भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.12

1.12.1

निशम्यैतद् अशेषेण मैत्रेय नृपतेः सुतः
निर्जगाम वनात् तस्मात् प्रणिपत्य स तान् ऋषीन् ॥

1.12.2

कृतकृत्यम् इवात्मानं मन्यमानस् ततो द्विज
मधुसंज्ञं महापुण्यं जगाम यमुनातटम् ॥

1.12.3

पुनश् च मधुसंज्ञेन दैत्येनाधिष्ठितं यतः
ततो मधुवनं नाम्ना ख्यातम् अत्र महीतले ॥

1.12.4

हत्वा च लवणं रक्षो मधुपुत्रं महाबलम्
शत्रुघ्नो मधुरां नाम पुरीं यत्र चकार वै ॥

1.12.5

यत्र वै देवदेवस्य सांनिध्यं हरिमेधसः
सर्वपापहरे तस्मिंस् तपस् तीर्थे चकार सः ॥

1.12.6

मरीचिमिश्रैर् मुनिभिर् यथोद्दिष्टम् अभूत् तथा
आत्मन्य् अशेषदेवेशं स्थितं विष्णुम् अमन्यत ॥

1.12.7

अनन्यचेतसस् तस्य ध्यायतो भगवान् हरिः
सर्वभूतगतो विप्र सर्वभावगतो ऽभवत् ॥

1.12.8

मनस्य् अवस्थिते तस्य विष्णौ मैत्रेय योगिनः
न शशाक धरा भारम् उद्वोढुं भूतधारिणी ॥

1.12.9

वामपादस्थिते तस्मिन् ननामार्धेन मेदिनी
द्वितीयं च ननामार्धं क्षितेर् दक्षिणतः स्थिते ॥

1.12.10

पादाङ्गुष्ठेन संपीड्य यदा स वसुधां स्थितः
तदा सा वसुधा विप्र चचाल सह पर्वतैः ॥

1.12.11

नद्यो नदाः समुद्राश् च संक्षोभं परमं ययुः
तत्क्षोभाद् अमराः क्षोभं परं जग्मुर् महामुने ॥

1.12.12

यामा नाम तदा देवा मैत्रेय परमाकुलाः
इन्द्रेण सह संमन्त्र्य ध्यानभङ्गं प्रचक्रमुः ॥

1.12.13

कूष्माण्डा विविधै रूपैर् महेन्द्रेण महामुने
समाधिभङ्गम् अत्यन्तम् आरब्धाः कर्तुम् आतुराः ॥

1.12.14

सुनीतिर् नाम तन्माता सास्रा तत्पुरतः स्थिता
पुत्रेति करुणां वाचम् आह मायामयी तदा ॥

1.12.15

पुत्रकास्मान् निवर्तस्व शरीरव्ययदारुणात्
निर्बन्धतो मया लब्धो बहुभिस् त्वं मनोरथैः ॥

1.12.16

दीनाम् एकां परित्यक्तुम् अनाथां न त्वम् अर्हसि
सपत्नीवचनाद् वत्स अगतेस् त्वं गतिर् मम ॥

1.12.17

क्व च त्वं पञ्चवर्षीयः क्व चैतद् दारुणं तपः
निवर्त्यतां मनः कष्टान् निर्बन्धात् फलवर्जितात् ॥

1.12.18

कालः क्रीडनकानां ते तदन्ते ऽध्ययनस्य च
ततः समस्तभोगानां तदन्ते चेष्यते तपः ॥

1.12.19

कालः क्रीडनकानां यस् तव बालस्य पुत्रक
तस्मिंस् त्वम् इत्थं तपसि किं नाशायात्मनो रतः ॥

1.12.20

मत्प्रीतिः परमो धर्मो वयोवस्थाक्रियाक्रमम्
अनुवर्तस्व मा मोहं निवर्तास्माद् अधर्मतः ॥

1.12.21

परित्यजति वत्साद्य यद्य् एतन् न भवांस् तपः
त्यक्ष्याम्य् अहम् अपि प्राणांस् ततो वै पश्यतस् तव ॥

1.12.22

स तां विलपतीम् एवं बाष्पव्याकुललोचनाम्
समाहितमना विष्णौ पश्यन्न् अपि न दृष्टवान् ॥

1.12.23

वत्स वत्स सुघोराणि रक्षांस्य् एतानि भीषणे
वने ऽभ्युद्यतशस्त्राणि समायान्त्य् अपगम्यताम् ॥

1.12.24

इत्य् उक्त्वा प्रययौ साथ रक्षांस्य् आविर्बभुस् ततः
अभ्युद्यतोग्रशस्त्राणि ज्वालामालाकुलैर् मुखैः ॥

1.12.25

ततो नादान् अतीवोग्रान् राजपुत्रस्य ते पुरः
मुमुचुर् दीप्तशस्त्राणि भ्रामयन्तो निशाचराः ॥

1.12.26

शिवाश् च शतशो नेदुः सज्वालकवलैर् मुखैः
त्रासाय तस्य बालस्य योगयुक्तस्य सर्वतः ॥

1.12.27

हन्यतां हन्यताम् एष छिद्यतां छिद्यताम् अयम्
भक्ष्यतां भक्ष्यतां चायम् इत्य् ऊचुस् ते निशाचराः ॥

1.12.28

ततो नानाविधान् नादान् सिंहोष्ट्रमकराननाः
त्रासाय राजपुत्रस्य नेदुस् ते रजनीचराः ॥

1.12.29

रक्षांसि तानि ते नादाः शिवास् तान्य् आयुधानि च
गोविन्दासक्तचित्तस्य ययुर् नेन्द्रियगोचरम् ॥

1.12.30

एकाग्रचेताः सततं विष्णुम् एवात्मसंश्रयम्
दृष्टवान् पृथिवीनाथ पुत्रो नान्यत् कथंचन ॥

1.12.31

ततः सर्वासु मायासु विलीनासु पुनः सुराः
संक्षोभं परमं जग्मुस् तत्पराभवशङ्किताः ॥

1.12.32

ते समेत्य जगद्योनिम् अनादिनिधनं हरिम्
शरण्यं शरणं यातास् तपसा तस्य तापिताः ॥

1.12.33

देवदेव जगन्नाथ परेश पुरुषोत्तम
ध्रुवस्य तपसा तप्तास् त्वां वयं शरणं गताः ॥

1.12.34

दिने दिने कलाशेषैः शशाङ्कः पूर्यते यथा
तथायं तपसा देव प्रयात्य् ऋद्धिम् अहर्निशम् ॥

1.12.35

औत्तानपादितपसा वयम् इत्थं जनार्दन
भीतास् त्वां शरणं यातास् तपसस् तं निवर्तय ॥

1.12.36

न विद्मः किं स शक्रत्वं किं सूर्यत्वम् अभीप्सति
वित्तपाम्बुपसोमानां साभिलाषः पदेषु किम् ॥

1.12.37

तद् अस्माकं प्रसीदेश हृदयाच् छल्यम् उद्धर
उत्तानपादतनयं तपसः संनिवर्तय ॥

1.12.38

नेन्द्रत्वं न च सूर्यत्वं नैवाम्बुपधनेशताम्
प्रार्थयत्य् एष यं कामं तं करोम्य् अखिलं सुराः ॥

1.12.39

यात देवा यथाकामं स्वस्थानं विगतज्वराः
निवर्तयाम्य् अहं बालं तपस्य् आसक्तमानसम् ॥

1.12.40

इत्य् उक्ता देवदेवेन प्रणम्य त्रिदशास् ततः
प्रययुः स्वानि धिष्ण्यानि शतक्रतुपुरोगमाः ॥

1.12.41

भगवान् अपि सर्वात्मा तन्मयत्वेन तोषितः
गत्वा ध्रुवम् उवाचेदं चतुर्भुजवपुर् हरिः ॥

1.12.42

औत्तानपादे भद्रं ते तपसा परितोषितः
वरदो ऽहम् अनुप्राप्तो वरं वरय सुव्रत ॥

1.12.43

बाह्यार्थनिरपेक्षं ते मयि चित्तं यद् आहितम्
तुष्टो ऽहं भवतस् तेन तद् वृणीष्व वरं परम् ॥

1.12.44

श्रुत्वेत्थं गदितं तस्य देवदेवस्य बालकः
उन्मीलिताक्षो ददृशे ध्यानदृष्टं हरिं पुरः ॥

1.12.45

शङ्खचक्रगदाशार्ङ्ग वरासिधरम् अच्युतम्
किरीटिनं समालोक्य जगाम शिरसा महीम् ॥

1.12.46

रोमाञ्चिताङ्गः सहसा साध्वसं परमं गतः
स्तवाय देवदेवस्य स चक्रे मानसं ध्रुवः ॥

1.12.47

किं वदामि स्तुताव् अस्य केनोक्तेनास्य संस्तुतिः
इत्य् आकुलमतिर् देवं तम् एव शरणं ययौ ॥

1.12.48

भगवन् यदि मे तोषं तपसा परमं गतः
स्तोतुं तद् अहम् इच्छामि वरम् एनं प्रयच्छ मे ॥

1.12.49

ब्रह्माद्यैर् वेदवेदज्ञैर् ज्ञायते यस्य नो गतिः
तं त्वां कथम् अहं देव स्तोतुं शक्ष्यामि बालकः ॥

1.12.50

त्वद्भक्तिप्रवणं ह्य् एतत् परमेश्वर मे मनः
स्तोतुं प्रवृत्तं त्वत्पादौ तत्र प्रज्ञां प्रयच्छ मे ॥

1.12.51

शङ्खप्रान्तेन गोविन्दस् तं पस्पर्श कृताञ्जलिम्
उत्तानपादतनयं द्विजवर्य जगत्पतिः ॥

1.12.52

अथ प्रसन्नवदनः तत्क्षणान् नृपनन्दनः
तुष्टाव प्रणतो भूत्वा भूतधातारम् अच्युतम् ॥

1.12.53

भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च
भूतादिर् आदिप्रकृतिर् यस्य रूपं नतो ऽस्मि तम् ॥

1.12.54

शुद्धः सूक्ष्मो ऽखिलव्यापी प्रधानात् परतः पुमान्
यस्य रूपं नमस् तस्मै पुरुषाय गुणात्मने ॥

1.12.55

भूरादीनां समस्तानां गन्धादीनां च शाश्वतः
बुद्ध्यादीनां प्रधानस्य पुरुषस्य च यः परः ॥

1.12.56

तं ब्रह्मभूतम् आत्मानम् अशेषजगतः पतिम्
प्रपद्ये शरणं शुद्धं त्वद्रूपं परमेश्वर ॥

1.12.57

बृहत्त्वाद् बृंहणत्वाच् च यद् रूपं ब्रह्मसंज्ञितम्
तस्मै नमस् ते सर्वात्मन् योगिचिन्त्याविकारवत् ॥

1.12.58

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
सर्वव्यापी भुवः स्पर्शाद् अत्यतिष्ठद् दशाङ्गुलम् ॥

1.12.59

यद् भूतं यच् च वै भव्यं पुरुषोत्तम तद् भवान्
त्वत्तो विराट् स्वराट् सम्राट् त्वत्तश् चाप्य् अधिपूरुषः ॥

1.12.60

अत्यरिच्यत सो ऽधश् च तिर्यग् ऊर्ध्वं च वै भुवः
त्वत्तो विश्वम् इदं जातं त्वत्तो भूतभविष्यती ॥

1.12.61

त्वद्रूपधारिणश् चान्तः सर्वभूतम् इदं जगत्
त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर् द्विधा ॥

1.12.62

त्वत्त ऋचो ऽथ सामानि त्वत्तश् छन्दांसि जज्ञिरे
त्वत्तो यजूंष्य् अजायन्त त्वत्तो ऽश्वाश् चैकतोदतः ॥

1.12.63

गावस् त्वत्तः समुद्भूतास् त्वत्तो ऽजा अवयो मृगाः
त्वन्मुखाद् ब्राह्मणा बाह्वोस् त्वत्तः क्षत्रम् अजायत ॥

1.12.64

वैश्यास् तवोरुजाः शूद्रास् तव पद्भ्यां समुद्गताः
अक्ष्णोः सूर्यो ऽनिलः प्राणाच् चन्द्रमा मनसस् तव ॥

1.12.65

प्राणो ऽन्तःसुषिराज् जातो मुखाद् अग्निर् अजायत
नाभितो गगनं द्यौश् च शिरसः समवर्तत
दिशः श्रोत्रात् क्षितिः पद्भ्यां त्वत्तः सर्वम् अभूद् इदम् ॥

1.12.66

न्यग्रोधः सुमहान् अल्पे यथा बीजे व्यवस्थितः
संयमे विश्वम् अखिलं बीजभूते तथा त्वयि ॥

1.12.67

बीजाद् अङ्कुरसंभूतो न्यग्रोधः स समुच्छ्रितः
विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत् ॥

1.12.68

यथा हि कदली नान्या त्वक्पत्रान् नाथ दृश्यते
एवं विश्वस्य नान्यस् त्वं त्वत्स्थायीश्वर दृश्यते ॥

1.12.69

ह्लादिनी संधिनी संवित् त्वय्य् एका सर्वसंस्थितौ
ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥

1.12.70

पृथग्भूतैकभूताय भूतभूताय ते नमः
प्रभूतभूतभूताय तुभ्यं भूतात्मने नमः ॥

1.12.71

व्यक्तप्रधानपुरुष विराट् संराट् स्वराट् तथा
विभाव्यते ऽन्तःकरणे पुरुषेष्व् अक्षयो भवान् ॥

1.12.72

सर्वस्मिन् सर्वभूतस् त्वं सर्वः सर्वस्वरूपधृक्
सर्वं त्वत्तस् ततश् च त्वं नमः सर्वात्मने ऽस्तु ते ॥

1.12.73

सर्वात्मको ऽसि सर्वेश सर्वभूतस्थितो यतः
कथयामि ततः किं ते सर्वं वेत्सि हृदि स्थितम् ॥

1.12.74

सर्वात्मन् सर्वभूतेश सर्वसत्त्वसमुद्भव
सर्वभूतो भवान् वेत्ति सर्वसत्त्वमनोरथम् ॥

1.12.75

यो मे मनोरथो नाथ सफलः स त्वया कृतः
तपश् च तप्तं सफलं यद् दृष्टो ऽसि जगत्पते ॥

1.12.76

तपसस् तत् फलं प्राप्तं यद् दृष्टो ऽहं त्वया ध्रुव
मद्दर्शनं हि विफलं राजपुत्र न जायते ॥

1.12.77

वरं वरय तस्मात् त्वं यथाभिमतम् आत्मनः
सर्वं संपद्यते पुंसां मयि दृष्टिपथं गते ॥

1.12.78

भगवन् सर्वभूतेश सर्वस्यास्ते भवान् हृदि
किम् अज्ञातं तव स्वामिन् मनसा यन् मयेप्सितम् ॥

1.12.79

तथापि तुभ्यं देवेश कथयिष्यामि यन् मया
प्रार्थ्यते दुर्विनीतेन हृदयेनातिदुर्लभम् ॥

1.12.80

किं वा सर्वजगत्स्रष्टः प्रसन्ने त्वयि दुर्लभम्
त्वत्प्रसादफलं भुङ्क्ते त्रैलोक्यं मघवान् अपि ॥

1.12.81

नैतद् राजासनं योग्यम् अजातस्य ममोदरात्
इति गर्वाद् अवोचन् मां सपत्नी मातुर् उच्चकैः ॥

1.12.82

आधारभूतं जगतः सर्वेषाम् उत्तमोत्तमम्
प्रार्थयामि प्रभो स्थानं त्वत्प्रसादाद् अतो ऽव्ययम् ॥

1.12.83

यत् त्वया प्रार्थितं स्थानम् एतत् प्राप्स्यति वै भवान्
त्वयाहं तोषितः पूर्वम् अन्यजन्मनि बालक ॥

1.12.84

त्वम् आसीर् ब्राह्मणः पूर्वं मय्य् एकाग्रमतिः सदा
मातापित्रोश् च शुश्रूषुर् निजधर्मानुपालकः ॥

1.12.85

कालेन गच्छता मित्रं राजपुत्रस् तवाभवत्
यौवने ऽखिलभोगाढ्यो दर्शनीयोज्ज्वलाकृतिः ॥

1.12.86

तत्सङ्गात् तस्य ताम् ऋद्धिम् अवलोक्यातिदुर्लभाम्
भवेयं राजपुत्रो ऽहम् इति वाञ्छा त्वया कृता ॥

1.12.87

ततो यथाभिलषिता प्राप्ता ते राजपुत्रता
उत्तानपादस्य गृहे जातो ऽसि ध्रुव दुर्लभे ॥

1.12.88

अन्येषां तद् वरं स्थानं कुले स्वायम्भुवस्य यत् ॥

1.12.89

तस्यैतद् अपरं बाल येनाहं परितोषितः
माम् आराध्य नरो मुक्तिम् अवाप्नोत्य् अविलम्बितम् ॥

1.12.90

मय्य् अर्पितमना बाल किम् उ स्वर्गादिकं पदम्
त्रैलोक्याद् अधिके स्थाने सर्वताराग्रहाश्रयः
भविष्यति न संदेहो मत्प्रसादाद् भवान् ध्रुव ॥

1.12.91

सूर्यात् सोमात् तथा भौमात् सोमपुत्राद् बृहस्पतेः
सितार्कतनयादीनां सर्वर्क्षाणां तथा ध्रुव ॥

1.12.92

सप्तर्षीणाम् अशेषाणां ये च वैमानिकाः सुराः
सर्वेषाम् उपरि स्थानं तव दत्तं मया ध्रुव ॥

1.12.93

केचिच् चतुर्युगं यावत् केचिन् मन्वन्तरं सुराः
तिष्ठन्ति भवतो दत्ता मया वै कल्पसंस्थितिः ॥

1.12.94

सुनीतिर् अपि ते माता त्वदासन्नातिनिर्मला
विमाने तारका भूत्वा तावत्कालं निवत्स्यति ॥

1.12.95

ये च त्वां मानवाः प्रातः सायं च सुसमाहिताः
कीर्तयिष्यन्ति तेषां च महत् पुण्यं भविष्यति ॥

1.12.95*33:1

.... .... ...तर्दधे हरिः ॥

1.12.95*33:2

ध्रुवो ऽपि तं नमस्कृत्य जगाम स्वपितुर् गृहम् ॥

1.12.95*33:3

आकर्ण्यात्मजम् आयान्तं संपरेतं यथागतम् ॥

1.12.95*33:4

राजानं श्रद्दधे चन्द्र स चन्द्रस्य सुतो मम ॥

1.12.95*33:5

सत्यं देवर्षिणा उक्तम् आकर्ण्य मुदितो भवत् ॥

1.12.95*33:6

वार्ता हर्तुर् अपि प्रीत्यां हीनप्राद्रान् महाधनम् ॥

1.12.95*33:7

शङ्खतूर्यनिनादेन ब्रह्मघोषेण भूयसा ॥

1.12.95*33:8

निश्चक्राम पुरा तूर्णं सदश्वरथम् आस्थितः ॥

1.12.95*33:9

तं दृष्ट्वा पवनाभ्यासे आयान्तं तरसा रथात् ॥

1.12.95*33:10

अवरुह्य नृपxx दोर्भ्यां x परिरेभिरे ॥

1.12.95*33:11

अथाभिनन्दितः सर्वैर् बन्धुवर्गैर् द्विजोत्तम ॥

1.12.95*33:12

तेनाभिवादिताः सर्वे प्रविवेशुः सहर्चिx ॥

1.12.95*34

इत्य् उक्त्वा भगवान् ईशः तत्रैवान्तरधीयत ॥

1.12.96

एवं पूर्वं जगन्नाथाद् देवदेवाज् जनार्दनात्
वरं प्राप्य ध्रुवं स्थानम् अध्यास्ते स महामतिः ॥

1.12.96*35:1

स्वयं शुश्रूषणाद् धर्म्यान् मातापित्रोश् च वै तथा ॥

1.12.96*35:2

द्वादशाक्षरमाहात्म्यात् तपसश् च प्रभावतः ॥

1.12.97

तस्याभिमानम् ऋद्धिं च महिमानं निरीक्ष्य च
देवासुराणाम् आचार्यः श्लोकम् अत्रोशना जगौ ॥

1.12.98

अहो ऽस्य तपसो वीर्यम् अहो ऽस्य तपसः फलम्
यद् एनं पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥

1.12.99

ध्रुवस्य जननी चेयं सुनीतिर् नाम सूनृता
अस्याश् च महिमानं कः शक्तो वर्णयितुं भुवि ॥

1.12.100

त्रैलोक्याश्रयतां प्राप्तं परं स्थानं स्थिरायति
स्थानं प्राप्ता परं कृत्वा या कुक्षिविवरे ध्रुवम् ॥

1.12.101

यश् चैतत् कीर्तयेन् नित्यं ध्रुवस्यारोहणं दिवि
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥

1.12.102

स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि
सर्वकल्याणसंयुक्तो दीर्घकालं च जीवति ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc