भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.71.75

3.71.75.1

3.71
वज्र उवाच ॥
ग्रहाणां देवता प्रोक्ता यास्त्वया पूर्वमेव तु ॥
तासां स्वरूपनिर्माणं कथयस्वामितद्युते

3.71.75.2

मार्कण्डेय उवाच ॥
पूर्वमेव मया प्रोक्तं रूपं वह्न्यम्बुनाथयोः ॥
तथा च कथितं तुभ्यं विष्णुदेवेन्द्रयोः पुरा

3.71.75.3

चतुर्मूर्तेः कुमारस्य रूपं ते वच्मि यादव ॥
कुमारश्च तथा स्कन्दो विशाखश्च गुरुस्तथा

3.71.75.4

कुमारः षण्मुखः कार्यः शिखण्डकविभूषणः ॥
रक्ताम्बरधरः कार्यो मयूरवरवाहनः

3.71.75.5

कुक्कुटश्च तथा घण्टा तस्य दक्षिणहस्तयोः ॥
पताकावैजयन्ती च शक्तिः कार्या च वामयोः

3.71.75.6

स्कन्दो विशाखश्च गुहः कर्तव्यश्च कुमारवत् ॥
षण्मुखास्ते न कर्तव्या न मयूरगतास्तथा

3.71.75.7

चतुरात्मा हि भगवान्वासुदेवः सनातनः ॥
प्रादुर्भूतः कुमारस्तु देवसेनानिनीषया

3.71.75.8

अष्टादशभुजा कार्या भद्रकाली मनोहरा ॥
आलीढस्थानसंस्थाना चतुःसिंहे रथे स्थिता

3.71.75.9

अक्षमाला त्रिशूलं च खङ्गं चर्म च यादव ॥
बाणचापे च कर्तव्ये शङ्खपद्मौ तथैव च

3.71.75.3.71.10

सुक्स्रुचौ च तथा कार्यौ तथा वेदीकमण्डलू ॥
दण्डशक्ती च कर्तव्ये कृष्णाजिनहुताशनौ

3.71.75.11

हस्तानां भद्रकाल्यास्तु भवेच्छान्तिकरः करः ॥
एकश्चैव महाभाग रत्नपात्रधरो भवेत्

3.71.75.12

हंसयानेन कर्तव्यो न च कार्यश्चतुर्मुखः ॥
ब्रह्मोक्तमपरं रूपं सर्वं कार्यं प्रजापतेः

3.71.75.13

विनायकस्तु कर्तव्यो गजवक्त्रश्चतुर्भुजः ॥
शूलकं चाक्षमालां च तस्य दक्षिणहस्तयोः

3.71.75.14

पात्रं मोदकपूर्णं तु परशुश्चैव वामतः ॥
दन्तश्चास्य न कर्तव्यो वामो रिपुनिषूदन

3.71.75.15

पादपीठकृतः पाद एक आसनगो भवेत् ॥
पूर्णमोदकपात्रं तु कराग्रे तस्य कारयेत

3.71.75.16

लम्बोदरस्तथा कार्यः स्तब्धकर्णश्च यादव ॥
व्याघ्रचर्माम्बरधरः सर्पयज्ञोपवीतिवान्

3.71.75.17

विश्वकर्मा नु कर्तव्यः सूर्यरूपधरः प्रभुः ॥
स दशपाणिर्द्विभुजस्तेजोमूर्तिधरो भवेत्

3.71.75.18

विश्वं करोति वै यस्माद्विश्वकर्मा ततः स्मृतः ॥
विश्वकृद्भगवान्विष्णुर्विश्वकर्मा स उच्यते

3.71.75.71

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कुमारभद्रकालीचतुर्वक्त्रगजवक्त्रविश्वकर्मरूपनिरूपणो नामैकसप्ततितमोऽध्यायः

3.71.75.1

3.72
॥ वज्र उवाच ॥ ॥
वसूनां देव मे रूपं तथैवाङ्गिरसं शुभम् ॥
विश्वेषां चैव देवानां रुद्राणामपि देवताः

3.71.75.2

भृगूणामथ साध्यानां चादित्यानां तथैव च ॥
मरुतां च तथा रूपमाचक्ष्व सुरपूजित

3.71.75.3

मार्कडेय उवाच ॥
प्राजापत्येन रूपेण धरो नाम वसुर्भवेत् ॥
वैष्णवेन च रूपेण ध्रुवो नाम प्रकीर्तितः

3.71.75.4

सोमश्चान्द्रेण रूपेण वायव्येन तथाऽनिलः ॥
आग्नेयेनानलः कार्यः प्रभासो वारुणेन च

3.71.75.5

विश्वेदेवास्तथा कार्याः शक्ररूपधराः सुराः॥
तिर्यग्ललाटेनाक्ष्णा च नागराजो विवर्जितः

3.71.75.6

जीवरूपेण कर्तव्या देवाश्चाङ्गिरसस्तथा ॥
माहेश्वरेण रुद्राश्च साध्याक्षा वैष्णवेन तु

3.71.75.7

आदित्याः सूर्यरूपेण चेति द्वादश यादव ॥
पृथक्क्रियायां तेषां तु नवार्कसदृशाः स्मृताः

3.71.75.8

विण्विन्द्रवरुणाः कार्याः यथा पूर्वं मयेरिताः ॥
कर्तव्याः शुक्ररूपेण मरुतो नाम देवताः

3.71.75.72

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वसुरूपनिर्माणो नाम द्विसप्ततितमो ऽध्यायः

3.71.75.1

3.73
॥ वज्र उवाच ॥
अन्येषामपि देवानां रूपनिर्मोणमेव च ॥
कथयस्व महाभाग त्वं हि सर्वविदुच्यसे

3.71.75.2

मार्कण्डेय उवाच ॥
प्राजापत्येन रूपेण कर्तव्यः कश्यपः प्रभुः ॥
अदितिर्दितिर्दनुः काष्ठा दनायुः सिंहिका मुनिः

3.71.75.3

कद्रूः क्रोधा दरा प्राधा विनता सुरभिः खशा ॥
सर्वाः सुरूपाः कर्तव्या द्विभुजाः पूर्वमातरः

3.71.75.4

अदितिश्च दितिश्चैव विनता सुरभिस्तथा ॥
दृष्टिरासां तु कर्तव्या सौम्या यादवनन्दन

3.71.75.5

अनेनैव तु रूपेण सर्वा वै देवमातरः ॥
कर्तव्या यादवश्रेष्ठ रूपनिर्माणकर्मणा

3.71.75.6

कश्यपस्यापराः पत्न्यः कार्या व्याकुललोचनाः ॥
विष्णुरूपधरः कार्यो ध्रुवो ग्रहगणेश्वरः

3.71.75.7

चक्ररश्मिकरः श्रीमान्द्विभुजः सौम्यदर्शनः ॥
भविष्यमनुरूपेण कार्योऽगस्त्यो महामुनिः

3.71.75.8

रूपं तदेवं कथितं भृग्वादीनां महात्मनाम् ॥
शुक्रपुत्रौ जयन्तश्च कर्तव्यो रूपसंयुतः

3.71.75.9

चापबाणकरः श्रीमान्द्विभुजः सौम्यदर्शनः ॥
बलो यमसुतः कार्यश्चर्मशूलधरः प्रभुः

3.71.75.3.73.10

पुष्करश्च तथा कार्यः पद्मपत्रसमप्रभः ॥
खड्गं च पुस्तकं चोभौ करयोस्तस्य कारयेत

3.71.75.11

चन्द्रपुत्री तथा ज्योत्स्ना रूपेणाप्रतिमा भुवि ॥
वामपार्श्वे तु कर्तव्या सर्वाभरणभूषणा

3.71.75.12

सुरूपरूपः कर्तव्यो रत्नपात्रकरो विभुः ॥
द्विदंष्ट्रायुक्तवदनो धनादिर्नलकूबरः

3.71.75.13

धनदस्य तु रूपेण मणिभद्रं विदुर्बुधाः ॥
न कार्या शिबिका तस्य सभार्यो नरवाहनः

3.71.75.14

वायुपुत्रस्तु कर्तव्यो वायुरूपः पुरोजवः ॥
अतीव रूपवान्कार्यो वर्चाः सोमसुतः प्रभुः

3.71.75.15

लीलाकमलपाणिस्तु वर्चस्वी येन जायते ॥
नन्दी कार्यस्त्रिनेत्रस्तु चतुर्बाहुर्महाभुजः

3.71.75.16

सिन्दूरारुणसङ्काशो व्याघ्रचर्माम्बरच्छदः ॥
त्रिशूलभिन्दिपालौ च करयोस्तस्य कारयेत्

3.71.75.17

शिरोगतं तृतीयन्तु तर्जयन्तं तथा परम ॥
आलोकमानं कर्तव्यं दूरादागामिकं जनम्

3.71.75.18

अनेनैव च रूपेण वीरभद्रं विदुर्बुधाः ॥
उपरिष्टात्प्रवक्ष्यामि धर्मरूपमहं तव

3.71.75.19

अर्थः कार्यस्तु रूपेण धनदस्य महात्मनः ॥
कामदेवस्तु कर्तव्यो रूपेणाप्रतिमो भुवि

3.71.75.3.73.20

अष्टबाहुः स कर्तव्यः शङ्खपद्मविभूषणः ॥
चापबाणकरश्चैव मदादञ्चितलोचनः

3.71.75.21

रतिः प्रीतिस्तथा शक्तिर्मदशक्तिस्तथोज्ज्वला ॥
चतस्रस्तस्य कर्तव्याः पत्न्यो रूपमनोहराः

3.71.75.22

चत्वारश्च करास्तस्य कार्या भार्यास्तनोपगाः ॥
केतुश्च मकरः कार्यः पञ्चबाण मुखो महान्

3.71.75.23

करेण कटिगेनाथ निद्रां वामेन कारयेत् ॥
दक्षिणे तु तथा पार्श्वे तस्याः सङ्कर्षणो भवेत्

3.71.75.294

वासुदेवस्तथा वामे मैकानेशा तथा सुतः ॥
रूपं लक्ष्म्याः प्रवक्ष्यामि उपरिष्टात्तवानघ

3.71.75.25

चतुर्भुजा च कर्तव्या तथा देवी सरस्वती। ॥
अक्षमाला त्रिशूलं च पुस्तकं च कमण्डलुम्

3.71.75.26

तस्या करेषु कार्याणि यथावद्यदुनन्दन ॥
कार्या सकलशा देवी वारुणी चातिसुन्दरी

3.71.75.27

लम्बोदरी तु कर्तव्या रक्ताम्बरपयोधरा ॥
शूलहस्ता महाभागा भुजप्रहरणा तथा

3.71.75.28

बृहद्रथा च कर्तव्या बहुबाहुस्तथैव सा ॥
चामुण्डा कथिता सैव सर्वसत्त्ववशङ्करी

3.71.75.29

तथैवान्त्रमुखी शुष्का शुष्का कार्या विशेषतः ॥
बहुबाहुयुता देवी भुजगैः परिवेष्टिता

3.71.75.3.73.30

कपालमालिनी भीमा तथा खट्वाङ्गधारिणी ॥
शिवा दूती तु कर्तव्या शृगालवदना शुभा

3.71.75.31

आलीढस्थानसंस्थाना तथा राजंश्चतुर्भुजा॥
असृक्पात्रधरा देवी खड्गशूलधरा तथा

3.71.75.32

चतुर्थं तु करं तस्यास्तथा कार्यं तु सामिषम् ॥
देवतुल्येन चिह्नेन यथारूपेण मातरः

3.71.75.33

कर्तव्या देवनामाङ्का या मया ते पुरोदिताः ॥
असृक्पात्रकराः कार्याः सामिषैश्च तथा करैः

3.71.75.34

नृत्यमाना महाभागा यासां रूपं तु नोदितम्॥
पूर्वा गजगता बाला रक्तवर्णा तु दिग्भवेत्

3.71.75.35

करेणुगा बृहत्कन्या पद्माभा पूर्वदक्षिणा ॥
रथस्था दक्षिणा पीता तथा स्यात्प्राप्तयौवना

3.71.75.36

उष्ट्रगा कृष्णपीता च वरुणा याम्यपश्चिमा ॥
यौवनाद्विच्युता कृष्णा पश्चिमा तुरगस्थिता

3.71.75.37

आसन्नपलिता नीला वडवा यदुनन्दन ॥
श्वेता नरभृता वृद्धा तथा भवति चोत्तरा

3.71.75.38

अतिवृद्धा वृषस्था च शुक्ला पूर्वोत्तरा भवेत् ॥
अधस्तात्पृथिवी तुल्या चोर्ध्वा गगनसंस्थिता

3.71.75.39

कालः करालवदनो नित्यगश्च विभीषणः ॥।
पाशहस्तश्च कर्तव्यः सर्पवृश्चिकरोमवान्

3.71.75.3.73.40

ज्वरस्त्रिपादः कर्तव्यस्त्रिनेत्रैर्वदनैस्त्रिभिः ॥
भस्मप्रहरणो रौद्रस्त्रिबाहुर्व्याकुलेक्षणः

3.71.75.41

धन्वन्तरिश्च कर्तव्यः सुरूपः प्रियदर्शनः ॥
करद्वयगतं चास्य सामृतं कलशं भवेत्

3.71.75.42

सामवेदस्तु कर्तव्यः किं तु श्ववदनः प्रभुः ॥
अथ वा देवरूपेण वेदाः कार्या विचक्षणैः

3.71.75.43

ऋग्वेदस्तु स्मृतो ब्रह्मा यजुर्वेदस्तु वासवः ॥
सामवेदस्तथा विष्णुः शम्भुश्चाथर्वणो भवेत्

3.71.75.44

शिक्षा प्रजापतिर्ज्ञेया कल्पो ब्रह्मा प्रकीर्तितः ॥
सरस्वती व्याकरणं निरुक्तं वरुणः प्रभुः

3.71.75.45

छन्दो क्षितिस्तथैवाग्निर्ज्योतिषं भगवान्रविः ॥
मीमांसा भगवान्सोमो न्यायमार्गः समीरणः

3.71.75.46

धर्मश्च धर्मशास्त्राणि पुराणं च तथा मनुः ॥
इतिहासं प्रजाध्यक्षो धनुर्वेदं शतक्रतुः

3.71.75.47

आयुर्वेदस्तथा साक्षाद्देवो धन्वन्तरिः प्रभुः ॥
फलवेदं मही देवी नृत्यशास्त्रं महेश्वरः

3.71.75.48

सङ्कर्षणः पाञ्चरात्रं रुद्रः पाशुपतं तथा ॥
पातञ्जलमनन्तश्च सांख्यश्च कपिलो मुनिः

3.71.75.49

अर्थशास्त्राणि सर्वाणि धनाध्यक्षः प्रकीर्तितः ॥
कलाशास्त्राणि सर्वाणि कामदेवो जगद्गुरुः

3.71.75.3.73.50

अन्यानि यानि शास्त्राणि यत्कर्तॄणि प्रचक्षते॥
स चैव देवता तस्य शास्त्र काव्यस्य देहवत्

3.71.75.51

रूपं तु कालावयवस्य कार्यं स्वदेवतारूपपसमं रिपुघ्न ॥
एतं तवोक्तं सुरसत्तमानां रूपं मया ते यदुवंशचन्द्र

3.71.75.73

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे देवतारूपनिर्माणो नाम त्रिसप्ततितमोऽध्यायः

3.71.75.1

3.74
वज्र उवाच ॥
लिङ्गस्य रूपनिर्माणं कथयस्व ममानघ

3.71.75.2

मार्कण्डेय उवाच ॥
लिङ्गे हि पूजितं पूजा कृता तु जगतो भवेत् ॥
भोगोस्य वृत्तः कर्तव्यो भागमष्टास्रमेव तु

3.71.75.3

चतुरस्रं तथा भागं कर्तव्यं भूरिदक्षिणम ॥
वृत्तं दृश्यं त कर्तव्यं अष्टास्रं पिण्डिकागतम्

3.71.75.4

चतुरस्रं तु कर्तव्यं ब्रह्मपीठगतं तथा ॥
अधस्ताद्भद्रपीठस्य ब्रह्मपीठं विदुर्बुधाः

3.71.75.5

लिङ्गोपरिष्टात्तु गता पुरस्ताल्लेखा सुवृत्ता तु तथैव कार्या ॥
ऊर्ध्वायता बुद्धिगुणा तथास्या या ब्रह्मसूत्रे विबुधैः प्रदिष्टा

3.71.75.74

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे लिङ्गरूपनिर्माणो नाम चतुःसप्ततितमो ऽध्याय

3.71.75.1

3.75
वज्र उवाच ॥
व्योमरूपं समाचक्ष्व सर्वधर्मभृतां वर॥
व्योम्नि तु पूजिते पूजा कृता स्याज्जगतो भवेत्

3.71.75.2

मार्कण्डेय उवाच ॥
चतुरस्रं भवेन्मूले ततो वृत्तं महाभुज ॥
ततोल्पचतुरस्रं च चतुरस्रं ततो भवेत्

3.71.75.3

ततोल्पचतुरस्रं च मेरुवत्संस्थितं ततः ॥
भद्रपीठमिदं प्रोक्तं व्योमभागं तृतीयकम्

3.71.75.4

सर्वेषां भद्रपीठानामेतल्लक्षणमुच्यते ॥
सम्भवश्चतुरस्रं तु मध्यभागं प्रकीर्तितम्

3.71.75.85

भद्रपीठं ततो भागं तत्र पद्म निवेशयेत् ॥
शुभाष्टपत्रं तन्मध्ये कर्णिकायां दिवाकरम्

3.71.75.6

पत्रेषु कल्पयेत्तत्र दिक्पालाँश्च यथादिशम् ॥
भद्रपीठमधस्तात्तु पृथिवीं परिकल्पयेत्

3.71.75.7

अन्तरिक्षं तथा स्तम्भमूर्द्ध्वभागं ततो विदुः ॥
तत्र सन्निहिताः सर्वे भवन्ति त्रिदशोत्तमाः

3.71.75.8

सर्वदेवमयं व्योम कथितं ते महाभुज ॥
तस्य सम्पूजनं कृत्वा सर्वान्कामानवाप्नुयात

3.71.75.9

व्योम्नः स्वरूपं कथितं मयैतद्व्योम्नस्तु पूजा करणात्समग्रम् ॥
सम्पूजितं स्याज्जगदेकवीर चराचरं यादववंशमुख्य

3.71.75.75

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे व्योमरूपनिर्माणो नाम पञ्चसप्ततितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc