भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.16

1.16.1

कथितो भवता वंशो मानवानां महामुने
कारणं चास्य जगतो विष्णुर् एव सनातनः ॥

1.16.2

यत् त्व् एतद् भगवान् आह प्रह्लादं दैत्यसत्तमम्
ददाह नाग्निर् नास्त्रैश् च क्षुण्णस् तत्याज जीवितम् ॥

1.16.3

जगाम वसुधा क्षोभं यत्राब्धिसलिले स्थिते
बन्धबद्धो ऽपि चलति विक्षिप्ताङ्गैः समाहता ॥

1.16.4

शैलैर् आक्रान्तदेहो ऽपि न ममार च यः पुरा
त्वयैवातीव माहात्म्यं कथितं यस्य धीमतः ॥

1.16.5

तस्य प्रभावम् अतुलं विष्णोर् भक्तिमतो मुने
श्रोतुम् इच्छामि यस्यैतच् चरितं त्व् अमितौजसः ॥

1.16.6

किंनिमित्तम् असौ शस्त्रैर् विक्षतो दितिजैर् मुने
किमर्थं चाब्धिसलिले निक्षिप्तो धर्मतत्परः ॥

1.16.7

आक्रान्तः पर्वतैः कस्मात् कस्माद् दष्टो महोरगैः
क्षिप्तः किम् अद्रिशिखरात् किं वा पावकसंचये ॥

1.16.8

दिग्दन्तिनां दन्तभूमिः स च कस्मान् निरूपितः
संशोषको ऽनिलश् चास्य प्रयुक्तः किं महासुरैः ॥

1.16.9

कृत्यां च दैत्यगुरवो युयुजुस् ते तु किं मुने
शम्बरश् चापि मायानां सहस्रं किं प्रयुक्तवान् ॥

1.16.10

हालाहलं विषं घोरं दैत्यसूदैर् महात्मनः
कस्माद् दत्तं विनाशाय यज् जीर्णं तेन धीमता ॥

1.16.11

एतत् सर्वं महाभाग प्रह्लादस्य महात्मनः
चरितं श्रोतुम् इच्छामि महामाहात्म्यसूचकम् ॥

1.16.12

न हि कौतूहलं तत्र यद् दैत्यैर् न हतो हि सः
अनन्यमनसो विष्णौ कः समर्थो निपातने ॥

1.16.13

तस्मिन् धर्मपरे नित्यं केशवाराधनोद्यते
स्ववंशप्रभवैर् दैत्यैः कर्तुं द्वेषो ऽतिदुष्करः ॥

1.16.14

धर्मात्मनि महाभागे विष्णुभक्ते विमत्सरे
दैतेयैः प्रहृतं कस्मात् तन् ममाख्यातुम् अर्हसि ॥

1.16.15

प्रहरन्ति महात्मानो विपक्षे चापि नेदृशे
गुणैः समन्विते साधौ किं पुनर् यः स्वपक्षजः ॥

1.16.16

तद् एतत् कथ्यतां सर्वं विस्तरान् मुनिसत्तम
दैत्येश्वरस्य चरितं श्रोतुम् इच्छाम्य् अशेषतः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc