चैतद् अविश्वहेतोर् नमो ऽस्तु तस्मै पुरुषोत्तमाय ॥
तस्य तच्चेतसो देवः स्तुतिम् इत्थं प्रकुर्वतः
आविर्बभूव भगवान् पीताम्बरधरो हरिः ॥
ससंभ्रमस् तम् आलोक्य समुत्थायाकुलाक्षरम्
नमो ऽस्तु विष्णवैत्य् एतद् व्याजहारासकृद् द्विज ॥
देव प्रपन्नार्तिहर प्रसादं कुरु केशव
अवलोकनदानेन भूयो मां पावयाव्यय ॥
कुर्वतस् ते प्रसन्नो ऽहं भक्तिम् अव्यभिचारिणीम्
यथाभिलषितो मत्तः प्रह्लाद व्रियतां वरः ॥
नाथ योनिसहस्रेषु येषु येषु व्रजाम्य् अहम्
तेषु तेष्व् अच्युता भक्तिर् अच्युतास्तु सदा त्वयि ॥
या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी
त्वाम् अनुस्मरतः सा मे हृदयान् मापसर्पतु ॥
मयि भक्तिस् तवास्त्य् एव भूयो ऽप्य् एवं भविष्यति
वरश् च मत्तः प्रह्लाद व्रियतां यस् तवेप्सितः ॥
मयि द्वेषानुबन्धो ऽभूत् संस्तुताव् उद्यते तव
मत्पितुस् तत्कृतं पापं देव तस्य प्रणश्यतु ॥
शस्त्राणि पातितान्य् अङ्गे क्षिप्तो यच् चाग्निसंहतौ
दंशितश् चोरगैर् दत्तं यद् विषं मम भोजने ॥
बद्ध्वा समुद्रे यत् क्षिप्तो यच् चितो ऽस्मि शिलोच्चयैः
अन्यानि चाप्य् असाधूनि यानि पित्रा कृतानि मे ॥
त्वयि भक्तिमतो द्वेषाद् अघं तत्संभवं च यत्
त्वत्प्रसादात् प्रभो सद्यस् तेन मुच्येत मे पिता ॥
प्रह्लाद सर्वम् एतत् ते मत्प्रसादाद् भविष्यति
अन्यं च ते वरं दद्मि व्रियताम् असुरात्मज ॥
कृतकृत्यो ऽस्मि भगवन् वरेणानेन यत् त्वयि
भवित्री त्वत्प्रसादेन भक्तिर् अव्यभिचारिणी ॥
धर्मार्थकामैः किं तस्य मुक्तिस् तस्य करे स्थिता
समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि ॥
यथा ते निश्चलं चेतो मयि भक्तिसमन्वितम्
तथा त्वं मत्प्रसादेन निर्वाणं परम् आप्स्यसि ॥
इत्य् उक्त्वान्तर्दधे विष्णुस् तस्य मैत्रेय पश्यतः
स चापि पुनर् आगम्य ववन्दे चरणौ पितुः ॥
तं पिता मूर्ध्न्य् उपाघ्राय परिष्वज्य च पीडितम्
जीवसीत्य् आह वत्सेति बाष्पार्द्रनयनो द्विज ॥
प्रीतिमांश् चाभवत् तस्मिन्न् अनुतापी महासुरः
गुरुपित्रोश् चकारैवं शुश्रूषां सो ऽपि धर्मवित् ॥
पितर्य् उपरतिं नीते नरसिंहस्वरूपिणा
विष्णुना सो ऽपि दैत्यानां मैत्रेयाभूत् पतिस् ततः ॥
तद्राज्यभूतिं संप्राप्य कर्मशुद्धिकरीं द्विज
पुत्रपौत्रांश् च सुबहून् अवाप्यैश्वर्यम् एव च ॥
क्षीणाधिकारः स यदा पुण्यपापविवर्जितः
तदासौ भगवद्ध्यानात् परं निर्वाणम् आप्तवान् ॥
एवंप्रभावो दैत्यो ऽसौ मैत्रेयासीन् महामतिः
प्रह्लादो भगवद्भक्तो यं त्वं माम् अनुपृच्छसि ॥
यस् त्व् एतच् चरितं तस्य प्रह्लादस्य महात्मनः
शृणोति तस्य पापानि सद्यो गच्छन्ति संक्षयम् ॥
अहोरात्रकृतं पापं प्रह्लादचरितं नरः
शृण्वन् पठंश् च मैत्रेय व्यपोहति न संशयः ॥
पौर्णमास्याम् अमावास्याम् अष्टम्याम् अथ वा पठन्
द्वादश्यां वा तद् आप्नोति गोप्रदानफलं द्विज ॥
प्रह्लादं सकलापत्सु यथा रक्षितवान् हरिः
तथा रक्षति यस् तस्य शृणोति चरितं सदा ॥
करुणं चरणानम्रे चारुणं प्रणतद्रुहि ॥
प्रह्लादवरदं वन्दे नृसिंहघृणिभीषणं ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0