विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.18
तस्यैतां दानवाश् चेष्टां दृष्ट्वा दैत्यपतेर् भयात्
आचचक्षुः स चोवाच सूदान् आहूय सत्वरः ॥
हे सूदा मम पुत्रो ऽसाव् अन्येषाम् अपि दुर्मतिः
कुमार्गदेशिको दुष्टो हन्यताम् अविलम्बितम् ॥
हालाहलं विषं तस्य सर्वभक्ष्येषु दीयताम्
अविज्ञातम् असौ पापो वध्यतां मा विचार्यताम् ॥
ते तथैव ततश् चक्रुः प्रह्लादाय महात्मने
विषदानं यथाज्ञप्तं पित्रा तस्य महात्मनः ॥
हालाहलं विषं घोरम् अनन्तोच्चारणेन सः
अभिमन्त्र्य सहान्नेन मैत्रेय बुभुजे तदा ॥
अविकारं स तद् भुक्त्वा प्रह्लादः स्वस्थमानसः
अनन्तख्यातिनिर्वीर्यं जरयाम् आस दुर्विषम् ॥
ततः सूदा भयत्रस्ता जीर्णं दृष्ट्वा महाविषम्
दैत्येश्वरम् उपागम्य प्रणिपत्येदम् अब्रुवन् ॥
दैत्यराज विषं दत्तम् अस्माभिर् अतिभीषणम्
जीर्णं तच् च सहान्नेन प्रह्लादेन सुतेन ते ॥
त्वर्यतां त्वर्यतां सद्यो हे हे दैत्यपुरोहिताः
कृत्यां तस्य विनाशाय उत्पादयत मा चिरम् ॥
सकाशम् आगम्य ततः प्रह्लादस्य पुरोहिताः
सामपूर्वम् अथोचुस् ते प्रह्लादं विनयान्वितम् ॥
जातस् त्रैलोक्यविख्यात आयुष्मन् ब्रह्मणः कुले
दैत्यराजस्य तनयो हिरण्यकशिपोर् भवान् ॥
किं दैवैः किम् अनन्तेन किम् अन्येन तवाश्रयः
पिता समस्तलोकानां त्वं तथैव भविष्यसि ॥
तस्मात् परित्यजैनां त्वं विपक्षस्तवसंहिताम्
वाच्यः पिता समस्तानां गुरूणां परमो गुरुः ॥
एवम् एतन् महाभागाः श्लाघ्यम् एतन् महाकुलम्
मरीचेः सकले ऽप्य् अस्मिन् त्रैलोक्ये नान्यथा वदेत् ॥
पिता च मम सर्वस्मिञ् जगत्य् उत्कृष्टचेष्टितः
एतद् अप्य् अवगच्छामि सत्यम् अत्रापि नानृतम् ॥
गुरूणाम् अपि सर्वेषां पिता परमको गुरुः
यद् उक्तं भ्रान्तिस् तत्रापि स्वल्पापि हि न विद्यते ॥
पिता गुरुर् न संदेहः पूजनीयः प्रयत्नतः
तत्रापि नापराध्यामीत्य् एवं मनसि मे स्थितम् ॥
यत् त्व् एतत् किम् अनन्तेनेत्य् उक्तं युष्माभिर् ईदृशम्
को ब्रवीति यथायुक्तं किं तु नैतद् वचो ऽर्थवत् ॥
इत्य् उक्त्वा सो ऽभवन् मौनी तेषां गौरवयन्त्रितः
प्रहस्य च पुनः प्राह किम् अनन्तेन साध्व् इति ॥
साधु भोः किम् अनन्तेन साधु भो गुरवो मम
श्रूयतां यद् अनन्तेन यदि खेदं न यास्यथ ॥
धर्मार्थकाममोक्षाख्यः पुरुषार्थ उदाहृतः
चतुष्टयम् इदं यस्मात् तस्मात् किं किम् इदं वृथा ॥
मरीचिमिश्रैर् दक्षेण तथैवान्यैर् अनन्ततः
धर्मः प्राप्तस् तथैवान्यैर् अर्थः कामस् तथापरैः ॥
तत्तत्त्ववेदिनो भूत्वा ज्ञानध्यानसमाधिभिः
अवापुर् मुक्तिम् अपरे पुरुषा ध्वस्तबन्धनाः ॥
संपदैश्वर्यमाहात्म्य ज्ञानसंततिकर्मणाम्
विमुक्तेश् चैकतो लभ्यं मूलम् आराधनं हरेः ॥
यतो धर्मार्थकामाख्यं विमुक्तिश् च फलं द्विजाः
तेनापि हि किम् इत्य् एवम् अनन्तेन किम् उच्यते ॥
किं वात्र बहुनोक्तेन भवन्तो गुरवो मम
वदन्तु साधु वासाधु विवेको ऽस्माकम् अल्पकः ॥
बहुनात्र किम् उक्तेन स एव जगतः पतिः ॥
स कर्ता च विकर्ता च संहर्ता च हृदि स्थितः ॥
स भोक्ता भोज्यम् अप्य् एवं स एव जगदीश्वरः ॥
भवद्भिर् एतत् क्षन्तव्यं बाल्याद् उक्तं तु यन् मया ॥
दह्यमानस् त्वम् अस्माभिर् अग्निना बाल रक्षितः
भूयो न वक्ष्यसीत्य् एवं नैवं ज्ञातो ऽस्य् अबुद्धिमान् ॥
यद्य् अस्मद्वचनान् मोह ग्राहं न त्यक्ष्यते भवान्
ततः कृत्यां विनाशाय तव सृक्ष्याम दुर्मते ॥
कः केन रक्ष्यते जन्तुर् जन्तुः कः केन हन्यते
हन्ति रक्षति चैवात्मा जगत् सर्वं चराचरम् ॥
कर्मणा जायते सर्वं कर्मैव गतिसाधनम् ॥
तस्मात् सर्वप्रयत्नेन साधु कर्म समाचरेत् ॥
इत्य् उक्तास् तेन ते क्रुद्धा दैत्यराजपुरोहिताः
कृत्याम् उत्पादयाम् आसुर् ज्वालामालोज्ज्वलाननाम् ॥
अतिभीमा समागम्य पादन्यासक्षतक्षितिः
शूलेन सा सुसंक्रुद्धा तं जघानाथ वक्षसि ॥
तत् तस्य हृदयं प्राप्य शूलं बालस्य दीप्तिमत्
जगाम खण्डितं भूमौ तत्रापि शतधाभवत् ॥
यत्रानपायी भगवान् हृद्य् आस्ते हरिर् ईश्वरः
भङ्गो भवति वज्रस्य तत्र शूलस्य का कथा ॥
अपापे तत्र पापैश् च पातिता दैत्ययाजकैः
तान् एव सा जघानाशु कृत्या नाशं जगाम च ॥
कृत्यया दह्यमानांस् तान् विलोक्य स महामतिः
त्राहि कृष्णेत्य् अनन्तेति वदन्न् अभ्यवपद्यत ॥
सर्वव्यापिञ् जगद्रूप जगत्स्रष्टर् जनार्दन
त्राहि विप्रान् इमान् अस्माद् दुःसहान् मन्त्रपावकात् ॥
यथा सर्वेषु भूतेषु सर्वव्यापी जगद्गुरुः
विष्णुर् एव तथा सर्वे जीवन्त्व् एते पुरोहिताः ॥
यथा सर्वगतं विष्णुं मन्यमानो ऽनपायिनम्
चिन्तयाम्य् अरिपक्षे ऽपि जीवन्त्व् एते तथा द्विजाः ॥
ये हन्तुम् आगता दत्तं यैर् विषं यैर् हुताशनः
यैर् दिग्गजैर् अहं क्षुण्णो दष्टः सर्पैश् च यैर् अहम् ॥
तेष्व् अहं मित्रपक्षे च समः पापो ऽस्मि न क्वचित्
यथा तेनाद्य सत्येन जीवन्त्व् असुरयाजकाः ॥
इत्य् उक्तास् तेन ते सर्वे संस्पृष्टाश् च निरामयाः
समुत्तस्थुर् द्विजा भूयस् तं चोचुः प्रश्रयान्वितम् ॥
दीर्घायुर् अप्रतिहतो बलवीर्यसमन्वितः
पुत्रपौत्रधनैश्वर्यैर् युक्तो वत्स भवोत्तमः ॥
इत्य् उक्त्वा तं ततो गत्वा यथावृत्तं पुरोहिताः
दैत्यराजाय सकलम् आचचक्षुर् महामुने ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0