विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.14
पृथोः पुत्रौ महावीर्यौ जज्ञाते ऽन्तर्धिवादिनौ
शिखण्डिनी हविर्धानम् अन्तर्धानाद् व्यजायत ॥
हविर्धानात् षड् आग्नेयी धिषणाजनयत् सुतान्
प्राचीनबर्हिषं शुक्रं गयं कृष्णं वृजाजिनौ ॥
प्राचीनबर्हिर् भगवान् महान् आसीत् प्रजापतिः
हविर्धानिर् महाराजो येन संवर्धिताः प्रजाः ॥
प्राचीनाग्राः कुशास् तस्य पृथिव्यां विश्रुता मुने
प्राचीनबर्हिर् अभवत् ख्यातो भुवि महाबलः ॥
समुद्रतनयायां तु कृतदारो महीपतिः
महतस् तपसः पारे सवर्णायां महीपतेः ॥
सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥
अपृथग्धर्मचरणास् ते ऽतप्यन्त महत् तपः
दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥
यदर्थं ते महात्मानस् तपस् तेपुर् महामुने
प्रचेतसः समुद्राम्भस्य् एतद् आख्यातुम् अर्हसि ॥
पित्रा प्रचेतसः प्रोक्ताः प्रजार्थम् अमितात्मना
प्रजापतिनियुक्तेन बहुमानपुरःसरम् ॥
ब्रह्मणा देवदेवेन समादिष्टो ऽस्म्य् अहं सुताः
प्रजाः संवर्धनीयास् ते मया चोक्तं तथेति तत् ॥
तन् मम प्रीतये पुत्राः प्रजावृद्धिम् अतन्द्रिताः
कुरुध्वं माननीया च सम्यग् आज्ञा प्रजापतेः ॥
ततस् ते तत् पितुः श्रुत्वा वचनं नृपनन्दनाः
तथेत्य् उक्त्वा च तं भूयः पप्रच्छुः पितरं मुने ॥
येन तात प्रजावृद्धौ समर्थाः कर्मणा वयम्
भवेम तत् समस्तं नः कर्म व्याख्यातुम् अर्हसि ॥
आराध्य वरदं विष्णुम् इष्टप्राप्तिम् असंशयम्
समेति नान्यथा मर्त्यः किम् अन्यत् कथयामि वः ॥
तस्मात् प्रजाविवृद्ध्यर्थं सर्वभूतप्रभुं हरिम्
आराधयत गोविन्दं यदि सिद्धिम् अभीप्सथ ॥
धर्मम् अर्थं च कामं च मोक्षं चान्विच्छता सदा
आराधनीयो भगवान् अनादिः पुरुषोत्तमः ॥
यस्मिन्न् आराधिते सर्गं चकारादौ प्रजापतिः
तम् आराध्याच्युतं वृद्धिः प्रजानां वो भविष्यति ॥
इत्य् एवम् उक्तास् ते पित्रा पुत्राः प्रचेतसो दश
मग्नाः पयोधिसलिले तपस् तेपुः समाहिताः ॥
दश वर्षसहस्राणि न्यस्तचित्ता जगत्पतौ
नारायणे मुनिश्रेष्ठ सर्वलोकपरायणे ॥
तत्रैव ते स्थिता देवम् एकाग्रमनसो हरिम्
तुष्टुवुर् यः स्तुतः कामान् स्तोतुर् इष्टान् प्रयच्छति ॥
स्तवं प्रचेतसो विष्णोः समुद्राम्भसि संस्थिताः
चक्रुस् तं मे मुनिश्रेष्ठ सुपुण्यं वक्तुम् अर्हसि ॥
शृणु मैत्रेय गोविन्दं यथापूर्वं प्रचेतसः
तुष्टुवुस् तन्मयीभूताः समुद्रसलिलेशयाः ॥
नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती
तम् आद्यन्तम् अशेषस्य जगतः परमं प्रभुम् ॥
जगद्बीजतया नत्वा चरुरूपविभागतः ॥
शुद्धरूपप्रणामेत तुष्टो विष्णुः प्रचेतसाम् ॥
ज्योतिर् आद्यम् अनौपम्यम् अण्व् अनन्तम् अपारवत्
योनिभूतम् अशेषस्य स्थावरस्य चरस्य च ॥
यस्याहः प्रथमं रूपम् अरूपस्य ततो निशा
संध्या च परमेशस्य तस्मै कालात्मने नमः ॥
भुज्यते ऽनुदिनं देवैः पितृभिश् च सुधात्मकः
जीवभूतः समस्तस्य तस्मै सोमात्मने नमः ॥
यस् तमो हन्ति तीव्रात्मा स्वभाभिर् भासयन् नभः
घर्मशीताम्भसां योनिस् तस्मै सूर्यात्मने नमः ॥
काठिन्यवान् यो बिभर्ति जगद् एतद् अशेषतः
शब्दादिसंश्रयो व्यापी तस्मै भूम्यात्मने नमः ॥
यद् योनिभूतं जगतो बीजं यत् सर्वदेहिनाम्
तत् तोयरूपम् ईशस्य नमामो हरिमेधसः ॥
यो मुखं सर्वदेवानां हव्यभुक् कव्यभुक् तथा
पितॄणां च नमस् तस्मै विष्णवे पावकात्मने ॥
पञ्चधावस्थितो देहे यश् चेष्टां कुरुते ऽनिशम्
आकाशयोनिर् भगवांस् तस्मै वाय्वात्मने नमः ॥
अवकाशम् अशेषाणां भूतानां यः प्रयच्छति
अनन्तमूर्तिमाञ् छुद्धस् तस्मै व्योमात्मने नमः ॥
समस्तेन्द्रियवर्गस्य यः सदा स्थानम् उत्तमम्
तस्मै शब्दादिरूपाय नमः कृष्णाय वेधसे ॥
गृह्णाति विषयान् नित्यम् इन्द्रियात्मा क्षराक्षरः
यस् तस्मै ज्ञानमूलाय नताः स्म हरिमेधसे ॥
गृहीतान् इन्द्रियैर् अर्थान् आत्मने यः प्रयच्छति
अन्तःकरणभूताय तस्मै विश्वात्मने नमः ॥
यस्मिन्न् अनन्ते सकलं विश्वं यस्मात् तथोद्गतम्
लयस्थानं च यस् तस्मै नमः प्रकृतिधर्मिणे ॥
शुद्धः संल्लक्ष्यते भ्रान्त्या गुणवान् इव यो ऽगुणः
तम् आत्मरूपिणं देवं नताः स्म पुरुषोत्तमम् ॥
अविकारम् अजं शुद्धं निर्गुणं यन् निरञ्जनम्
नताः स्म तत् परं ब्रह्म विष्णोर् यत् परमं पदम् ॥
अदीर्घह्रस्वम् अस्थूलम् अनण्व् अग्र्यम् अलोहितम्
अस्नेहच्छायम् अतनुम् असक्तम् असमीरणम् ॥
अनाकाशम् असंस्पर्शम् अगन्धम् अरसं च यत्
अचक्षुःश्रोत्रम् अचलम् अवाक्पाणिम् अमानसम् ॥
अनामगोत्रम् असुखम् अतेजस्कम् अहेतुकम्
अभयं भ्रान्तिरहितम् अनिद्रम् अजरामरम् ॥
अरजो ऽशब्दम् अमृतम् अप्लुतं यद् असंवृतम्
पूर्वापरे न वै यस्मिंस् तद् विष्णोः परमं पदम् ॥
परम् ईशित्वगुणवत् सर्वभूतम् असंश्रयम्
नताः स्म तत् पदं विष्णोर् जिह्वादृग्गोचरं न यत् ॥
एवं प्रचेतसो विष्णुं स्तुवन्तस् तत्समाधयः
दश वर्षसहस्राणि तपश् चेरुर् महार्णवे ॥
ततः प्रसन्नो भगवांस् तेषाम् अन्तर्जले हरिः
ददौ दर्शनम् उन्निद्र नीलोत्पलदलच्छविः ॥
पतत्रिराजम् आरूढम् अवलोक्य प्रचेतसः
प्रणिपेतुः शिरोभिस् तं भक्तिभारावनामितैः ॥
ततस् तान् आह भगवान् व्रियताम् ईप्सितो वरः
प्रसादसुमुखो ऽहं वो वरदः समुपस्थितः ॥
ततस् तम् ऊचुर् वरदं प्रणिपत्य प्रचेतसः
यथा पित्रा समादिष्टं प्रजानां वृद्धिकारणम् ॥
स चापि देवस् तं दत्त्वा यथाभिलषितं वरम्
अन्तर्धानं जगामाशु ते च निश्चक्रमुर् जलात् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0