भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.15

1.15.1

तपश् चरत्सु पृथिवीं प्रचेतःसु महीरुहाः
अरक्ष्यमाणाम् आवव्रुर् बभूवाथ प्रजाक्षयः ॥

1.15.2

नाशकन् मारुतो वातुं वृतं खम् अभवद् द्रुमैः
दशवर्षसहस्राणि न शेकुश् चेष्टितुं प्रजाः ॥

1.15.3

तान् दृष्ट्वा जलनिष्क्रान्ताः सर्वे क्रुद्धाः प्रचेतसः
मुखेभ्यो वायुम् अग्निं च ते ऽसृजञ् जातमन्यवः ॥

1.15.4

उन्मूलान् अथ तान् वृक्षान् कृत्वा वायुर् अशोषयत्
तान् अग्निर् अदहद् घोरस् तत्राभूद् द्रुमसंक्षयः ॥

1.15.5

द्रुमक्षयम् अथो दृष्ट्वा किंचिच् छिष्टेषु शाखिषु
उपगम्याब्रवीद् एतान् राजा सोमः प्रजापतीन् ॥

1.15.6

कोपं यच्छत राजानः शृणुध्वं च वचो मम
संधानं वः करिष्यामि सह क्षितिरुहैर् अहम् ॥

1.15.7

रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी
भविष्यं जानता पूर्वं मया गोभिर् विवर्धिता ॥

1.15.8

मारिषा नाम नाम्नैषा वृक्षाणाम् इति निर्मिता
भार्या वो ऽस्तु महाभागा ध्रुवं वंशविवर्धिनी ॥

1.15.9

युष्माकं तेजसो ऽर्धेन मम चार्धेन तेजसः
अस्याम् उत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥

1.15.10

मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै
अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥

1.15.11

कण्डुर् नाम मुनिः पूर्वम् आसीद् वेदविदां वरः
सुरम्ये गोमतीतीरे स तेपे परमं तपः ॥

1.15.12

तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः
प्रयुक्ता क्षोभयाम् आस तम् ऋषिं सा शुचिस्मिता ॥

1.15.13

क्षोभितः स तया सार्धं वर्षाणाम् अधिकं शतम्
अतिष्ठन् मन्दरद्रोण्यां विषयासक्तमानसः ॥

1.15.14

सा तं प्राह महाभाग गन्तुम् इच्छाम्य् अहं दिवम्
प्रसादसुमुखो ब्रह्मन्न् अनुज्ञां दातुम् अर्हसि ॥

1.15.15

तयैवम् उक्तः स मुनिस् तस्याम् आसक्तमानसः
दिनानि कतिचिद् भद्रे स्थीयताम् इत्य् अभाषत ॥

1.15.16

एवम् उक्ता ततस् तेन साग्रं वर्षशतं पुनः
बुभुजे विषयांस् तन्वी तेन सार्धं महात्मना ॥

1.15.17

अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम्
उक्तस् तयेति स मुनिः स्थीयताम् इत्य् अभाषत ॥

1.15.18

पुनर् गते वर्षशते साधिके सा शुभानना
यामीत्य् आह दिवं ब्रह्मन् प्रणयस्मितशोभनम् ॥

1.15.19

उक्तस् तयैवं स मुनिर् उपगुह्यायतेक्षणाम्
प्राहास्यतां क्षणं सुभ्रु चिरकालं गमिष्यसि ॥

1.15.20

तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः
शतद्वयं किंचिद् ऊनं वर्षाणाम् अन्वतिष्ठत ॥

1.15.21

गमनाय महाभागो देवराजनिवेशनम्
प्रोक्तः प्रोक्तस् तया तन्व्या स्थीयताम् इत्य् अभाषत ॥

1.15.21*40:1

ययौ रवं भयं प्रेम सद्भावं पूर्वनायके ॥

1.15.21*40:2

न मुञ्चत्य् अन्यसक्तापि सा ज्ञेया दक्षिणा बुधैः ॥

1.15.22

तं सा शापभयाद् भीता दाक्षिण्येन च दक्षिणा
प्रोक्ता प्रणयभङ्गार्ति वेदिनी न जहौ मुनिम् ॥

1.15.23

तया च रमतस् तस्य परमर्षेर् अहर्निशम्
नवं नवम् अभूत् प्रेम मन्मथाविष्टचेतसः ॥

1.15.24

एकदा तु त्वरायुक्तो निश्चक्रामोटजान् मुनिः
निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥

1.15.25

इत्य् उक्तः स तया प्राह परिवृत्तम् अहः शुभे
संध्योपास्तिं करिष्यामि क्रियालोपो ऽन्यथा भवेत् ॥

1.15.26

ततः प्रहस्य मुदिता तं सा प्राह महामुनिम्
किम् अद्य सर्वधर्मज्ञ परिवृत्तम् अहस् तव ॥

1.15.27

बहूनां विप्र वर्षाणां परिणामम् अहस् तव
गतम् एतन् न कुरुते विस्मयं कस्य कथ्यताम् ॥

1.15.28

प्रातस् त्वम् आगता भद्रे नदीतीरम् इदं शुभम्
मया दृष्टा च तन्वङ्गि प्रविष्टा च ममाश्रमम् ॥

1.15.28*41

क्षणे क्षणे मयासूत्र प्रxxद्धा ननूत्तमे ॥

1.15.29

इयं च वर्तते संध्या परिणामम् अहर् गतम्
अवहासः किमर्थो ऽयं सद्भावः कथ्यतां मम ॥

1.15.30

प्रत्यूषस्य् आगता ब्रह्मन् सत्यम् एतन् न तन् मृषा
किन्त्व् अद्य तस्य कालस्य गतान्य् अब्दशतानि ते ॥

1.15.31

ततः ससाध्वसो विप्रस् तां पप्रच्छायतेक्षणाम्
कथ्यतां भीरु कः कालस् त्वया मे रमतः सह ॥

1.15.32

सप्तोत्तराण्य् अतीतानि नव वर्षशतानि ते
मासाश् च षट् तथैवान्यत् समतीतं दिनत्रयम् ॥

1.15.33

सत्यं भीरु वदस्य् एतत् परिहासो ऽथ वा शुभे
दिनम् एकम् अहं मन्ये त्वया सार्धम् इहासितम् ॥

1.15.34

वदिष्याम्य् अनृतं ब्रह्मन् कथम् अत्र तवान्तिके
विशेषेणाद्य भवता पृष्टा मार्गानुवर्तिना ॥

1.15.35

निशम्य तद् वचः तस्याः स मुनिर् नृपनन्दनाः
धिङ् मां धिङ् माम् अतीवेत्थं निनिन्दात्मानम् आत्मना ॥

1.15.36

तपांसि मम नष्टानि हतं ब्रह्मविदां धनम्
हृतो विवेकः केनापि योषिन् मोहाय निर्मिता ॥

1.15.37

ऊर्मिषट्कातिगं ब्रह्म ज्ञेयम् आत्मजयेन मे
मतिर् एषा हृता येन धिक् तं कामं महाग्रहम् ॥

1.15.37*42

क्षुड्तृxशोकमोहौ च जरामृत्यू षडूर्मयः ॥

1.15.38

व्रतानि वेदवेद्याप्ति कारणान्य् अखिलानि च
नरकग्राममार्गेण सङ्गेनापहृतानि मे ॥

1.15.39

विनिन्द्येत्थं स धर्मज्ञः स्वयम् आत्मानम् आत्मना
ताम् अप्सरसम् आसीनाम् इदं वचनम् अब्रवीत् ॥

1.15.40

गच्छ पापे यथा कामं यत् कार्यं तत् कृतं त्वया
देवराजस्य मत्क्षोभं कुर्वन्त्या भावचेष्टितैः ॥

1.15.41

न त्वां करोम्य् अहं भस्म क्रोधतीव्रेण वह्निना
सतां सप्तपदं मैत्रम् उषितो ऽहं त्वया सह ॥

1.15.42

अथ वा तव को दोषः किं वा कुप्याम्य् अहं तव
ममैव दोषो नितरां येनाहम् अजितेन्द्रियः ॥

1.15.43

यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः
त्वया धिक् त्वां महामोह मञ्जूषां सुजुगुप्सिताम् ॥

1.15.44

यावद् इत्थं स विप्रर्षिस् तां ब्रवीति सुमध्यमाम्
तावद् गलत्स्वेदजला सा बभूवातिवेपथुः ॥

1.15.45

प्रवेपमानां सततं खिन्नगात्रलतां सतीम्
गच्छ गच्छेति सक्रोधम् उवाच मुनिसत्तमः ॥

1.15.46

सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात्
आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥

1.15.47

वृक्षाद् वृक्षं ययौ बाला तदग्रारुणपल्लवैः
निर्मार्जमाना गात्राणि गलत्स्वेदजलानि वै ॥

1.15.48

ऋषिणा यस् तदा गर्भस् तस्या देहे समाहितः
निर्जगाम सरोमाञ्च स्वेदरूपी तदङ्गतः ॥

1.15.49

तं वृक्षा जगृहुर् गर्भम् एकं चक्रे च मारुतः
मया चाप्यायितो गोभिः स तदा ववृधे शनैः ॥

1.15.50

वृक्षाग्रगर्भसंभूता मारिषाख्या वरानना
तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम् ॥

1.15.51

कण्डोर् अपत्यम् एवं सा वृक्षेभ्यश् च समुद्गता
ममापत्यं तथा वायोः प्रम्लोचातनया च सा ॥

1.15.52

स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमाः
पुरुषोत्तमाख्यम् अद्रीशं विष्णोर् आयतनं ययौ ॥

1.15.53

तत्रैकाग्रमतिर् भूत्वा चकाराराधनं हरेः
ब्रह्मपारमयं कुर्वञ् जपम् एकाग्रमानसः
ऊर्ध्वबाहुर् महायोगी स्थित्वासौ भूपनन्दनाः ॥

1.15.54

ब्रह्मपारं मुनेः श्रोतुम् इच्छामः परमं स्तवम्
जपता कण्डुना देवो येनाराध्यत केशवः ॥

1.15.55

पारं परं विष्णुर् अपारपारः परः परेभ्यः परमार्थरूपी
स ब्रह्मपारः परपारभूतः परः पराणाम् अपि पारपारः ॥

1.15.55*43:1

संकीर्त्य त्वं त्रिश्लोक्या x प्रार्थना च चतुर्थतः ॥

1.15.55*43:2

ब्रह्मपारस्तवेनैवं कण्डोस् तुष्टो ऽचिराद् धरिः ॥

1.15.56

स कारणं कारणतस् ततो ऽपि तस्यापि हेतुः परहेतुहेतुः
कार्येषु चैवं सह कर्मकर्तृ रूपैर् अशेषैर् अवतीह सर्वम् ॥

1.15.57

ब्रह्म प्रभुर् ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिर् अच्युतो ऽसौ
ब्रह्माव्ययं नित्यम् अजं स विष्णुर् अपक्षयाद्यैर् अखिलैर् असङ्गि ॥

1.15.58

ब्रह्माक्षरम् अजं नित्यं यथासौ पुरुषोत्तमः
तथा रागादयो दोषाः प्रयान्तु प्रशमं मम ॥

1.15.59

एतद् ब्रह्मपराख्यं वै संस्तवं परमं जपन्
अवाप परमां सिद्धिं स समाराध्य केशवम् ॥

1.15.59*44:1

इमं स्तवं यः पठति शृणुयाद् वापि नित्यशः ॥

1.15.59*44:2

स कामदोषैर् अखिलैर् मुक्तः प्राप्नोति वाञ्छितम् ॥

1.15.59*45:1

यः इमं स्तवं पठते शृणुयाद् अपि नित्यशः ॥

1.15.59*45:2

स कामदोषैर् अखिलैर् विमुक्तो भवति ध्रुवम् ॥

1.15.60

इयं च मारिषा पूर्वम् आसीद् या तां ब्रवीमि वः
कार्यगौरवम् एतस्याः कथने फलदायि वः ॥

1.15.61

अपुत्रा प्राग् इयं विष्णुं मृते भर्तरि सत्तमाः
भूपपत्नी महाभागा तोषयाम् आस भक्तितः ॥

1.15.62

आराधितस् तया विष्णुः प्राह प्रत्यक्षतां गतः
वरं वृणीष्वेति शुभां सा च प्राहात्मवाञ्छितम् ॥

1.15.63

भगवन् बालवैधव्याद् वृथाजन्माहम् ईदृशी
मन्दभाग्या समुद्भूता विफला च जगत्पते ॥

1.15.64

भवन्तु पतयः श्लाघ्या मम जन्मनि जन्मनि
त्वत्प्रसादात् तथा पुत्रः प्रजापतिसमो ऽस्तु मे ॥

1.15.64*46:1

कुलं शीलं वयः सत्यं दाक्षिण्यं क्षिप्रकारिता ॥

1.15.64*46:2

अविसंवादिता सत्त्वं वृद्धसेवा कृतज्ञता ॥

1.15.65

रूपसंपत्समायुक्ता सर्वस्य प्रियदर्शना
अयोनिजा च जायेयं त्वत्प्रसादाद् अधोक्षज ॥

1.15.66

तयैवम् उक्तो देवेशो हृषीकेश उवाच ताम्
प्रणामनम्राम् उत्थाप्य वरदः परमेश्वरः ॥

1.15.67

भविष्यन्ति महावीर्या एकस्मिन्न् एव जन्मनि
प्रख्यातोदारकर्माणो भवत्याः पतयो दश ॥

1.15.68

पुत्रं च सुमहात्मानम् अतिवीर्यपराक्रमम्
प्रजापतिगुणैर् युक्तं त्वम् अवाप्स्यसि शोभने ॥

1.15.69

वंशानां तस्य कर्तृत्वं जगत्य् अस्मिन् भविष्यति
त्रैलोक्यम् अखिलं सूतिस् तस्य चापूरयिष्यति ॥

1.15.70

त्वं चाप्य् अयोनिजा साध्वी रूपौदार्यगुणान्विता
मनःप्रीतिकरी नॄणां मत्प्रसादाद् भविष्यसि ॥

1.15.71

इत्य् उक्त्वान्तर्दधे देवस् तां विशालविलोचनाम्
सा चेयं मारिषा जाता युष्मत्पत्नी नृपात्मजाः ॥

1.15.72

ततः सोमस्य वचनाज् जगृहुस् ते प्रचेतसः
संहृत्य कोपं वृक्षेभ्यः पत्नीधर्मेण मारिषाम् ॥

1.15.73

दशभ्यस् तु प्रचेतोभ्यो मारिषायां प्रजापतिः
जज्ञे दक्षो महाभागो यः पूर्वं ब्रह्मणो ऽभवत् ॥

1.15.74

स तु दक्षो महाभागः सृष्ट्यर्थं सुमहामते
पुत्रान् उत्पादयाम् आस प्रजासृष्ट्यर्थम् आत्मनः ॥

1.15.75

अचरांश् च चरांश् चैव द्विपदो ऽथ चतुष्पदः
आदेशं ब्रह्मणः कुर्वन् सृष्ट्यर्थं समवस्थितः ॥

1.15.76

स सृष्ट्वा मनसा दक्षः पञ्चाशद् असृजत् स्त्रियः
ददौ स दश धर्माय कश्यपाय त्रयोदश
कालस्य नयने युक्ताः सप्तविंशतिम् इन्दवे ॥

1.15.77

तासु देवास् तथा दैत्या नागा गावस् तथा खगाः
गन्धर्वाप्सरसश् चैव दानवाद्याश् च जज्ञिरे ॥

1.15.78

ततः प्रभृति मैत्रेय प्रजा मैथुनसंभवाः
संकल्पाद् दर्शनात् स्पर्शात् पूर्वेषाम् अभवन् प्रजाः
तपोविशैषैर् इद्धानां तदात्यन्ततपस्विनाम् ॥

1.15.79

अङ्गुष्ठाद् दक्षिणाद् दक्षः पूर्वं जातः श्रुतो मया
कथं प्राचेतसो भूयः स संभूतो महामुने ॥

1.15.80

एष मे संशयो ब्रह्मन् सुमहान् हृदि वर्तते
यद् दौहित्रश् च सोमस्य पुनः श्वशुरतां गतः ॥

1.15.81

उत्पत्तिश् च निरोधश् च नित्यो भूतेषु सत्तम
ऋषयो ऽत्र न मुह्यन्ति ये चान्ये दिव्यचक्षुषः ॥

1.15.82

युगे युगे भवन्त्य् एते दक्षाद्या मुनिसत्तम
पुनश् चैव निरुद्ध्यन्ते विद्वांस् तत्र न मुह्यति ॥

1.15.83

कानिष्ठ्यं ज्यैष्ठ्यम् अप्य् एषां पूर्वं नाभूद् द्विजोत्तम
तप एव गरीयो ऽभूत् प्रभावश् चैव कारणम् ॥

1.15.84

देवानां दानवानां च गन्धर्वोरगरक्षसाम्
उत्पत्तिं विस्तरेणेह मम ब्रह्मन् प्रकीर्तय ॥

1.15.85

प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा
यथा ससर्ज भूतानि तथा शृणु महामते ॥

1.15.86

मनसा त्व् एव भूतानि पूर्वं दक्षो ऽसृजत् तदा
देवान् ऋषीन् सगन्धर्वान् असुरान् पन्नगांस् तथा ॥

1.15.87

यदास्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः
ततः संचिन्त्य बहुशः सृष्टिहेतोः प्रजापतिः ॥

1.15.88

मैथुनेनैव धर्मेण सिसृक्षुर् विविधाः प्रजाः
असिक्नीम् आवहत् कन्यां वीरणस्य प्रजापतेः
सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ॥

1.15.89

अथ पुत्रसहस्राणि वैरिण्यां पञ्च वीर्यवान्
असिक्न्यां जनयाम् आस सर्गहेतोः प्रजापतिः ॥

1.15.90

तान् दृष्ट्वा नारदो विप्र संविवर्द्धयिषून् प्रजाः
संगम्य प्रियसंवादो देवर्षिर् इदम् अब्रवीत् ॥

1.15.91

हे हर्यश्वा महावीर्याः प्रजा यूयं करिष्यथ
ईदृशो लक्ष्यते यत्नो भवतां श्रूयताम् इदम् ॥

1.15.92

बालिशा बत यूयं वै नास्या जानीत वै भुवः
अन्तर् ऊर्ध्वम् अधश् चैव कथं स्रक्ष्यथ वै प्रजाः ॥

1.15.93

ऊर्ध्वं तिर्यग् अधश् चैव यदाप्रतिहता गतिः
तदा कस्माद् भुवो नान्तं सर्वे द्रक्ष्यथ बालिशाः ॥

1.15.94

ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम्
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥

1.15.95

हर्यश्वेष्व् अथ नष्टेषु दक्षः प्राचेतसः पुनः
वैरिण्याम् अथ पुत्राणां सहस्रम् असृजत् प्रभुः ॥

