विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.1
जितं ते पुण्डरीकाक्ष नमस् ते विश्वभावन
नमस् ते ऽस्तु हृषीकेश महापुरुष पूर्वज ॥
सदक्षरं ब्रह्म य ईश्वरः पुमान् गुणोर्मिसृष्टिस्थितिकालसंलयः
प्रधानबुद्ध्यादिजगत्प्रपञ्चसूः स नो ऽस्तु विष्णुर् मतिभूतिमुक्तिदः ॥
प्रणम्य विष्णुं विश्वेशं ब्रह्मादीन् प्रणिपत्य च
गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसंमितम् ॥
इतिहासपुराणज्ञं वेदवेदाङ्गपारगम्
धर्मशास्त्रादितत्त्वज्ञं वसिष्ठतनयात्मजम् ॥
समस्तचेतोभिमतार्थसिद्धये गणैः सुराणाम् अपि संस्तुतौ यः
अशेषविघ्नेन्धनजातवेदसं नमामि तं शुद्धधियं गणाधिपम् ॥
पद्मासनं पद्मसमाननं च पद्मस्य योनिश् चतुराननं च
षडङ्गवेदैश् च विभूषिताङ्गं पितामहं तं प्रणतो ऽस्मि नित्यम् ॥
.... .... .... .तात्मने [लचुन]
इतिहासपुराणानाम् आदिकर्त्रे नमो नमः ॥
कृत्वा तन् नरसिंहरूपम् अतुलं लोकत्रयव्यापि यद् व्यालं विस्फुटचारुकेसरसटासंघातरम्याकृतिः
वक्षो वज्रशिलासमूहकठिनं विस्तारि देवद्विषो भिन्नं येन नखैर् मुदेस् तु भगवान् देवः स वः केशवः ॥
जयति कमलोदरवपुः कम[ल]मुखः कमलगर्भसंभूतः ।
सुरनमितचरणकमलः कमलासनसंस्थितो ब्रह्मा ॥
जयति जलभारगर्भितनिलाम्बुदनीलवपुः ।
मन्दरगिरिपरिवर्तनविषमशिलालाञ्छनो विभुः ॥
जयति शशिखण्डमण्डितविकटजटामुकुटसंकटललाटम् ।
स्फुटदशनकिरणविकसितमुखकमलचतुष्टयं शंभोः ॥
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अगजाननपद्मार्कं गजाननम् अहर्निशम्
अनेकदन्तं भक्तानाम् एकदन्तम् उपास्महे ॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासन
य ब्रह्माच्युतशंकरप्रभृतिभिर् देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥
यस्माद् इदं जगद् अजायत यत्र तिष्ठत्य् अन्ते समस्तम् इदं अस्तम् उपैति यत्र ।
तस्मै नमः सदसदादिविकल्पशून्य चैतन्यमात्रवपुषे पुरुषोत्तमाय ॥
तत्त्वेन यश् च दधदीश्वरतत्स्वभाव भोगापवर्गतदुपायगतीर् उदारः ।
संदर्शयन् निरमिमीत पुराणरत्नं तस्मै नमो मुनिवराय पराशराय ॥
अंशैः षड्भिः समाकीणम् अङ्गैर् वेदम् इवापरम्
पुराणं वैष्णवं चक्रे यस् तम् वन्दे पराशरम् ॥
पङ्केरुहाक्षाय भवौषधाय भक्तार्तिनाशाय परात् पराय
तार्क्ष्याधिरूढाय सुखप्रदाय अक्ष्मीवराहाय नमः परस्मै ॥
यस्यासीत् प्रपितामहो गुणनिधेर् देवः पुराणो जगत् सृष्टा यस्य पितामहो मतिमतां श्रेष्ठो वसिष्ठः पिता
शक्तिर् यस्य जगद्धिताय भगवान् व्यासो हरिः पुत्रतां यातो यस्य पराशरं तम् अतुलम् वन्दामहे निर्मलम् ॥
पराशरं मुनिवरं कृतपूर्वाह्णिकक्रियम्
मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥
त्वत्तो हि वेदाध्ययनम् अधीतम् अखिलं गुरो
धर्मशास्त्राणि सर्वाणि वेदाङ्गानि यथाक्रमम् ॥
त्वत्प्रसादान् मुनिश्रेष्ठ माम् अन्ये नाकृतश्रमम्
वक्ष्यन्ति सर्वशास्त्रेषु प्रायशो ये ऽपि विद्विषः ॥
सो ऽहम् इच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत्
बभूव भूयश् च यथा महाभाग भविष्यति ॥
यन्मयं च जगद् ब्रह्मन् यतश् चैतच् चराचरम्
लीनम् आसीद् यथा यत्र लयम् एष्यति यत्र च ॥
यत्प्रमाणानि भूतानि देवादीनां च संभवम्
समुद्रपर्वतानां च संस्थानं च यथा भुवः ॥
सूर्यादीनां च संस्थानं प्रमाणं मुनिसत्तम
देवादीनां तथा वंशान् मनून् मन्वन्तराणि च ॥
कल्पान् कल्पविकल्पांश् च चतुर्युगविकल्पितान्
कल्पान्तस्य स्वरूपं च युगधर्मांश् च कृत्स्नशः ॥
देवर्षिपार्थिवानां च चरितं यन् महामुने
वेदशाखाप्रणयनं यथावद् व्यासकर्तृकम् ॥
धर्मांश् च ब्राह्मणादीनां तथा चाश्रमवासिनाम्
श्रोतुम् इच्छाम्य् अहं सर्वं त्वत्तो वासिष्ठनन्दन ॥
ब्रह्मन् प्रसादप्रवणं कुरुष्व मयि मानसम्
येनाहम् एतज् जानीयां त्वत्प्रसादान् महामुने ॥
साधु मैत्रेय धर्मज्ञ स्मारितो ऽस्मि पुरातनम्
पितुः पिता मे भगवान् वसिष्ठो यद् उवाच ह ॥
विश्वामित्रप्रयुक्तेन रक्षसा भक्षितो मया
श्रुतस् तातस् ततः क्रोधो मैत्रेयासीन् ममातुलः ॥
ततो ऽहं रक्षसां सत्रं विनाशाय समारभम्
भस्मीकृताश् च शतशस् तस्मिन् सत्रे निशाचराः ॥
ततः संक्षीयमाणेषु तेषु रक्षःस्व् अशेषतः
माम् उवाच महाभागो वसिष्ठो ऽस्मत्पितामहः ॥
अलम् अत्यन्तकोपेन तात मन्युम् इमं जहि
राक्षसा नापराध्यन्ते पितुस् ते विहितं तथा ॥
मूढानाम् एष भवति क्रोधो ज्ञानवतां कुतः
हन्यते तात कः केन यतः स्वकृतभुक् पुमान् ॥
संचितस्यापि महता वत्स क्लेशेन मानवैः
यशसस् तपसश् चैव क्रोधो नाशकरः परः ॥
स्वर्गापवर्गव्यासेध कारणं परमर्षयः
वर्जयन्ति सदा क्रोधं तात मा तद्वशो भव ॥
अलं निशाचरैर् दग्धैर् दीनैर् अनपराधिभिः
सत्रं ते विरमत्व् एतत् क्षमासारा हि साधवः ॥
एवं तातेन तेनाहम् अनुनीतो महात्मना
उपसंहृतवान् सत्रं सद्यस् तद्वाक्यगौरवात् ॥
ततः प्रीतः स भगवान् वसिष्ठो मुनिसत्तमः
संप्राप्तश् च तदा तत्र पुलस्त्यो ब्रह्मणः सुतः ॥
पितामहेन दत्तार्घ्यः कृतासनपरिग्रहः
माम् उवाच महाभागो मैत्रेय पुलहाग्रजः ॥
वैरे महति यद् वाक्याद् गुरोर् अस्याश्रिता क्षमा
त्वया तस्मात् समस्तानि भवाञ् छास्त्राणि वेत्स्यति ॥
संततेर् न ममोच्छेदः क्रुद्धेनापि यतः कृतः
त्वया तस्मान् महाभाग ददाम्य् अन्यं महावरम् ॥
पुराणसंहिताकर्ता भवान् वत्स भविष्यति
देवतापारमार्थ्यं च यथावद् वेत्स्यते भवान् ॥
प्रवृत्ते च निवृत्ते च कर्मण्य् अस्तमला मतिः
मत्प्रसादाद् असंदिग्धा तव वत्स भविष्यति ॥
ततश् च भगवान् प्राह वसिष्ठो मे पितामहः
पुलस्त्येन यद् उक्तं ते सर्वम् एतद् भविष्यति ॥
इति पूर्वं वसिष्ठेन पुलस्त्येन च धीमता
यद् उक्तं तत् स्मृतिं यातं त्वत्प्रश्नाद् अखिलं मम ॥
सो ऽहं वदाम्य् अशेषं ते मैत्रेय परिपृच्छते
पुराणसंहितां सम्यक् तां निबोध यथातथम् ॥
विष्णोः सकाशाद् उद्भूतं जगत् तत्रैव च स्थितम्
स्थितिसंयमकर्तासौ जगतो ऽस्य जगच् च सः ॥
मित्रापुत्रवचो निशम्य सकलं स्मृत्वात्मनस् तद् वरम् सत्रं चैव निवारितं स सुमहाभागो ऽभवत् तारणम्
कृत्वा वैष्णवम् उत्तमं मुनिवरं मैत्रेयम् अध्यापयत् तत्त्वार्थप्रतिपादनं प्रवदतां सर्वार्थदं शृण्वताम् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0