विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.19
हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम्
आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम् ॥
प्रह्लाद सुप्रभावो ऽसि किम् एतत् ते विचेष्टितम्
एतन् मन्त्रादिजनितम् उताहो सहजं तव ॥
एवं पृष्टस् तदा पित्रा प्रह्लादो ऽसुरबालकः
प्रणिपत्य पितुः पादाव् इदं वचनम् अब्रवीत् ॥
न मन्त्रादिकृतस् तात न च नैसर्गिको मम
प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि ॥
अन्येषां यो न पापानि चिन्तयत्य् आत्मनो यथा
तस्य पापागमस् तात हेत्वभावान् न विद्यते ॥
कर्मणा मनसा वाचा परपीडां करोति यः
तद् बीजं जन्म फलति प्रभूतं तस्य चाशुभम् ॥
सो ऽहं न पापम् इच्छामि न करोमि वदामि वा
चिन्तयन् सर्वभूतस्थम् आत्मन्य् अपि च केशवम् ॥
शारीरं मानसं दुःखं दैवं भूतभवं तथा
सर्वत्र शुभचित्तस्य तस्य मे जायते कुतः ॥
एवं सर्वेषु भूतेषु भक्तिर् अव्यभिचारिणी
कर्तव्या पण्डितैर् ज्ञात्वा सर्वभूतमयं हरिम् ॥
इति श्रुत्वा स दैत्येन्द्रः प्रासादशिखरे स्थितः
क्रोधान्धकारितमुखः प्राह दैतेयकिंकरान् ॥
दुरात्मा क्षिप्यताम् अस्मात् प्रासादाच् छतयोजनात्
गिरिपृष्ठे पतत्व् अस्मिञ् शिलाभिन्नाङ्गसंहतिः ॥
ततस् तं चिक्षिपुः सर्वे बालं दैतेयकिंकराः
पपात सो ऽप्य् अधः क्षिप्तो हृदयेनोद्वहन् हरिम् ॥
पतमानं जगद्धात्री जगद्धातरि केशवे
भक्तियुक्तं दधारैनम् उपगम्य च मेदिनी ॥
ततो विलोक्य तं स्वस्थम् अविशीर्णास्थिबन्धनम्
हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम् ॥
नास्माभिः शक्यते हन्तुम् अयं दुर्वृत्तबालकः
मायां वेत्ति भवांस् तस्मान् माययैनं निषूदय ॥
सूदयाम्य् एष दैत्येन्द्र पश्य मायाबलं मम
सहस्रम् अत्र मायानां पश्य कोटिशतं तथा ॥
ततः समसृजन् मायाः प्रह्लादे शम्बरो ऽसुरः
विनाशम् इच्छन् दुर्बुद्धिः सर्वत्र समदर्शिनि ॥
समाहितमना भूत्वा शम्बरे ऽपि विमत्सरः
मैत्रेय सो ऽपि प्रह्लादः सस्मार मधुसूदनम् ॥
ततो भगवता तस्य रक्षार्थं चक्रम् उत्तमम्
आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् ॥
तेन मायासहस्रं तच् शम्बरस्याशुगामिना
बालस्य रक्षता देहम् एकैकश्येन सूदितम् ॥
संशोषकं ततो वायुं दैत्येन्द्र इदम् अब्रवीत्
शीघ्रम् एष ममादेशाद् दुरात्मा नीयतां क्षयम् ॥
तथेत्य् उक्त्वाथ सो ऽप्य् एनं विवेश पवनो लघुः
शीतो ऽतिरूक्षः शोषाय तद्देहस्यातिदुःसहः ॥
तेनाविष्टं तथात्मानं स बुद्ध्वा दैत्यबालकः
हृदयेन महात्मानं दधार धरणीधरम् ॥
हृदयस्थस् ततस् तस्य तं वायुम् अतिशोषणम्
पपौ जनार्दनः क्रुद्धः स ययौ पवनः क्षयम् ॥
क्षीणासु सर्वमायासु पवने संक्षयं गते
जगाम सो ऽपि भवनं गुरोर् एव महामतिः ॥
अहन्य् अहन्य् अथाचार्यो नीतिं राज्यफलप्रदाम्
ग्राहयाम् आस तं बालं राज्ञाम् उशनसा कृताम् ॥
गृहीतनीतिशास्त्रं तं विनीतं स यदा गुरुः
मेने तदैनं तत्पित्रे कथयाम् आस शिक्षितम् ॥
गृहीतनीतिशास्त्रस् ते पुत्रो दैत्यपते कृतः
प्रह्लादस् तत्त्वतो वेत्ति भार्गवेण यद् ईरितम् ॥
मित्रेषु वर्तेत कथम् अरिवर्गेषु भूपतिः
प्रह्लाद त्रिषु कालेषु मध्यस्थेषु कथं चरेत् ॥
कथं मन्त्रिष्व् अमात्येषु बाह्येष्व् आभ्यन्तरेषु च
चारेषु पौरवर्गेषु शङ्कितेष्व् इतरेषु च ॥
कृत्याकृत्यविधानं च दुर्गाटविकसाधनम्
प्रह्लाद कथ्यतां सम्यक् तथा कण्टकशोधनम् ॥
एतच् चान्यच् च सकलम् अधीतं भवता यथा
तथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम् ॥
प्रणिपत्य पितुः पादौ ततः प्रश्रयभूषणः
प्रह्लादः प्राह दैत्येन्द्रं कृताञ्जलिपुटः स्थितः ॥
ममोपदिष्टं सकलं गुरुणा नात्र संशयः
गृहीतं च मया किन्तु न सद् एतन् मतं मम ॥
साम चोपप्रदानं च भेददण्डौ तथैव च
उपायाः कथिता ह्य् एते मित्रादीनां च साधने ॥
तान् एवाहं न पश्यामि मित्रादींस् तात मा क्रुधः
साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ॥
सर्वभूतात्मके तात जगन्नाथे जगन्मये
परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥
त्वय्य् अस्ति भगवान् विष्णुर् मयि चान्यत्र चास्ति सः
यतस् ततो ऽयं मित्रं मे शत्रुश् चेति पृथक् कुतः ॥
तद् एभिर् अलम् अत्यर्थं दुष्टारम्भोक्तिविस्तरैः
अविद्यान्तर्गतैर् यत्नः कर्तव्यस् तात शोभने ॥
विद्याबुद्धिर् अविद्यायाम् अज्ञानात् तात जायते
बालो ऽग्निं किं न खद्योतम् असुरेश्वर मन्यते ॥
तत् कर्म यन् न बन्धाय सा विद्या या विमुक्तये
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥
तद् एतद् अवगम्याहम् असारं साध्यम् उत्तमम्
निशामय महाभाग प्रणिपत्य ब्रवीमि यत् ॥
न चिन्तयति को राज्यं को धनं नाभिवाञ्छति
तथापि भाव्यम् एवैतद् उभयं प्राप्यते नरैः ॥
सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः
तथापि पुंसां भाग्यानि नोद्यमा भूतिहेतवः ॥
जडानाम् अविवेकानाम् अशूराणाम् अपि प्रभो
भाग्यभोज्यानि राज्यानि सन्त्य् अनीतिमताम् अपि ॥
तस्माद् यतेत पुण्येषु य इच्छेन् महतीं श्रियम्
यतितव्यं समत्वे च निर्वाणम् अपि चेच्छता ॥
देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः
रूपम् एतद् अनन्तस्य विष्णोर् भिन्नम् इव स्थितम् ॥
एतद् विजानता सर्वं जगत् स्थावरजङ्गमम्
द्रष्टव्यम् आत्मवद् विष्णुर् यतो ऽयं विश्वरूपधृक् ॥
एवं ज्ञाते स भगवान् अनादिः परमेश्वरः
प्रसीदत्य् अच्युतस् तस्मिन् प्रसन्ने क्लेशसंक्षयः ॥
एतच् छ्रुत्वा तु कोपेन समुत्थाय वरासनात्
हिरण्यकशिपुः पुत्रं पदा वक्षस्य् अताडयत् ॥
उवाच च स कोपेन सामर्षः प्रज्वलन्न् इव
निष्पिष्य पाणिना पाणिं हन्तुकामो जगद् यथा ॥
हे विप्रचित्ते हे राहो हे बलैष महार्णवे
नागपाशैर् दृढं बद्ध्वा क्षिप्यतां मा विलम्बथ ॥
अन्यथा सकला लोकास् तथा दैतेयदानवाः
अनुयास्यन्ति मूढस्य मतम् अस्य दुरात्मनः ॥
बहुशो वारितो ऽस्माभिर् अयं पापस् तथाप्य् अरेः
स्तुतिं करोति दुष्टानां वध एवोपकारकः ॥
ततस् ते सत्वरा दैत्या बद्ध्वा तं नागबन्धनैः
भर्तुर् आज्ञां पुरस्कृत्य चिक्षिपुः सलिलार्णवे ॥
ततश् चचाल चलता प्रह्लादेन महार्णवः
उद्वेलो ऽभूत् परं क्षोभम् उपेत्य च समन्ततः ॥
भूर्लोकम् अखिलं दृष्ट्वा प्लाव्यमानं महाम्भसा
हिरण्यकशिपुर् दैत्यान् इदम् आह महामुने ॥
दैतेयाः सकलैः शैलैर् अत्रैव वरुणालये
निश्छिद्रैः सर्वतः सर्वैश् चीयताम् एष दुर्मतिः ॥
नाग्निर् दहति नैवायं शस्त्रैश् छिन्नो न चोरगैः
क्षयं नीतो न वातेन न विषेण न कृत्यया ॥
न मायाभिर् न चैवोच्चात् पातितो न च दिग्गजैः
बालो ऽतिदुष्टचित्तो ऽयं नानेनार्थो ऽस्ति जीवता ॥
तद् एष तोयधाव् अत्र समाक्रान्तो महीधरैः
तिष्ठत्व् अब्दसहस्रान्तं प्राणान् हास्यति दुर्मतिः ॥
ततो दैत्या दानवाश् च पर्वतैस् तं महोदधौ
आक्रम्य चयनं चक्रुर् योजनानि सहस्रशः ॥
स चितः पर्वतैर् अन्तः समुद्रस्य महामतिः
तुष्टावाह्निकवेलायाम् एकाग्रमतिर् अच्युतम् ॥
नमस् ते पुण्डरीकाक्ष नमस् ते पुरुषोत्तम
नमस् ते सर्वलोकात्मन् नमस् ते तिग्मचक्रिणे ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः
रुद्ररूपाय कल्पान्ते नमस् तुभ्यं त्रिमूर्तये ॥
देवा यक्षासुराः सिद्धा नागा गन्धर्वकिंनराः
पिशाचा राक्षसाश् चैव मनुष्याः पशवस् तथा ॥
पक्षिणः स्थावराश् चैव पिपीलिकसरीसृपाः
भूम्यापो ऽग्निर् नभो वायुः शब्दः स्पर्शस् तथा रसः ॥
रूपं गन्धो मनो बुद्धिर् आत्मा कालस् तथा गुणाः
एतेषां परमार्थश् च सर्वम् एतत् त्वम् अच्युत ॥
विद्याविद्ये भवान् सत्यम् असत्यं त्वं विषामृते
प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान् ॥
समस्तकर्मभोक्ता च कर्मोपकरणानि च
त्वम् एव विष्णो सर्वाणि सर्वकर्मफलं च यत् ॥
मय्य् अन्यत्र तथाशेष भूतेषु भुवनेषु च
तवैव व्याप्तिर् ऐश्वर्य गुणसंसूचिकी प्रभो ॥
त्वां योगिनश् चिन्तयन्ति त्वां यजन्ति च यज्विनः
हव्यकव्यभुग् एकस् त्वं पितृदेवस्वरूपधृक् ॥
रूपं महत् ते ऽच्युत यत्र विश्वं यतश् च सूक्ष्मं जगद् एतद् ईश
रूपाणि सूक्ष्माणि च भूतभेदास् तेष्व् अन्तर् आत्माख्यम् अतीव सूक्ष्मम् ॥
तस्माच् च सूक्ष्मादिविशेषणानाम् अगोचरे यत् परमार्थरूपम्
किम् अप्य् अचिन्त्यं तव रूपम् अस्ति तस्मै नमस् ते पुरुषोत्तमाय ॥
सर्वभूतेषु सर्वात्मन् या शक्तिर् अपरा तव
गुणाश्रया नमस् तस्यै शाश्वतायै सुरेश्वर ॥
यातीतगोचरा वाचां मनसां चाविशेषणा
ज्ञानिज्ञानपरिच्छेद्या तां वन्दे चेश्वरीं पराम् ॥
ओं नमो वासुदेवाय तस्मै भगवते सदा
व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तो ऽखिलस्य यः ॥
नमस् तस्मै नमस् तस्मै नमस् तस्मै महात्मने
नामरूपं न यस्यैको यो ऽस्तित्वेनोपलभ्यते ॥
यस्यावताररूपाणि समर्चन्ति दिवौकसः
अपश्यन्तः परं रूपं नमस् तस्मै महात्मने ॥
यो ऽन्तस् तिष्ठन्न् अशेषस्य पश्यतीशः शुभाशुभम्
तं सर्वसाक्षिणं विष्णुं नमस्ये परमेश्वरम् ॥
नमो ऽस्तु विष्णवे तस्मै यस्याभिन्नम् इदं जगत्
ध्येयः स जगताम् आद्यः स प्रसीदतु मे ऽव्ययः ॥
यत्रोतम् एतत् प्रोतं च विश्वम् अक्षरसंज्ञके
आधारभूतः सर्वस्य स प्रसीदतु मे हरिः ॥
ओं नमो विष्णवे तस्मै नमस् तस्मै पुनः पुनः
यत्र सर्वं यतः सर्वं यः सर्वं सर्वतश् च यः ॥
सर्वगत्वाद् अनन्तस्य स एवाहम् अवस्थितः
मत्तः सर्वम् अहं सर्वं मयि सर्वं सनातने ॥
अहम् एवाक्षयो नित्यः परमात्मात्मसंश्रयः
ब्रह्मसंज्ञो ऽहम् एवाग्रे तथान्ते च परः पुमान् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0