1.15.96

विवर्धयिषवस् ते तु शबलाश्वाः प्रजाः पुनः
पूर्वोक्तं वचनं ब्रह्मन् नारदेनैव चोदिताः ॥

1.15.97

अन्योन्यम् ऊचुस् ते सर्वे सम्यग् आह महामुनिः
भ्रातॄणां पदवी चैव गन्तव्या नात्र संशयः ॥

1.15.98

ज्ञात्वा प्रमाणं पृथ्व्याश् च प्रजाः स्रक्ष्यामहे ततः ॥

1.15.99

ते ऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम्
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥

1.15.100

ततः प्रभृति वै भ्राता भ्रातुर् अन्वेषणे द्विज
प्रयातो नश्यति तथा तन् न कार्यं विजानता ॥

1.15.101

तांश् चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः
क्रोधं चक्रे महाभागो नारदं स शशाप च ॥

1.15.101*47:1

हर्यश्वेष्व् अथ नष्टेषु दक्षः क्रुद्दो शपं द्विजः ॥

1.15.101*47:2

नारदा नाशम् एहेति गर्भवासं वसेति च ॥

1.15.101*47:3

ततो दक्षसुतां प्रादात् प्रियां वै परमे दिने ॥

1.15.101*47:4

तस्मात् स नारदो जज्ञे भूयः शापबलाद् ऋषीन् ॥

1.15.102

सर्गकामस् ततो विद्वान् स मैत्रेय प्रजापतिः
षष्टिं दक्षो ऽसृजत् कन्या वैरिण्याम् इति नः श्रुतम् ॥

1.15.103

ददौ स दश धर्माय कश्यपाय त्रयोदश
सप्तविंशति सोमाय चतस्रो ऽरिष्टनेमिने ॥

1.15.104

द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा
द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥

1.15.105

अरुन्धती वसुर् जामिर् लम्बा भानुर् मरुत्वती
संकल्पा च मुहूर्ता च साध्या विश्वा च ता दश
धर्मपत्न्यो दश त्व् एतास् तास्व् अपत्यानि मे शृणु ॥

1.15.106

विश्वेदेवास् तु विश्वायाः साध्या साध्यान् व्यजायत
मरुत्वत्या मरुत्वन्तो वसोस् तु वसवः स्मृताः ॥

1.15.107

भानोस् तु भानवस् तत्र मुहूर्ताया मुहूर्तजाः
लम्बायाश् चैव घोषो ऽथ नागवीथी तु जामिजा ॥

1.15.108

पृथिवीविषयं सर्वम् अरुन्धत्याम् अजायत
संकल्पायास् तु सर्वात्मा जज्ञे संकल्प एव च ॥

1.15.109

ये त्व् अनेकवसुप्राणा देवा ज्योतिःपुरोगमाः
वसवो ऽष्टौ समाख्यातास् तेषां वक्ष्यामि विस्तरम् ॥

1.15.110

आपो ध्रुवश् च सोमश् च धरश् चैवानिलो ऽनलः
प्रत्यूषश् च प्रभासश् च वसवो नामभिः स्मृताः ॥

1.15.111

आपस्य पुत्रो वैतण्डः श्रमः श्रान्तो ऽधुनिस् तथा
ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः ॥

1.15.112

सोमस्य भगवान् वर्चा वर्चस्वी येन जायते ॥

1.15.113

धरस्य पुत्रो द्रविणो हुतहव्यवहस् तथा
मनोहरायां शिशिरः प्राणो ऽथ रवणस् तथा ॥

1.15.114

अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः
अविज्ञातगतिश् चैव द्वौ पुत्राव् अनिलस्य तु ॥

1.15.115

अग्निपुत्रः कुमारस् तु शरस्तम्बे व्यजायत
तस्य शाखो विशाखश् च नैगमेयश् च पृष्ठजाः ॥

1.15.116

अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः ॥

1.15.117

प्रत्यूषस्य विदुः पुत्रं ऋषिं नाम्ना तु देवलम्
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥

1.15.118

बृहस्पतेस् तु भगिनी वरस्त्री ब्रह्मचारिणी
योगसिद्धा जगत् कृत्स्नम् असक्ता विचरत्य् उत
प्रभासस्य तु भार्या सा वसूनाम् अष्टमस्य ह ॥

1.15.119

विश्वकर्मा महाभागस् तस्यां जज्ञे प्रजापतिः
कर्ता शिल्पसहस्राणां त्रिदशानां च वार्द्धकिः ॥

1.15.120

भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः
यः सर्वेषां विमानानि देवतानां चकार ह
मनुष्याश् चोपजीवन्ति यस्य शिल्पं महात्मनः ॥

1.15.120*48

तस्य पुत्राश् च चत्वारो तेषां नामानि मे शृणु ॥

1.15.121

अजैकपाद् अहिर्बुध्न्यस् त्वष्टा रुद्रश् च बुद्धिमान्
त्वष्टुश् चाप्य् आत्मजः पुत्रो विश्वरूपो महातपाः ॥

1.15.122

हरश् च बहुरूपश् च त्र्यम्बकश् चापराजितः
वृषाकपिश् च शंभुश् च कपर्दी रैवतस् तथा ॥

1.15.123

मृगव्याधश् च शर्वश् च कपाली च महामुने
एकादशैते कथिता रुद्रास् त्रिभुवनेश्वराः ॥

1.15.124

शतं त्व् एवं समाम्नातं रुद्राणाम् अमितौजसाम् ॥

1.15.124*49

काश्यपस्य तु भार्या यास् तासां नामानि मे शृणु ॥

1.15.125

अदितिर् दितिर् दनुश् चैव अरिष्टा सुरसा स्वसा
सुरभिर् विनता चैव ताम्रा क्रोधवशा इरा
कद्रुर् मुनिश् च धर्मज्ञ तदपत्यानि मे शृणु ॥

1.15.126

पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः
तुषिता नाम ते ऽन्योन्यम् ऊचुर् वैवस्वते ऽन्तरे ॥

1.15.127

उपस्थिते ऽतियशसश् चाक्षुषस्यान्तरे मनोः
समवायीकृताः सर्वे समागम्य परस्परम् ॥

1.15.128

आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै
मन्वन्तरे प्रसूयामस् तन् नः श्रेयो भवेद् इति ॥

1.15.128*50

एव स्वामिन् स पिता चैव मित्रावरुण एव च ॥

1.15.129

एवम् उक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः
मारीचात् कश्यपाज् जातास् ते ऽदित्या दक्षकन्यया ॥

1.15.130

तत्र विष्णुश् च शक्रश् च जज्ञाते पुनर् एव हि
अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥

1.15.131

विवस्वान् सविता चैव मित्रो वरुण एव च
अंशो भगश् चातितेजा आदित्या द्वादश स्मृताः ॥

1.15.132

चाक्षुषस्यान्तरे पूर्वम् आसन् ये तुषिताः सुराः
वैवस्वते ऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥

1.15.133ab

सप्तविंशति याः प्रोक्ताः सोमपत्न्यो ऽथ सुव्रताः ॥

1.15.133ab*51

सर्वा नक्षत्रयोगिन्यस् तन्नाम्नश् चैव ताः स्मृताः ॥

1.15.133*52

दक्षशापाद् या सपत्याः तासु यक्षगृहार्थिते ॥

1.15.133cd

तासाम् अपत्यान्य् अभवन् दीप्तान्य् अमिततेजसाम् ॥

1.15.134

अरिष्टनेमिपत्नीनाम् अपत्यानीह षोडश ॥

1.15.135

बहुपुत्रस्य विदुषश् चतस्रो विद्युतः स्मृताः ॥

1.15.136

प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ॥

1.15.137

कृशाश्वस्य तु देवर्षेर् देवप्रहरणाः सुताः ॥

1.15.138

एते युगसहस्रान्ते जायन्ते पुनर् एव हि
सर्वे देवगणास् तात त्रयस् त्रिंशत् तु छन्दजाः
तेषाम् अपीह सततं निरोधोत्पत्तिर् उच्यते ॥

1.15.139

यथा सूर्यस्य मैत्रेय उदयास्तमनाव् इह
एवं देवनिकायास् ते संभवन्ति युगे युगे ॥

1.15.140

दित्या पुत्रद्वयं जज्ञे कश्यपाद् इति नः श्रुतम्
हिरण्यकशिपुश् चैव हिरण्याक्षश् च दुर्जयः ॥

1.15.141

सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ॥

1.15.142

हिरण्यकशिपोः पुत्राश् चत्वारः प्रथितौजसः
अनुह्लादश् च ह्लादश् च प्रह्लादश् चैव धर्मवान्
संह्लादश् च महावीर्या दैत्यवंशविवर्धनाः ॥

1.15.143

तेषां मध्ये महाभागः सर्वत्र समदृग् वशी
प्रह्लादः परमां भक्तिं य उवाह जनार्दने ॥

1.15.143*53:1

प्रह्लादवन् नृसिंहैक भक्तिभावाय देहिनाम् ॥

1.15.143*53:2

आवहच् छ्रवणौत्सुक्यं तत्प्रभावम् असूचयत् ॥

1.15.144

दैत्येन्द्रदीपितो वह्निः सर्वाङ्गोपचितो द्विज
न ददाह च यं पूर्वं वासुदेवे हृदि स्थिते ॥

1.15.145

महार्णवान्तःसलिले स्थितस्य चलतो मही
चचाल सकला यस्य पाशबद्धस्य धीमतः ॥

1.15.146

न भिन्नं विविधैः शस्त्रैर् यस्य दैत्येन्द्रपातितैः
शरीरम् अद्रिकठिनं सर्वत्राच्युतचेतसः ॥

1.15.147

विषानलोज्ज्वलमुखा यस्य दैत्यप्रचोदिताः
नान्ताय सर्पपतयो बभूवुर् उरुतेजसः ॥

1.15.148

शैलैर् आक्रान्तदेहो ऽपि यः स्मरन् पुरुषोत्तमम्
तत्याज नात्मनः प्राणान् विष्णुस्मरणदंशितः ॥

1.15.149

पतन्तम् उच्चाद् अवनिर् यम् उपेत्य महामतिम्
दधार दैत्यपतिना क्षिप्तं स्वर्गनिवासिना ॥

1.15.150

यस्य संशोषको वायुर् देहे दैत्येन्द्रयोजितः
अवाप संक्षयं सद्यश् चित्तस्थे मधुसूदने ॥

1.15.151

विषाणभङ्गम् उन्मत्ता मदहानिं च दिग्गजाः
यस्य वक्षःस्थले प्राप्ता दैत्येन्द्रपरिणामिताः ॥

1.15.152

यस्य चोत्पादिता कृत्या दैत्यराजपुरोहितैः
बभूव नान्ताय पुरा गोविन्दासक्तचेतसः ॥

1.15.153

शम्बरस्य च मायानां सहस्रम् अतिमायिनः
यस्मिन् प्रयुक्तं चक्रेण कृष्णस्य वितथीकृतम् ॥

1.15.154

दैत्येन्द्रसूदोपहृतं यश् च हालाहलं विषम्
जरयाम् आस मतिमान् अविकारम् अमत्सरी ॥

1.15.155

समचेता जगत्य् अस्मिन् यः सर्वेष्व् एव जन्तुषु
यथात्मनि तथान्यत्र परं मैत्रगुणान्वितः ॥

1.15.156

धर्मात्मा सत्यशौचादि गुणानाम् आकरः परः
उपमानम् अशेषाणां साधूनां यः सदाभवत् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc