विष्णुपुराण (समीक्षित संस्करण) · अध्याय 1.11
प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवस्य तु
द्वौ पुत्रौ सुमहावीर्यौ धर्मज्ञौ कथितौ तव ॥
तयोर् उत्तानपादस्य सुरुच्याम् उत्तमः सुतः
अभीष्टायाम् अभूद् ब्रह्मन् पितुर् अत्यन्तवल्लभः ॥
सुनीतिर् नाम या राज्ञस् तस्याभून् महिषी द्विज
स नातिप्रीतिमांस् तस्यां तस्याश् चाभूद् ध्रुवः सुतः ॥
राजासनस्थितस्याङ्कं पितुर् भ्रातरम् आश्रितम्
दृष्ट्वोत्तमं ध्रुवश् चक्रे तम् आरोढुं मनोरथम् ॥
प्रत्यक्षं भूपतिस् तस्याः सुरुच्या नाभ्यनन्दत
प्रणयेनागतं पुत्रम् उत्सङ्गारोहणोत्सुकम् ॥
सपत्नी तनयं दृष्ट्वा तम् अङ्कारोहणोत्सुकम्
स्वपुत्रं च तथारूढं सुरुचिर् वाक्यम् अब्रवीत् ॥
क्रियते किं वृथा वत्स महान् एष मनोरथः
अन्यस्त्रीगर्भजातेन असंभूय ममोदरे
उत्तमोत्तमम् अप्राप्यम् अविवेको ऽभिवाञ्छसि ॥
सत्यं सुतस् त्वम् अप्य् अस्य किन्तु न त्वं मया धृतः ॥
एतद् राजासनं सर्व भूभृत्संश्रयकेतनम्
योग्यं ममैव पुत्रस्य किम् आत्मा क्लिश्यते त्वया ॥
उच्चैर् मनोरथस् ते ऽयं मत्पुत्रस्येव किं वृथा
सुनीत्याम् आत्मनो जन्म किं त्वया नावगम्यते ॥
उत्सृज्य पितरं बालस् तच् छ्रुत्वा मातृभाषितम्
जगाम कुपितो मातुर् निजाया द्विज मन्दिरम् ॥
तं दृष्ट्वा कुपितं पुत्रम् ईषत्प्रस्फुरिताधरम्
सुनीतिर् अङ्कम् आरोप्य मैत्रेयैतद् अभाषत ॥
वत्स कः कोपहेतुस् ते कश् च त्वां नाभिनन्दति
को ऽवजानाति पितरं तव यस् ते ऽपराध्यति ॥
इत्य् उक्तः सकलं मात्रे कथयाम् आस तद् यथा
सुरुचिः प्राह भूपाल प्रत्यक्षम् अतिगर्विता ॥
निःश्वस्य सेति कथिते तस्मिन् पुत्रेण दुर्मनाः
श्वासक्षामेक्षणा दीना सुनीतिर् वाक्यम् अब्रवीत् ॥
सुरुचिः सत्यम् आहेदं स्वल्पभाग्यो ऽसि पुत्रक
न हि पुण्यवतां वत्स सपत्नैर् एवम् उच्यते ॥
नोद्वेगस् तात कर्तव्यः कृतं यद् भवता पुरा
तत् को ऽपहर्तुं शक्नोति दातुं कश् चाकृतं त्वया ॥
तत् त्वया नात्र कर्तव्यं दुःखं तद्वाक्यसंभवम् ॥
राजासनं तथा छत्रं वराश्वा वरवारणाः
यस्य पुण्यानि तस्यैव मत्वैतच् छाम्य पुत्रक ॥
अन्यजन्मकृतैः पुण्यैः सुरुच्यां सुरुचिर् नृपः
भार्येति प्रोच्यते चान्या मद्विधा पुण्यवर्जिता ॥
पुण्योपचयसंपन्नस् तस्याः पुत्रस् तथोत्तमः
मम पुत्रस् तथा जातः स्वल्पपुण्यो ध्रुवो भवान् ॥
तथापि दुःखं न भवान् कर्तुम् अर्हति पुत्रक
यस्य यावत् स तेनैव स्वेन तुष्यति बुद्धिमान् ॥
यदि चेद् दुःखम् अत्यर्थं सुरुच्या वचनात् तव
तत् पुण्योपचये यत्नं कुरु सर्वफलप्रदे ॥
सुशीलो भव धर्मात्मा मैत्रः प्राणिहिते रतः
निम्नं यथापः प्रवणाः पात्रम् आयान्ति संपदः ॥
अम्ब यत् त्वम् इदं प्राह प्रशमाय वचो मम
नैतद् दुर्वचसा भिन्ने हृदये मम तिष्ठति ॥
सो ऽहं तथा यतिष्यामि यथा सर्वोत्तमोत्तमम्
स्थानं प्राप्स्याम्य् अशेषाणां जगताम् अभिपूजितम् ॥
सुरुचिर् दयिता राज्ञस् तस्या जातो ऽस्मि नोदरात्
प्रभावं पश्य मे ऽम्ब त्वं धृतस्यापि तवोदरे ॥
उत्तमः स मम भ्राता यो गर्भेण धृतस् तया
स राजासनम् आप्नोतु पित्रा दत्तं तथास्तु तत् ॥
नान्यदत्तम् अभीप्स्यामि स्थानम् अम्ब स्वकर्मणा
इच्छामि तद् अहं स्थानं यन् न प्राप पिता मम ॥
निर्जगाम गृहान् मातुर् इत्य् उक्त्वा मातरं ध्रुवः
पुराच् च निर्गम्य ततस् तद्बाह्योपवनं ययौ ॥
स ददर्श मुनींस् तत्र सप्त पूर्वागतान् ध्रुवः
कृष्णाजिनोत्तरीयेषु विष्टरेषु समास्थितान् ॥
स राजपुत्रस् तान् सर्वान् प्रणिपत्याभ्यभाषत
प्रश्रयावनतः सम्यग् अभिवादनपूर्वकम् ॥
उत्तानपादतनयं मां निबोधत सत्तमाः
जातं सुनीत्यां निर्वेदाद् युष्माकं प्राप्तम् अन्तिकम् ॥
चतुःपञ्चाब्दसंभूतो बालस् त्वं नृपनन्दन
निर्वेदकारणं किंचित् तव नाद्यापि विद्यते ॥
न चिन्त्यं भवतः किंचिद् ध्रियते भूपतिः पिता
न चैवेष्टवियोगादि तव पश्याम बालक ॥
शरीरे न च ते व्याधिर् अस्माभिर् उपलक्ष्यते
निर्वेदः किंनिमित्तस् ते कथ्यतां यदि विद्यते ॥
ततः स कथयाम् आस सुरुच्या यद् उदाहृतम्
तन् निशम्य ततः प्रोचुर् मुनयस् ते परस्परम् ॥
अहो क्षात्रं परं तेजो बालस्यापि यद् अक्षमा
सपत्न्या मातुर् उक्तस्य हृदयान् नापसर्पति ॥
भो भोः क्षत्रियदायाद निर्वेदाद् यत् त्वयाधुना
कर्तुं व्यवसितं तन् नः कथ्यतां यदि रोचते ॥
यच् च कार्यं तवास्माभिः साहाय्यम् अमितद्युते
तद् उच्यतां विवक्षुस् त्वम् अस्माभिर् उपलक्ष्यसे ॥
नाहम् अर्थम् अभीप्सामि न राज्यं द्विजसत्तमाः
तत् स्थानम् एकम् इच्छामि भुक्तं नान्येन यत् पुरा ॥
एतन् मे क्रियतां सम्यक् कथ्यतां प्राप्यते यथा
स्थानम् अग्र्यं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः ॥
अनाराधितगोविन्दैर् नरैः स्थानं नृपात्मज
न हि संप्राप्यते श्रेष्ठं तस्माद् आराधयाच्युतम् ॥
परः पराणां पुरुषो यस्य तुष्टो जनार्दनः
स प्राप्नोत्य् अक्षयं स्थानम् एतत् सत्यं मयोदितम् ॥
यस्यान्तः सर्वम् एवेदम् अच्युतस्याव्ययात्मनः
तम् आराधय गोविन्दं स्थानम् अग्र्यं यदीच्छसि ॥
परं ब्रह्म परं धाम यो ऽसौ ब्रह्म तथा परम्
तम् आराध्य हरिं याति मुक्तिम् अप्य् अतिदुर्लभाम् ॥
यो यज्ञपुरुषो यज्ञे योगे यः परमः पुमान्
तस्मिंस् तुष्टे यद् अप्राप्यं किं तद् अस्ति जनार्दने ॥
ऐन्द्रम् इन्द्रः परं स्थानं यम् आराध्य जगत्पतिम्
प्राप यज्ञपतिं विष्णुं तम् आराधय सुव्रत ॥
प्राप्नोष्य् आराधिते विष्णौ मनसा यद् यद् इच्छसि
त्रैलोक्यान्तर्गतं स्थानं किम् उ वत्सोत्तमोत्तमम् ॥
कृष्णाराधनम् एवैकं पुंसः सर्वफलप्रदम् ॥
सर्वैर् अप्य् एवम् एवोक्तं तद् उपायम् अबृहत् सते ॥
आराध्यः कथितो देवो भवद्भिः प्रणतस्य मे
मया तत्परितोषाय यज् जप्तव्यं तद् उच्यताम् ॥
यथा चाराधनं तस्य मया कार्यं महात्मनः
प्रसादसुमुखास् तन् मे कथयन्तु महर्षयः ॥
राजपुत्र यथा विष्णोर् आराधनपरैर् नरैः
कार्यम् आराधनं तन् नो यथावच् छ्रोतुम् अर्हसि ॥
बाह्यार्थाद् अखिलाच् चित्तं त्याजयेत् प्रथमं नरः
तस्मिन्न् एव जगद्धाम्नि ततः कुर्वीत निश्चलम् ॥
एवम् एकाग्रचित्तेन तन्मयेन धृतात्मना
जप्तव्यं यन् निबोधैतत् तन् नः पार्थिवनन्दन ॥
हिरण्यगर्भपुरुष प्रधानव्यक्तरूपिणे
ओं नमो वासुदेवाय शुद्धज्ञानस्वभाविने ॥
एतज् जजाप भगवान् जप्यं स्वायम्भुवो मनुः
पितामहस् तव पुरा तस्य तुष्टो जनार्दनः ॥
ददौ यथाभिलषिताम् ऋद्धिं त्रैलोक्यदुर्लभाम्
तथा त्वम् अपि गोविन्दं तोषयैतत् सदा जपन् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0