भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.17

1.17.1

मैत्रेय श्रूयतां सम्यक् चरितं तस्य धीमतः
प्रह्लादस्य सदोदार चरितस्य महात्मनः ॥

1.17.2

दितेः पुत्रो महावीर्यो हिरण्यकशिपुः पुरा
त्रैलोक्यं वशम् आनिन्ये ब्रह्मणो वरदर्पितः ॥

1.17.3

इन्द्रत्वम् अकरोद् दैत्यः स चासीत् सविता स्वयम्
वायुर् अग्निर् अपां नाथः सोमश् चासीन् महासुरः ॥

1.17.4

धनानाम् अधिपः सो ऽभूत् स एवासीत् स्वयं यमः
यज्ञभागान् अशेषांस् तु स स्वयं बुभुजे ऽसुरः ॥

1.17.5

देवाः स्वर्गं परित्यज्य तत्त्रासान् मुनिसत्तम
विचेरुर् अवनौ सर्वे बिभ्राणा मानुषीं तनुम् ॥

1.17.6

जित्वा त्रिभुवनं सर्वं त्रैलोक्यैश्वर्यदर्पितः
उद्गीयमानो गन्धर्वैर् बुभुजे विषयान् प्रियान् ॥

1.17.7

पानासक्तं महात्मानं हिरण्यकशिपुं तदा
उपासां चक्रिरे सर्वे सिद्धगन्धर्वपन्नगाः ॥

1.17.8

अवादयञ् जगुश् चान्ये जयशब्दान् अथापरे
दैत्येश्वरस्य पुरतश् चक्रुः सिद्धा मुदान्विताः ॥

1.17.9

तत्र प्रनृत्ताप्सरसि स्फाटिकाभ्रमये ऽसुरः
पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे ॥

1.17.10

तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः
पपाठ बालपाठ्यानि गुरुगेहं गतो ऽर्भकः ॥

1.17.11

एकदा तु स धर्मात्मा जगाम गुरुणा सह
पानासक्तस्य पुरतः पितुर् दैत्यपतेस् तदा ॥

1.17.12

पादप्रणामावनतं तम् उत्थाप्य पिता सुतम्
हिरण्यकशिपुः प्राह प्रह्लादम् अमितौजसम् ॥

1.17.13

पठ्यतां भवता वत्स सारभूतं सुभाषितम्
कालेनैतावता यत् ते सदोद्युक्तेन शिक्षितम् ॥

1.17.14

श्रूयतां तात वक्ष्यामि सारभूतं तवाज्ञया
समाहितमना भूत्वा यन् मे चेतस्य् अवस्थितम् ॥

1.17.15

अनादिमध्यान्तम् अजम् अवृद्धिक्षयम् अच्युतम्
प्रणतो ऽस्म्य् अन्तसंतानं सर्वकारणकारणम् ॥

1.17.16

एतन् निशम्य दैत्येन्द्रः कोपसंरक्तलोचनः
विलोक्य तद्गुरुं प्राह स्फुरिताधरपल्लवः ॥

1.17.17

ब्रह्मबन्धो किम् एतत् ते विपक्षस्तुतिसंहितम्
असारं ग्राहितो बालो माम् अवज्ञाय दुर्मते ॥

1.17.18

दैत्येश्वर न कोपस्य वशम् आगन्तुम् अर्हसि
ममोपदेशजनितं नायं वदति ते सुतः ॥

1.17.19

अनुशिष्टो ऽसि केनेदृग् वत्स प्रह्लाद कथ्यताम्
मयोपदिष्टं नेत्य् एष प्रब्रवीति गुरुस् तव ॥

1.17.20

शास्ता विष्णुर् अशेषस्य जगतो यो हृदि स्थितः
तम् ऋते परमात्मानं तात कः केन शास्यते ॥

1.17.21

को ऽयं विष्णुः सुदुर्बुद्धे यं ब्रवीषि पुनः पुनः
जगताम् ईश्वरस्येह पुरतः प्रसभं मम ॥

1.17.22

न शब्दगोचरं यस्य योगिध्येयं परं पदम्
यतो यश् च स्वयं विश्वं स विष्णुः परमेश्वरः ॥

1.17.23

परमेश्वरसंज्ञो ऽज्ञ किम् अन्यो मय्य् अवस्थिते
तवास्ति मर्तुकामस् त्वं प्रब्रवीषि पुनः पुनः ॥

1.17.24

न केवलं तात मम प्रजानां स ब्रह्मभूतो भवतश् च विष्णुः
धाता विधाता परमेश्वरश् च प्रसीद कोपं कुरुषे किमर्थम् ॥

1.17.25

प्रविष्टः को ऽस्य हृदयं दुर्बुद्धेर् अतिपापकृत्
येनेदृशान्य् असाधूनि वदत्य् आविष्टमानसः ॥

1.17.26

न केवलं मद्धृदयं स विष्णुर् आक्रम्य लोकान् अखिलान् अवस्थितः
स मां त्वदादींश् च पितः समस्तान् समस्तचेष्टासु युनक्ति सर्वगः ॥

1.17.27

निष्क्राम्यताम् अयं दुष्टः शास्यतां च गुरोर् गृहे
योजितो दुर्मतिः केन विपक्षवितथस्तुतौ ॥

1.17.28

इत्य् उक्ते स तदा दैत्यैर् नीतो गुरुगृहं पुनः
जग्राह विद्याम् अनिशं गुरुशुश्रूषणोद्यतः ॥

1.17.29

काले ऽतीते ऽतिमहति प्रह्लादम् असुरेश्वरः
समाहूयाब्रवीद् गाथा काचित् पुत्रक गीयताम् ॥

1.17.30

यतः प्रधानपुरुषौ यतश् चैतच् चराचरम्
कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु ॥

1.17.31

दुरात्मा वध्यताम् एष नानेनार्थो ऽस्ति जीवता
स्वपक्षहानिकर्तृत्वाद् यः कुलाङ्गारतां गतः ॥

1.17.32

इत्य् आज्ञप्तास् ततस् तेन प्रगृहीतमहायुधाः
उद्यतास् तस्य नाशाय दैत्याः शतसहस्रशः ॥

1.17.33

विष्णुः शस्त्रेषु युष्मासु मयि चासौ यथा स्थितः
दैतेयास् तेन सत्येन मा क्रामन्त्व् आयुधानि वः ॥

1.17.34

ततस् तैः शतशो दैत्यैः शस्त्रौघैर् आहतो ऽपि सन्
नावाप वेदनाम् अल्पाम् अभूच् चैव पुनर् नवः ॥

1.17.35

दुर्बुद्धे विनिवर्तस्व वैरिपक्षस्तवाद् अतः
अभयं ते प्रयच्छामि मातिमूढमतिर् भव ॥

1.17.36*

भयं भयानाम् अपहारिणि स्थिते मनस्य् अनन्ते मम कुत्र तिष्ठति ।
यस्मिन् स्मृते जन्मजरान्तकादि भयानि सर्वाण्य् अपयान्ति तात ॥

1.17.37

भो भोः सर्पाः दुराचारम् एनम् अत्यन्तदुर्मतिम्
विषज्वालाविलैर् वक्त्रैः सद्यो नयत संक्षयम् ॥

1.17.38

इत्य् उक्तास् तेन ते सर्पाः कुहकास् तक्षकादयः
अदंशन्त समस्तेषु गात्रेष्व् अतिविषोल्बणाः ॥

1.17.39

स त्व् आसक्तमतिः कृष्णे दंश्यमानो महोरगैः
न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसंस्थितः ॥

1.17.40

दंष्ट्रा विशीर्णा मणयः स्फुटन्ति फणेषु तापो हृदयेषु कम्पः
नास्य त्वचः स्वल्पम् अपीह भिन्नं प्रशाधि दैत्येश्वर कर्म चान्यत् ॥

1.17.41

हे दिग्गजाः संकटदन्तमिश्रा घ्नतैनम् अस्मद्रिपुपक्षभिन्नम्
तज्जा विनाशाय भवन्ति तस्य यथारणेः प्रज्वलितो हुताशः ॥

1.17.42

ततः स दिग्गजैर् बालो भूभृच्छिखरसंनिभैः
पातितो धरणीपृष्ठे विषाणैर् अप्य् अपीड्यत ॥

1.17.43

स्मरतस् तस्य गोविन्दम् इभदन्ताः सहस्रशः
शीर्णा वक्षःस्थलं प्राप्य स प्राह पितरं ततः ॥

1.17.44

दन्ता गजानां कुलिशाग्रनिष्ठुराः शीर्णा यद् एते न बलं ममैतत्
महाविपत्पापविनाशनो ऽयं जनार्दनानुस्मरणानुभावः ॥

1.17.45

ज्वाल्यताम् असुरा वह्निर् अपसर्पत दिग्गजाः
वायो समेधयाग्निं त्वं दह्यताम् एष पापकृत् ॥

1.17.46

महाकाष्ठचयच्छन्नम् असुरेन्द्रसुतं ततः
प्रज्वाल्य दानवा वह्निं ददहुः स्वामिचोदिताः ॥

1.17.47

तातैष वह्निः पवनेरितो ऽपि न मां दहत्य् अत्र समन्ततो ऽहम्
पश्यामि पद्मास्तरणास्तृतानि शीतानि सर्वाणि दिशां मुखानि ॥

1.17.47*54

त्रैलोक्यम् एतत् सचराचरं यद् विष्णुं विजिष्णुं प्रभविष्णुम् ईड्यं
अलं करिष्णुं त्व् असहिष्णुम् इत्थं स्थाणुं सदा स्तौमि सदा सदैव ॥

1.17.48

अथ दैत्येश्वरं प्रोचुर् भार्गवस्यात्मजा द्विजाः
पुरोहिता महात्मानः साम्ना संस्तूय वाग्मिनः ॥

1.17.49

राजन् नियम्यतां कोपो बाले ऽत्र तनये निजे
कोपो देवनिकायेषु तत्र ते सफलो यतः ॥

1.17.49*55

ततः पुरोहितैर् उक्तो हिरण्यकशिपुः स्वकैः ॥

1.17.50

तथा तथैनं बालं ते शासितारो वयं नृप
यथा विपक्षनाशाय विनीतस् ते भविष्यति ॥

1.17.51

बालत्वं सर्वदोषाणां दैत्यराजास्पदं यतः
ततो ऽत्र कोपम् अत्यर्थं योक्तुम् अर्हसि नार्भके ॥

1.17.52

न त्यक्ष्यति हरेः पक्षम् अस्माकं वचनाद् यदि
ततः कृत्यां वधायास्य करिष्यामो ऽनिवर्तिनीम् ॥

1.17.53

एवम् अभ्यर्थितस् तैस् तु दैत्यराजः पुरोहितैः
दैत्यैर् निष्क्रामयाम् आस पुत्रं पावकसंचयात् ॥

1.17.54

ततो गुरुगृहे बालः स वसन् बालदानवान्
अध्यापयाम् आस मुहुर् उपदेशान्तरे गुरोः ॥

1.17.55

श्रूयतां परमार्थो मे दैतेया दितिजात्मजाः
न चान्यथैतन् मन्तव्यं नात्र लोभादिकारणम् ॥

1.17.56

जन्म बाल्यं ततः सर्वो जन्तुः प्राप्नोति यौवनम्
अव्याहतैव भवति ततो ऽनुदिवसं जरा ॥

1.17.57

ततश् च मृत्युम् अभ्येति जन्तुर् दैत्येश्वरात्मजाः
प्रत्यक्षं दृश्यते चैतद् अस्माकं भवतां तथा ॥

1.17.58

मृतस्य च पुनर् जन्म भवत्य् एतच् च नान्यथा
आगमो ऽयं तथा तच् च नोपादानं विनोद्भवः ॥

1.17.59

गर्भवासादि यावत् तु पुनर्जन्मोपपादनम्
समस्तावस्थकं तावद् दुःखम् एवावगम्यताम् ॥

1.17.60

क्षुत्तृष्णोपशमं तद्वच् शीताद्युपशमं सुखम्
मन्यते बालबुद्धित्वाद् दुःखम् एव हि तत् पुनः ॥

1.17.61

अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम्
भ्रान्तिज्ञानवतां पुंसां प्रहारो ऽपि सुखायते ॥

1.17.62

क्व शरीरम् अशेषाणां श्लेष्मादीनां महाचयः
क्व चाङ्गशोभासौरभ्य कमनीयादयो गुणाः ॥

1.17.63

मांसासृक्पूयविण्मूत्र स्नायुमज्जास्थिसंहतौ
देहे चेत् प्रीतिमान् मूढो भविता नरके ऽपि सः ॥

1.17.64

अग्नेः शीतेन तोयस्य तृषा भक्तस्य च क्षुधा
क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥

1.17.65

करोति हे दैत्यपुत्रा यावन्मात्रं परिग्रहम्
तावन्मात्रं स एवास्य दुःखं चेतसि यच्छति ॥

1.17.66

यावतः कुरुते जन्तुः संबन्धान् मनसः प्रियान्
तावन्तो ऽस्य निखन्यन्ते हृदये शोकशङ्कवः ॥

1.17.67

यद् यद् गृहे तन् मनसि यत्र तत्रावतिष्ठतः
नाशदाहापहरणं कुतस् तत्रैव तिष्ठति ॥

1.17.68

जन्मन्य् अत्र महद् दुःखं म्रियमाणस्य चापि तत्
यातनासु यमस्योग्रं गर्भसंक्रमणेषु च ॥

1.17.69

गर्भे च सुखलेशो ऽपि भवद्भिर् अनुमीयते
यदि तत् कथ्यताम् एवं सर्वं दुःखमयं जगत् ॥

1.17.70

तद् एतद् अतिदुःखानाम् आस्पदे ऽत्र भवार्णवे
भवतां कथ्यते सत्यं विष्णुर् एकः परायणः ॥

1.17.71

मा जानीत वयं बाला देही देहेषु शाश्वतः
जरायौवनजन्माद्या धर्मा देहस्य नात्मनः ॥

1.17.72

बालो ऽहं तावद् इच्छातो यतिष्ये श्रेयसे युवा
युवाहं वार्द्धके प्राप्ते करिष्याम्य् आत्मनो हितम् ॥

1.17.73

वृद्धो ऽहं मम कार्याणि समस्तानि न गोचरे
किं करिष्यामि मन्दात्मा समर्थेन न यत् कृतम् ॥

1.17.74

एवं दुराशयाक्षिप्त मानसः पुरुषः सदा
श्रेयसो ऽभिमुखं याति न कदाचित् पिपासितः ॥

1.17.75

बाल्ये क्रीडनकासक्ता यौवने विषयोन्मुखाः
अज्ञानयन्त्य् अशक्त्या च वार्द्धकं समुपस्थितम् ॥

1.17.76

तस्माद् बाल्ये विवेकात्मा यतेत श्रेयसे सदा
बाल्ययौवनवृद्धाद्यैर् देहभावैर् असंयुतः ॥

1.17.77

तद् एतद् वो मयाख्यातं यदि जानीत नानृतम्
तद् अस्मत्प्रीतये विष्णुः स्मर्यतां बन्धमुक्तिदः ॥

1.17.78

आयासः स्मरणे को ऽस्य स्मृतो यच्छति शोभनम्
पापक्षयश् च भवति स्मरतां तम् अहर्निशम् ॥

1.17.79

सर्वभूतस्थिते तस्मिन् मतिर् मैत्री दिवानिशम्
भवतां जायताम् एवं सर्वक्लेशान् प्रहास्यथ ॥

1.17.80

तापत्रयेणाभिहतं यद् एतद् अखिलं जगत्
तदा शोच्येषु भूतेषु द्वेषं प्राज्ञः करोति कः ॥

1.17.81

अथ भद्राणि भूतानि हीनशक्तिर् अहं परम्
मुदं तथापि कुर्वीत हानिर् द्वेषफलं यतः ॥

1.17.82

बद्धवैराणि भूतानि द्वेषं कुर्वन्ति चेत् ततः
शोच्यान्य् अहो ऽतिमोहेन व्याप्तानीति मनीषिणाम् ॥

1.17.83

एते भिन्नदृशां दैत्या विकल्पाः कथिता मया
कृत्वाभ्युपगमं तत्र संक्षेपः श्रूयतां मम ॥

1.17.84

विस्तारः सर्वभूतस्य विष्णोर् विश्वम् इदं जगत्
द्रष्टव्यम् आत्मवत् तस्माद् अभेदेन विचक्षणैः ॥

1.17.85

समुत्सृज्यासुरं भावं तस्माद् यूयं यथा वयम्
तथा यत्नं करिष्यामो यथा प्राप्स्याम निर्वृतिम् ॥

1.17.86

नैवाग्निना न चार्केण नेन्दुना न च वायुना
पर्जन्यवरुणाभ्यां वा न सिद्धैर् न च राक्षसैः ॥

1.17.87

न यक्षैर् न च दैत्येन्द्रैर् नोरगैर् न च किंनरैः
न मनुष्यैर् न पशुभिर् दोषैर् नैवात्मसंभवैः ॥

1.17.88

ज्वराक्षिरोगातीसार प्लीहगुल्मादिकैस् तथा
द्वेषेर्ष्यामत्सराद्यैर् वा रागलोभादिभिः क्षयम् ॥

1.17.89

न चान्यैर् नीयते कैश्चिन् नित्या यात्यन्तनिर्मला
ताम् आप्नोत्य् अमले न्यस्य केशवे हृदयं नरः ॥

1.17.90

असारसंसारविवर्तनेषु मा यात तोषं प्रसभं ब्रवीमि
सर्वत्र दैत्याः समताम् उपेत समत्वम् आराधनम् अच्युतस्य ॥

1.17.91

तस्मिन् प्रसन्ने किम् इहास्त्य् अलभ्यं धर्मार्थकामैर् अलम् अल्पकास् ते
समाश्रिताद् ब्रह्मतरोर् अनन्तान् निःसंशयं प्राप्स्यथ वै महत् फलम् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc