भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.13

1.13.1

ध्रुवाच् छिष्टिं च भव्यं च भव्याच् छंभुर् व्यजायत
शिष्टेर् आधत्त सुच्छाया पञ्च पुत्रान् अकल्मषान् ॥

1.13.2

रिपुं रिपुञ्जयं विप्रं वृकलं वृकतेजसम्
रिपोर् आधत्त बृहती चाक्षुषं सर्वतेजसम् ॥

1.13.3

अजीजनत् पुष्करिण्यां वारुण्यां चाक्षुषो मनुम्
प्रजापतेर् आत्मजायां वीरणस्य महात्मनः ॥

1.13.4

मनोर् अजायन्त दश नड्वलायां महौजसः
कन्यायां तपतां श्रेष्ठ वैराजस्य प्रजापतेः ॥

1.13.5

कुरुः पुरुः शतद्युम्नस् तपस्वी सत्यवाञ् छुचिः
अग्निष्टुद् अतिरात्रश् च सुद्युम्नश् चेति ते नव
अभिमन्युश् च दशमो नड्वलायां महौजसः ॥

1.13.6

कुरोर् अजनयत् पुत्रान् षड् आग्नेयी महाप्रभान्
अङ्गं सुमनसं ख्यातिं क्रतुम् अङ्गिरसं शिबिम् ॥

1.13.7

अङ्गात् सुनीथापत्यं वै वेनम् एकम् अजायत
प्रजार्थम् ऋषयस् तस्य ममन्थुर् दक्षिणं करम् ॥

1.13.8

वेनस्य पाणौ मथिते संबभूव महामुने
वैन्यो नाम महीपालो यः पृथुः परिकीर्त्यते ॥

1.13.9

येन दुग्धा मही पूर्वं प्रजानां हितकारणात् ॥

1.13.10

किमर्थं मथितः पाणिर् वेनस्य परमर्षिभिः
यत्र जज्ञे महावीर्यः स पृथुर् मुनिसत्तम ॥

1.13.11

सुनीथा नाम या कन्या मृत्योः प्रथमजाभवत्
अङ्गस्य भार्या सा दत्ता तस्यां वेनो व्यजायत ॥

1.13.12

स मातामहदोषेण तेन मृत्योः सुतात्मजः
निसर्गाद् एव मैत्रेय दुष्टभावो व्यजायत ॥

1.13.13

अभिषिक्तो यदा राज्ये स वेनः परमर्षिभिः
घोषयाम् आस स तदा पृथिव्यां पृथिवीपतिः ॥

1.13.14

न यष्टव्यं न होतव्यं न दातव्यं कथंचन
भोक्ता यज्ञस्य कस् त्व् अन्यो ह्य् अहं यज्ञपतिः प्रभुः ॥

1.13.15

ततस् तम् ऋषयः पूर्वं संपूज्य पृथिवीपतिम्
ऊचुः सामकलं सम्यङ् मैत्रेय समुपस्थिताः ॥

1.13.16

भो भो राजञ् छृणुष्व त्वं यद् वदामस् तव प्रभो
राज्यदेहोपकाराय प्रजानां च हितं परम् ॥

1.13.17

दीर्घसत्रेण देवेशं सर्वयज्ञेश्वरं हरिम्
पूजयिष्याम भद्रं ते तत्रांशस् ते भविष्यति ॥

1.13.18

यज्ञेन यज्ञपुरुषो विष्णुः संप्रीणितो नृप
अस्माभिर् भवतः कामान् सर्वान् एव प्रदास्यति ॥

1.13.19

यज्ञैर् यज्ञेश्वरो येषां राष्ट्रे संपूज्यते हरिः
तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम् ॥

1.13.20

मत्तः को ऽभ्यधिको ऽन्यो ऽस्ति कश् चाराध्यो ममापरः
को ऽयं हरिर् इति ख्यातो यो वै यज्ञेश्वरो मतः ॥

1.13.21

ब्रह्मा जनार्दनः शंभुर् इन्द्रो वायुर् यमो रविः
हुतभुग् वरुणो धाता पूषा भूमिर् निशाकरः ॥

1.13.22

एते चान्ये च ये देवाः शापानुग्रहकारिणः
नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः ॥

1.13.23

एतज् ज्ञात्वा मयाज्ञप्तं यद् यथा क्रियतां तथा
न दातव्यं न होतव्यं न यष्टव्यं च भो द्विजाः ॥

1.13.24

भर्तृशुश्रूषणं धर्मो यथा स्त्रीणां परो मतः
ममाज्ञापालनं धर्मो भवतां च तथा द्विजाः ॥

1.13.25

देह्य् अनुज्ञां महाराज मा धर्मो यातु संक्षयम्
हविषां परिणामो ऽयं यद् एतद् अखिलं जगत् ॥

1.13.25*36

धर्मे च संक्षयं याते क्षीयते चाखिलं जगत् ॥

1.13.26

इति विज्ञाप्यमानो ऽपि स वेनः परमर्षिभिः
पापो ददाति नानुज्ञां तदा प्रोक्तः पुनः पुनः ॥

1.13.27

ततस् ते मुनयः सर्वे कोपामर्षसमन्विताः
हन्यतां हन्यतां पाप इत्य् ऊचुस् ते परस्परम् ॥

1.13.28

यो यज्ञपुरुषं विष्णुम् अनादिनिधनं प्रभुम्
विनिन्दत्य् अधमाचारो न स योग्यो भुवः पतिः ॥

1.13.29

इत्य् उक्त्वा मन्त्रपूतैस् तैः कुशैर् मुनिगणा नृपम्
निजघ्नुर् निहतं पूर्वं भगवन्निन्दनादिना ॥

1.13.30

ततश् च मुनयो रेणुं ददृशुः सर्वतो द्विज
किम् एतद् इति चासन्नं पप्रच्छुस् ते जनं तदा ॥

1.13.31

आख्यातं च जनैस् तेषां चौरीभूतैर् अराजके
राष्ट्रे तु लोकैर् आरब्धं परस्वादानम् आतुरैः ॥

1.13.32

तेषाम् उदीर्णवेगानां चौराणां मुनिसत्तमाः
सुमहान् दृश्यते रेणुः परवित्तापहारिणाम् ॥

1.13.33

ततः संमन्त्र्य ते सर्वे मुनयस् तस्य भूभृतः
ममन्थुर् ऊरुं पुत्रार्थम् अनपत्यस्य यत्नतः ॥

1.13.34

मथ्यतश् च समुत्तस्थौ तस्योरोः पुरुषः किल
दग्धस्थूणाप्रतीकाशः खर्वटास्यो ऽतिह्रस्वकः ॥

1.13.35

किं करोमीति तान् सर्वान् विप्रान् आह त्वरान्वितः
निषीदेति तम् ऊचुस् ते निषादस् तेन सो ऽभवत् ॥

1.13.36

ततस् तत्संभवा जाता विन्ध्यशैलनिवासिनः
निषादा मुनिशार्दूल पापकर्मोपलक्षणाः ॥

1.13.37

तेन द्वारेण तत् पापं निष्क्रान्तं तस्य भूपतेः
निषादास् ते ततो जाता वेनकल्मषनाशनाः ॥

1.13.38

ततो ऽस्य दक्षिणं हस्तं ममन्थुस् ते द्विजोत्तमाः ॥

1.13.39

मथ्यमाने च तत्राभूत् पृथुर् वैन्यः प्रतापवान्
दीप्यमानः स्ववपुषा साक्षाद् अग्निर् इव ज्वलन् ॥

1.13.40

आद्यम् आजगवं नाम खात् पपात ततो धनुः
शराश् च दिव्या नभसः कवचं च पपात ह ॥

1.13.41

तस्मिञ् जाते तु भूतानि संप्रहृष्टानि सर्वशः ॥

1.13.42

सत्पुत्रेण च जातेन वेनो ऽपि त्रिदिवं ययौ
पुन्नाम्नो नरकात् त्रातः स तेन सुमहात्मना ॥

1.13.43

तं समुद्राश् च नद्यश् च रत्नान्य् आदाय सर्वशः
तोयानि चाभिषेकार्थं सर्वाण्य् एवोपतस्थिरे ॥

1.13.44

पितामहश् च भगवान् देवैर् आङ्गिरसैः सह
स्थावराणि च भूतानि जङ्गमानि च सर्वशः
समागम्य तदा वैन्यम् अभ्यषिञ्चन् नराधिपम् ॥

1.13.45

हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः
विष्णोर् अंशं पृथुं मत्वा परितोषं परं ययौ ॥

1.13.46

विष्णुचिह्नं करे चक्रं सर्वेषां चक्रवर्तिनाम्
भवत्य् अव्याहतो यस्य प्रभावस् त्रिदशैर् अपि ॥

1.13.47

महता राजराज्येन पृथुर् वैन्यः प्रतापवान्
सो ऽभिषिक्तो महातेजा विधिवद् धर्मकोविदैः ॥

1.13.48

पित्रापरञ्जितास् तस्य प्रजास् तेनानुरञ्जिताः
अनुरागात् ततस् तस्य नाम राजेत्य् अजायत ॥

1.13.49

आपस् तस्तम्भिरे चास्य समुद्रम् अभियास्यतः
पर्वताश् च ददुर् मार्गं ध्वजभङ्गश् च नाभवत् ॥

1.13.50

अकृष्टपच्या पृथिवी सिद्ध्यन्त्य् अन्नानि चिन्तया
सर्वकामदुघा गावः पुटके पुटके मधु ॥

1.13.51

तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे
सूतः सूत्यां समुत्पन्नः सौत्ये ऽहनि महामतिः ॥

1.13.51*37

पृथुर् एवाभवत् तस्मात् ततः पृथुर् अजायत ॥

1.13.52

तस्मिन्न् एव महायज्ञो जज्ञे प्राज्ञो ऽथ मागधः
प्रोक्तौ तदा मुनिवरैस् ताव् उभौ सूतमागधौ ॥

1.13.53

स्तूयताम् एष नृपतिः पृथुर् वैन्यः प्रतापवान्
कर्मैतद् अनुरूपं च पात्रं स्तोत्रस्य चाप्य् अयम् ॥

1.13.54

ततस् ताव् ऊचतुर् विप्रान् सर्वान् एव कृताञ्जली
अद्यजातस्य नो कर्म ज्ञायते ऽस्य महीपतेः ॥

1.13.55

गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः
स्तोत्रं किमाश्रयं त्व् अस्य कार्यम् अस्माभिर् उच्यताम् ॥

1.13.56

करिष्यत्य् एष यत् कर्म चक्रवर्ती महाबलः
गुणा भविष्या ये चास्य तैर् अयं स्तूयतां नृपः ॥

1.13.57

ततः स नृपतिस् तोषं तच् छ्रुत्वा परमं ययौ
सद्गुणैः श्लाघ्यताम् एति स्तव्याश् चाभ्यां गुणा मम ॥

1.13.58

तस्माद् यद् अत्र स्तोत्रे मे गुणनिर्वर्णनं त्व् इमौ
करिष्येते करिष्यामि तद् एवाहं समाहितः ॥

1.13.59

यद् इमौ वर्जनीयं च किंचिद् अत्र वदिष्यतः
तद् अहं वर्जयिष्यामीत्य् एवं चक्रे मतिं नृपः ॥

1.13.60

अथ तौ चक्रतुः स्तोत्रं पृथोर् वैन्यस्य धीमतः
भविष्यैः कर्मभिः सम्यक् सुस्वरौ सूतमागधौ ॥

1.13.61

सत्यवाग् दानशीलो ऽयं सत्यसन्धो नरेश्वरः
ह्रीमान् मैत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः ॥

1.13.62

धर्मज्ञाश् च कृतज्ञाश् च दयावान् प्रियभाषकः
मान्यान् मानयिता यज्वा ब्रह्मण्यः साधुवत्सलः ॥

1.13.63

समः शत्रौ च मित्रे च व्यवहारस्थितौ नृपः ॥

1.13.64

सूतेनोक्तान् गुणान् इत्थं स तदा मागधेन च
चकार हृदि तादृक् च कर्मणा कृतवान् असौ ॥

1.13.65

ततः स पृथिवीपालः पालयन् वसुधाम् इमाम्
इयाज विविधैर् यज्ञैर् महद्भिर् भूरिदक्षिणैः ॥

1.13.66

तं प्रजाः पृथिवीनाथम् उपतस्थुः क्षुधार्दिताः
ओषधीषु प्रणष्टासु तस्मिन् काले ह्य् अराजके
तम् ऊचुस् तेन ताः पृष्टास् तत्रागमनकारणम् ॥

1.13.66*38

प्रजापतिगुणं शूरं पृथुं सत्यपराक्रमम् ॥

1.13.67

अराजके नृपश्रेष्ठ धरित्र्या सकलौषधीः
ग्रस्तास् ततः क्षयं यान्ति प्रजाः सर्वाः प्रजेश्वर ॥

1.13.68

त्वं नो वृत्तिप्रदो धात्रा प्रजापालो निरूपितः
देहि नः क्षुत्परीतानां प्रजानां जीवनौषधीः ॥

1.13.69

ततो ऽथ नृपतिर् दिव्यम् आदायाजगवं धनुः
शरांश् च दिव्यान् कुपितः सो ऽन्वधावद् वसुंधराम् ॥

1.13.70

ततो ननाश त्वरिता गौर् भूत्वा तु वसुंधरा
सा लोकान् ब्रह्मलोकादीन् संत्रासाद् अगमन् मही ॥

1.13.71

यत्र यत्र ययौ देवी सा तदा भूतधारिणी
तत्र तत्र तु सा वैन्यं ददृशे ऽभ्युद्यतायुधम् ॥

1.13.72

ततस् तं प्राह वसुधा पृथुं पृथुपराक्रमम्
प्रवेपमाना तद्बाण परित्राणपरायणा ॥

1.13.73

स्त्रीवधे त्वं महापापं किं नरेन्द्र न पश्यसि
येन मां हन्तुम् अत्यर्थं प्रकरोषि नृपोद्यमम् ॥

1.13.74

एकस्मिन् यत्र निधनं प्रापिते दुष्टचारिणि
बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥

1.13.75

प्रजानाम् उपकाराय यदि मां त्वं हनिष्यसि
आधारः कः प्रजानां ते नृपश्रेष्ठ भविष्यति ॥

1.13.76

त्वां हत्वा वसुधे बाणैर् मच्छासनपराङ्मुखीम्
आत्मयोगबलेनेमा धारयिष्याम्य् अहं प्रजाः ॥

1.13.77

ततः प्रणम्य वसुधा तं भूयः प्राह पार्थिवम्
प्रवेपिताङ्गी परमं साध्वसं समुपागता ॥

1.13.78

उपायतः समारब्धाः सर्वे सिद्ध्यन्त्य् उपक्रमाः
तस्माद् वदाम्य् उपायं ते तं कुरुष्व यदीच्छसि ॥

1.13.79

समस्ता या मया जीर्णा नरनाथ महौषधीः
यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः ॥

1.13.80

तस्मात् प्रजाहितार्थाय मम धर्मभृतां वर
तं तु वत्सं प्रयच्छ त्वं क्षरेयं येन वत्सला ॥

1.13.81

समां च कुरु सर्वत्र येन क्षीरं समन्ततः
वरौषधीबीजभूतं वीर सर्वत्र भावये ॥

1.13.82

तत उत्सारयाम् आस शैलाञ् छतसहस्रशः
धनुष्कोट्या तदा वैन्यस् तेन शैला विवर्धिताः ॥

1.13.83

न हि पूर्वविसर्गे वै विषमे पृथिवीतले
प्रविभागः पुराणां वा ग्रामाणां वा तदाभवत् ॥

1.13.84

न सस्यानि न गोरक्ष्यं न कृषिर् न वणिक्पथः
वैन्यात् प्रभृति मैत्रेय सर्वस्यैतस्य संभवः ॥

1.13.85

यत्र यत्र समं त्व् अस्या भूमेर् आसीन् नराधिपः
तत्र तत्र प्रजानां हि निवासं समरोचयत् ॥

1.13.86

आहारः फलमूलानि प्रजानाम् अभवत् तदा
कृच्छ्रेण महता सो ऽपि प्रणष्टास्व् ओषधीषु वै ॥

1.13.87

स कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम्
स्वे पाणौ पृथिवीनाथो दुदोह पृथिवीं पृथुः
सस्यजातानि सर्वाणि प्रजानां हितकाम्यया ॥

1.13.88

तेनान्नेन प्रजास् तात वर्तन्ते ऽद्यापि नित्यशः ॥

1.13.89

प्राणप्रदानात् स पृथुर् यस्माद् भूमेर् अभूत् पिता
ततस् तु पृथिवीसंज्ञाम् अवापाखिलधारिणी ॥

1.13.90

ततश् च देवैर् मुनिभिर् दैत्यै रक्षोभिर् अद्रिभिः
गन्धर्वैर् उरगैर् यक्षैः पितृभिस् तरुभिस् तथा ॥

1.13.91

तत् तत् पात्रम् उपादाय तत् तद् दुग्धं मुने पयः
वत्सदोग्धृविशेषाश् च तेषां तद्योनयो ऽभवन् ॥

1.13.92

सैषा धात्री विधात्री च धारिणी पोषणी तथा
सर्वस्य जगतः पृथ्वी विष्णुपादतलोद्भवा ॥

1.13.93

एवंप्रभावः स पृथुः पुत्रो वेनस्य वीर्यवान्
जज्ञे महीपतिः पूर्वं राजाभूज् जनरञ्जनात् ॥

1.13.94

य इदं जन्म वैन्यस्य पृथोः संकीर्तयेन् नरः
न तस्य दुष्कृतं किंचित् फलदायि प्रजायते ॥

1.13.95

दुःस्वप्नोपशमं नॄणां शृण्वतां चैतद् उत्तमम्
पृथोर् जन्म प्रभावश् च करोति सततं नृणाम् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc