भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.76.80

3.76.80.1

3.76
वज्र उवाच॥
नरनारायणौ कार्यौ केन रूपेण संयुतौ॥
हरिः कृष्णश्च कर्तव्यः कथं वा भृगुनन्दन

3.76.80.2

मार्कण्डेय उवाच ॥
दूर्वाश्यामो नरः कार्यो द्विभुजश्च महाभुज ॥
नारायणश्चतुर्बाहुर्नीलोत्पलदलच्छविः

3.76.80.3

तयोर्मध्ये च बदरी कार्या फलविभूषणा ॥।
बदर्यामनु तौ कार्यावक्षमालाधरावुभौ

3.76.80.4

अष्टचक्रे स्थितौ याने भूतियुक्ते मनोहरे ॥
कृष्णाजिनधरौ दान्तौ जटामण्डलधारिणौ

3.76.80.5

पादेन चैकेन रथस्थितेन पादेन चैकेन च जानुगेन ॥
कार्यो हरिश्चात्र नरेण तुल्यः कृष्णोऽपि नारायणतुल्यमूर्तिः

3.76.80.76

इति श्रीविप्णुध०तृ०ख०मा० सं० नरनारायणरूपनिर्माणो नाम षट्सप्ततितमोऽध्यायः

3.76.80.1

3.77
वज्र उवाच ॥
धर्मस्य रूपनिर्माणं जानस्य च परन्तप ॥
वैराग्यस्य व धर्मज्ञ तथैश्वर्यस्य मे वद

3.76.80.2

मार्कंडेय उवाच ॥
चतुर्वक्त्रश्चतुष्पादश्चतुर्बाहुस्सिताम्बरः ॥
सर्वाभरणवाञ्छ्वेतो धर्मः कार्यो विजानता

3.76.80.3

दक्षिणे चाक्षमालां च तस्य वामे तु पुस्तकम् ॥
मूर्तिमान्व्यवसायस्तु कार्यो दक्षिणभागगः

3.76.80.4

वामभागगतः कार्यः सुखः परम रूपवान् ॥
कार्यौ धर्मकरौ मूर्ध्नि विन्यस्तौ च तथा तयोः

3.76.80.5

अक्षमाला स्मृतः कालः पुस्तकं चागमं स्मृतम् ॥
यज्ञः सत्यं तपो दानं तस्य वक्त्रचतुष्टयम्

3.76.80.6

देशकालौ तथा शौचं शुद्धिश्चास्य भुजः स्मृतः ॥
श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः

3.76.80.7

तस्य देवस्य धर्मज्ञ ज्ञेयं पादचतुष्टयम् ॥
सत्त्वाधिक्त्वाच्छुक्लस्तु ज्ञानवासश्च कीर्त्यते

3.76.80.8

अथवा चास्य कर्तव्याः पत्न्यश्चैव चतुर्दश ॥
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः

3.76.80.9

बुद्धिर्लज्जा वपुः शान्तिः सिद्धिस्तुष्टिश्चतुर्दशी ॥
द्वाराण्येतानि धर्मस्य सर्वाणि कथितानि ते

3.76.80.3.77.10

कार्याः सरूपा द्विभुजाश्च सर्वास्तेजोन्वितास्ताश्च सुभूषणाश्च ॥
धर्मः स्थितः स्याद्यदि चैक एव भार्यान्वितश्चेदथ चोपदिष्टः

3.76.80.77

इति श्रीविष्णुध० तृ० ख० मा० सं० धर्मरूपनिर्माणो नाम सप्तसप्ततितमोऽध्यायः

3.76.80.1

3.78
मार्कण्डेय उवाच ॥
य एव भगवान्विष्णुर्नरसिंह वपुर्धरः ॥
ध्यानविद्भिः स एवोक्तो ज्ञानः पलवरार्दनः

3.76.80.3

पीनस्कन्दकटिग्रीवः कृशमध्यः कृशोदरः ॥
सिंहासने नृदेहस्तु नीलवासाः प्रभान्वितः ॥ ऐ ॥
आलीढस्थानसंस्थानः सर्वाभरणभूषितः ॥
ज्वालामालाकुलमुखो ज्वालाकेसरमण्डलः

3.76.80.4

हिरण्यकशिपोर्वक्षः पाटयन्नखरैः खरैः ॥
नीलोत्पलाभः कर्तव्यो देवजानुगतस्तथा

3.76.80.5

हिरण्यकशिपुर्दैत्यस्तमज्ञानं विदुर्बुधाः ॥
सङ्कर्षणात्मा भगवानज्ञानस्य विनाशनः

3.76.80.6

वाङ्मनःकायसम्भूतं त्रिविधं जगतां मलम् ॥
एतत्सङ्कर्षणो देवः सदा पाटयति द्विज

3.76.80.7

हरिः सङ्कर्षणांशेन नरसिंहवपुर्धरः ॥
तमसस्त्रिविधस्यापि नाशनो जगतां हरिः

3.76.80.8

हार्द्दमूर्तिनिभस्तस्य नान्यो जगति विद्यते ॥
नृसिंहमूर्तिर्देवस्य सर्वाज्ञानविनाशिनी

3.76.80.9

सिंहासने सुखासीनः कार्यो वा भगवान्हरिः ॥
गदामस्तकविन्यस्तकरद्वितयभूषणः

3.76.80.3.78.10

ज्वालामालाकुलवपुः शङ्खपद्मधरः प्रभुः ॥
मूर्तिमत्पृथिवीहस्तन्यस्तपादोऽथ वोत्थितः

3.76.80.11

शङ्खचक्रगदापद्मलाञ्छनैः शोभितः करैः ॥
अग्निज्वालाकुलावर्तविभूषिततनूरुहः

3.76.80.12

नरसिंहोऽथ वा कार्यः प्रभामण्डलदुर्दृशः ॥
सर्वाभरणसम्पन्नः कार्यो भूषणवर्जितः

3.76.80.78

ज्ञानं नृसिंहो जगतामधीशस्तेजोनिवासोम्बरसन्निकाशः ॥
रूपं मयैतत्त्रिविधं प्रदिष्टं तस्याप्रमेयस्य जनार्दनस्य १३ ॥
इति श्रीवि० ध० तृ० ख० मा० सं० नृसिंहरूपनिर्माणो नामाष्टसप्ततितमोऽध्यायः

3.76.80.1

3.79
॥ मार्कंडेय उवाच ॥
ऐश्वर्यमनिरुद्धस्तु वराहो भगवान्हरिः ॥
ऐश्वर्यशक्त्या दंष्ट्राग्रसमुद्धृतवसुन्धरः

3.76.80.2

नृवराहोऽथ वा कार्यः शेषोपरिगतः प्रभुः ॥
शेषश्चतुर्भुजः कार्यश्चारुरत्नफणान्वितः

3.76.80.3

आश्चर्योत्फुल्लनयनो देवीवीक्षणतत्परः ॥
कर्तव्यौ सीरमुसलौ करयोस्तस्य यादव

3.76.80.4

सर्पभूषश्च कर्तव्यस्तथैव रचिताञ्जलिः ॥
आलीढस्थानसंस्थानस्तत्पृष्ठे भगवान्भवेत्

3.76.80.5

सव्येऽरत्निगता तस्य योषिद्रूपा वसुन्धरा ॥
नमस्कारपरा तस्य कर्तव्या द्विभुजा शुभा

3.76.80.6

यस्मिन्भुजे धरा देवी तत्र शङ्खः करे भवेत ॥
अन्ये तस्य कराः कार्याः पद्मचक्रगदाधराः

3.76.80.7

हिरण्याक्षशिरच्छेदश्चक्रोद्यतकरोऽथ वा ॥
शूलोद्यतहिरण्याक्षसम्मुखो भगवान्भवेत्

3.76.80.8

मूर्तिमन्तमनैश्वर्यं हिरण्याक्षं विदुर्बुधाः ॥
ऐश्वर्येण वराहेण स निरस्तोऽरिमर्दनः

3.76.80.9

नृवराहोऽथ वा कार्यो ध्याने कपिलवत्स्थितः ॥
द्विभुजस्त्वथ वा कार्यः पिण्डनिर्वहणोद्यतः

3.76.80.3.79.10

समग्रक्रोडरूपो वा बहुदानवमध्यगः ॥
नृवराहो वराहो वा कर्तव्यः क्ष्माविधाणे

3.76.80.11

ऐश्वर्ययोगोद्धृतसर्वलोकः कार्योऽनिरुद्धो भगवान्वराहः ॥
रुद्धा न यस्य क्वचिदेव शक्तिः समस्तपापापहरस्य राजन्

3.76.80.79

इति श्रीवि० ध० तृ० ख० मा० व० सं० वराहरूपनिर्माणो नामैकोनाशीतितमोऽध्यायः

3.76.80.1

3.80
वज्र उवाच ॥
अथाश्वशिरसो रूपं विष्णोरमिततेजसः ॥
श्रोतुमिच्छाम्यनेनैव प्रसङ्गेन महाभुज

3.76.80.2

मार्कंडेय उवाच ॥
मूर्तिमत्पृथिवीपाल हस्तपादस्मितच्छविः ॥
नीलाम्बरधरः कार्यो देवो हयशिरोधरः

3.76.80.3

विद्धि संङ्कर्षणाङ्गं वै देवं हयशिरोधरम् ॥
कर्तव्योऽष्टभुजो देवस्तत्करेषु चतुर्ष्वथ

3.76.80.4

शङ्खचक्रगदापद्मान्साकारान्कारयेद्बुधः ॥
चत्वारश्च करा कार्या वेदानां देहधारिणाम्

3.76.80.5

देवेन मूर्ध्नि विन्यस्ता सर्वा भरणधारिणा ॥
अश्वग्रीवेन देवेन पुरा वेदाः समुद्धृताः

3.76.80.6

वेदा हृता दानवपुङ्गवाभ्यां रसातलाद्देव वरेण तेन॥
समुद्धृता यादववंशमुख्य तुरङ्गमूर्ध्ना पुरुषोत्तमेन

3.76.80.80

इति श्रीवि० ध० तृ० ख० मा० व० सं० हयग्रीवरूपनिर्माणो नामाशीतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc