विष्णुधर्मोत्तरपुराणम् · अध्याय 3.81.85
3.81
वज्र उवाच ॥
पद्मनाभस्य मे रूपं प्रब्रूहि जगताम्पतेः ॥
यत्रास्य पद्मसम्भूतो देवदेवः पितामहः
मार्कंडेय उवाच॥
जलमध्यगतः कार्यः शेषः पन्नगदर्शनः।
फणपुञ्जमहारत्नदुर्निरीक्ष्यशिरोधरः
देवदेवस्तु कर्तव्यस्तत्र सुप्तश्चतुर्भुजः ।९
एकः पादोऽस्य कर्तव्यो लक्ष्म्युत्सङ्गगतः प्रभो
तथापरश्च कर्तव्यः शेषभोगाङ्कसंस्थितः ॥
एको भुजोऽस्य कर्तव्यस्तत्र जानौ प्रसारितः
कर्तव्यो नाभिदेशस्थस्तथा तस्यापरः करः ॥
तथा चान्यः करः कार्यो देवस्य तु शिरोधरे
सन्तानमञ्जरीधारी तथैवास्यापरो भवेत् ॥
नाभीसरसि सम्भूते कमले तस्य यादव
सर्वपृथ्वीमये देव्याः प्राग्वत्कार्यः पितामहः ॥
नाललग्नौ च कर्तव्यौ पद्मस्य मधुकैटभौ
नृरूपधारीणि भुजङ्गमस्य कार्याण्यथास्त्राणि तथा समीपे ॥
एतत्तवोक्तं यदुपुङ्गवाग्र्य देवस्य रूपं परमस्य तस्य
इति श्रीविष्णुध० तृ० ख० मा० व० सं पद्मनाभरूपनिर्माणो नामैकाशीतितमोऽध्यायः
3.82
वज्र उवाच ॥
आचक्ष्व रूपं लक्ष्म्या मे भृगुवंशविवर्धन ॥
या माता सर्वलोकस्य पत्नी विष्णोर्महात्मनः ॥
मार्कण्डेय उवाच ॥
हरेः समीपे कर्तव्या लक्ष्मीस्तु द्विभुजा नृप ॥
दिव्यरूपाम्बुजकरा सर्वाभरणभूषिता
गौरी शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि ॥
पृथक्चतुर्भुजा कार्या देवी सिंहासने शुभे
सिंहासनेऽस्याः कर्तव्यं कमलं चारुकर्णिकम् ॥
अष्टपत्रं महाभाग कर्णिकायान्तु संस्थिता
विनायकवदासीना देवी कार्या महाभुज ॥
बृहन्नालं करे कार्यं तस्याश्च कमलं शुभम्
दक्षिणे यादव श्रेष्ठ केयूरप्रान्तसंस्थितम् ॥
वामेऽमृतघटः कार्यस्तथा राजन्मनोहरः
तथैवान्यौ करौ कार्यौ बिल्वशङ्खधरौ नृप ॥
आवर्जितघटं कार्यं तत्पृष्ठे कुञ्जरद्वयम्
देव्याश्च मस्तके पद्मं तथा कार्यं मनोहरम् ॥
सौभाग्यं तद्विजानीहि शङ्खमृद्धिं तथा परम्
बिल्वं च सकलं लोकमपां सारामृतं तथा ॥
पद्मं लक्ष्मीकरे विद्धि विभवं द्विजपुङ्गव
हस्तिद्वयं विजानीहि शंखपद्मावुभौ निधी ॥
समुत्थिता वा कर्तव्या शंखाम्बुजकरा तथा
समुक्षिता महाभागा पद्मे पद्मान्तरप्रभा ॥
द्विभुजा चारुसर्वांगी सर्वाभरणभूषणा
द्वौ च मौलिचरौ मूर्ध्नि कार्या विद्याधरौ शुभौ
कराभ्यां मौलिलग्नाभ्यां दक्षिणाभ्यां विराजितौ ॥
कराभ्यां खड्गधारिभ्यां देवीवीक्षणतत्परौ
राजश्रीः स्वर्गलक्ष्मीश्च ब्राह्मी लक्ष्मीस्तथैव च ॥
जयलक्ष्मीश्च कर्तव्या तस्या देव्याः समीपगाः
सर्वाः सुरूपाः कर्तव्यास्तथा च सुविभूषणाः
लक्ष्मीः स्थिता सा कमले तु यस्मिँस्तां केशवं विद्धि महानुभाव ॥
विना कृता सा मधुसूदनेन क्षणं न सन्तिष्ठति लोकमाता
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे लक्ष्मीरूपनिर्माणो नाम द्व्यशीतितमोऽध्यायः
3.83
वज्र उवाच ॥
रूपेण केन कर्तव्यो विश्वरूपधरो हरिः ॥
एतं मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे
मार्कण्डेय उवाच ॥
आदौ देवस्य कर्तव्याश्चत्वारो वै स्तवोन्मुखाः ॥
तेषामुपरि कर्तव्यास्तथा माहेश्वराः पुनः
ईशानं वक्त्रहीनास्ते तथा प्रोक्ता मया पुरा ॥
तेषामुपरि कर्तव्या मुख्या ब्राह्मी यथेरिता
ततश्चान्यमुखाः कार्यास्तिर्यगूर्ध्वे तथैव च ॥
सर्वेषामपि देवानां तथान्यानपि कारयेत्
ये मुखाः सत्त्वजातानां नानारूपा विभागशः ॥
यावन्तो दृष्टयः प्रोक्ताश्चित्रसूत्रे महात्मभिः
दर्शनीयास्तु ताः सर्वास्तस्य मूर्धसु भागशः ॥
नानाविधानि सत्त्वानि मुखैरन्यैस्तथैव च
ग्रसमानः स कर्तव्यः सर्वैः सत्त्वभयङ्करैः ॥
कार्याण्युद्धूयमानानि मुखाः केचन ते शुभाः
यथा शक्त्या च कर्तव्यास्तस्य देवस्य बाहवः ॥
हस्तानि यानि दृष्टानि नृत्तशास्त्रे महात्मभिः
तानि सर्वाणि कार्याणि तस्य देवस्य बाहुषु ॥
हस्ताः कार्यास्तथैवान्ये सर्वायुधविभूषणाः
यज्ञदण्डधराश्चान्ये शिल्पभाण्डधरास्तथा ॥
कालभाण्डधराश्चान्ये वाद्यभाण्डधराः परे
रूपमन्यत्प्रकर्तव्यं वैकुण्ठवदतोऽच्युते ॥
तत्रापि गात्रगास्तस्य दर्शयेच्चित्रकर्मणा
त्रैलोक्यं सकलं राजन्यथाशास्त्रानुसारतः ॥
दर्शनीयानि वर्णानि सर्वाण्येव महात्मनः
बहुरूपस्य देवस्य वहुमस्तकगानि तु
एवं हि शक्त्या जगतां प्रधानः समग्ररूपो भगवान्हि कार्यः ॥
कार्त्स्न्येन रूपं पुरुषोत्तमस्य वक्तुं न शक्यं कुत एव कर्तुम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० विश्वरूपनिर्माणो नाम त्र्यशीतितमोऽध्यायः
3.84
मार्कण्डेय उवाच ॥
ऐडूकरूपनिर्माणं शृणुष्व गदतो मम ॥
ऐडूकपूजनात्पूजा कृतास्य जगतो भवेत्
भद्रपीठं बुधः कुर्यात्सोपानैः शोभनैर्युतम् ॥
चतुर्भिर्यादवश्रेष्ठ यथादिशमरिन्दम
तस्योपरिष्टादपरं भद्रपीठं तु कारयेत् ॥
तस्योपरिष्टादपरं तादृग्विधमरिन्दम
तस्योपरिष्टात्कर्तव्यं लिङ्गरूपं विजानता ॥
तत्तु तत्रापि कर्तव्यं लिंगरेखा विराजितम्
तस्य मध्ये ध्रुवां यष्टिं चतुरस्रां तु कारयेत् ॥
तस्योपरिष्टात्कर्तव्या भूमिकास्तु त्रयोदश
तस्योपरिष्टात्कर्तव्यं तथैवामलतारकम् ॥
तस्योपरि पुनर्यष्टिः कार्या राजन्सुवर्तुला
समार्धचन्द्रमध्यस्थचन्द्रकेण विराजिता ॥
भूमिका या मया प्रोक्ता तथैवामलतारकम्
भुवनास्ते त्वया ज्ञेयास्तथा राजँश्चतुर्दश॥
लिंगे महेश्वरो देवो वृत्ता यष्टिः पितामहः
चतुरस्रा तु या यष्टिः स च देवो जनार्दनः ॥
गुणरूपेण विज्ञेयं भद्रपीठत्रयं तथा
गुणाधानमिति प्रोक्तं त्रैलोक्यं सचराचरम् ॥
अधस्ताद्भुवनानां तु लिङ्गोपरि तथा नृप
लोकपालाश्च कर्तव्याः शूलहस्ताश्चतुर्दिशम् ॥
विरूढो धृतराष्ट्रश्च विरूपाक्षश्च यादवः ॥
कुबेरश्च महातेजाः सूर्यवेशधराः शुभाः ॥
सर्वे कवचिनः कार्याः शुभाभरणभूषिताः
विरूपाक्षं विजानीहि शक्रदेव गणेश्वरम् ॥
धृतराष्ट्रं विजानीहि यमं भुवननायकम्
विरूपाक्षं विजानीहि वरुणं यादसाम्पतिम् ॥
राजराजं विजानीहि कुबेरं धनदं प्रभुम्
ऐडूकरूपं कथितं मयैतत्प्रजाहिताख्यं यदुवंशमुख्य
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे ऐडूकरूपनिर्माणो नाम चतुरशीतितमोऽध्यायः
3.85
वज्र उवाच ॥
वासुदेवस्य देवस्य बहुरूपस्य भार्गव ॥
ब्रूहि मे रूपनिर्माणं शाश्वतस्य महात्मनः
मार्कण्डेय उवाच ॥
एकवक्त्रश्चतुर्बाहुः सौम्यरूपः सुदर्शनः ॥
सलिलाध्मातमेघाभस्सर्वाभरणभूषितः
कण्ठेन शुभरेखेण कम्बुतुल्येन राजता ॥
वराभरणयुक्तेन कुण्डलोत्तमभूषिणा
अङ्गदी बद्धकेयूरो वनमालाविभूषणः ॥
उरसा कौस्तुभं बिभ्रत्किरीटं शिरसा तथा
शिरःपद्मस्तथैवास्य कर्तव्यश्चारुकर्णिकः ॥
मुष्टिश्लिष्टायतभुजस्तनुस्ताम्रनखाङ्गुलिः
मध्येन त्रिवलीभङ्गःशोभितेन सुधारुणा ॥
स्त्रीरूपधारिणी क्षोणी कार्या तत्पादमध्यगा
तत्करस्थांघ्रियुगुलो देवः कार्यो जनार्दनः ॥
तालान्तरपदन्यासः किञ्चिन्निष्क्रान्तदक्षिणः
अन्तर्दृशा मही कार्या देवदर्शनविस्मिता ॥
देवश्च कटिवासेन कार्यो जान्ववलम्बिना
वनमाला च कर्तव्या देवजान्ववलम्बिनी ॥
यज्ञोपवीतः कर्तव्यो नाभिदेशमुपागतः
उत्फुल्लकमलं पाणौ कुर्याद्देवस्य दक्षिणे ॥
वाम पाणिगतं शङ्खं शङ्खाकारं तु कारयेत्
दक्षिणे तु गदा देवी तनुमध्या सुलोचना ॥
स्त्रीरूपधारिणी मुग्धा सर्वाभरणभूषणा
पश्यन्ती देवदेवेशं कार्या चामरधारिणी ॥
कार्यं तन्मूर्ध्निविन्यस्तं देवहस्तं तु दक्षिणम्
वामभागगतश्चक्रः कार्यो लम्बोदरस्तथा॥।
सर्वाभरण संयुक्तो नृत्तविस्फारितेक्षणः
कर्तव्यश्चामरकरो देववीक्षणतत्परः॥
कार्यो देवकरो वामो विन्यस्तस्तस्य मूर्धनि
वज्र उवाच ॥
किं भयं तस्य देवस्य नित्यं सर्वायुधोद्यतः ॥
यतस्तिष्ठति सर्वात्मा भयहा त्रिदिवौकसाम्
मार्कण्डेय उवाच ॥
नैतान्यायुधजातानि परमा र्थेन यादव ॥
महाभूतान्यथैतानि हरिर्धारयते प्रभुः
खं विजानीहि देवस्य करे शंखो महाभुजः ॥
चक्रं जानीहि पवनं गदां तेजस्तथा विभोः
आपः पद्मं विजानीहि पादमध्ये व्यवस्थितम् ॥
महाभूतान्यथैतानि त्यक्तानि हरिणा नृप
क्षिप्रमेव विशीर्यन्ते तेन धारयते हरिः ॥
विष्णुर्जीवः समाख्यातस्तेन त्यक्ताः शरीरगाः
भूतानि पश्य प्रत्यक्षं शीर्यमाणानि सर्वशः ॥
भूतैर्देवधृतैलोको धार्यते यदुनन्दन ॥
तेषां धारणशक्तिर्या सा ज्ञेया विष्णुकारिता
वासुदेवस्य रूपेण कार्यः सङ्कर्षणः प्रभुः ॥
स तु शुक्लवपुः कार्यो नीलवासा यदूत्तम ॥
गदास्थाने च मुसलं चक्रस्थाने च लाङ्गलम्॥
कर्तव्यौ तनुमध्यौ तौ नृरूपौ रूपसंयुतौ
वासुदेवस्य रूपेण प्रद्युम्नश्च तथा भवेत् ॥
स तु दूर्वाङ्कुरश्यामस्सितवासा विधीयते
चक्रस्थाने भवेच्चापं गदास्थाने तथा शरम् ॥
तथाविधौ तु कर्तव्यौ तथा मुससलाङ्गलौ
एतदेव तथा रूपमनिरुद्धस्य कारयेत् ॥
पद्मपत्राभवपुषो रक्ताम्बरधरस्य तु
चक्रस्थाने भवेच्चर्म गदास्थानेऽसिरेव च ॥
चर्म स्याच्चक्ररूपेण प्रांशुः खङ्गो विधीयते
चक्रादीनां स्वरूपाणि किञ्चिन्मूर्धसु दर्शयेत् ॥
रम्याण्यायुधरूपाणि चक्रादीन्येव यादव
वामपार्श्वगताः कार्या देवानां प्रवरा ध्वजाः ॥
स्वपताकायुता राजन्यष्टिस्थास्ते यथेरिताः
पीतवर्णं प्रतीहारं वासुदेवस्य कारयेत् ॥
सुभद्रवसुभद्राख्यौ वीरौ प्रासकरावुभौ
आषाढो यज्ञतातश्च कार्यः सङ्कर्षणस्य तु ॥
नलिवर्णौ महाभागौ तथा मुद्गरधारिणौ
प्रद्युम्नस्य प्रतीहारौ जयो विजय एव च ॥
श्वेतवर्णौ महाभाग तथा खङ्गधरावुभौ
आमोदश्च प्रमोदश्च महाबलपराक्रमौ ॥
अनिरुद्धस्य विज्ञेयौ प्रतीहारौ सुरेश्वरौ
रक्तवर्णौ महाभाग तथोभौ शक्तिधारिणौ ॥
सर्वे सुरूपाः कर्तव्याः सर्वाभरणधारिणः
द्विबाहवस्तु कर्तव्यास्तर्जन्युच्छ्रितपाणयः ॥
दृष्टिस्तेषां तु कर्तव्या द्वारन्यस्ता महाभुज
शक्रं सुभद्रं जानीहि वसुभद्रं हुताशनम् ॥
आषाढं देवदेवेशं यमं जानीहि यादव
यज्ञतातं विरूपाक्षं विद्धि देवमनिन्दितम् ॥
जयं जानीहि वरुणं यादोगणमहेश्वरम्
पवनं च विजानीहि विजयं यदुनन्दन ॥
आमोदं धनदं विद्धि प्रमोदं शिवमेव च
एते कार्याश्च वा सर्वे दिनगोक्तवपुर्धराः ॥
एत एव तथा प्रोक्ता भूय एव महात्मभिः
अष्टौ देवगणा राजँस्तन्मे निगदतः शृणु ॥
वासुदेवप्रतीहारावणिमा लघिमा स्मृतौ
संकर्षणप्रतीहारौ महिमाप्राप्तिसंज्ञितौ ॥
प्राकाम्यं च तथेशित्वं प्रद्युम्ने कथितावुभौ
वशित्वं विद्धि चामोदं यत्र कामावसायिता ॥
प्रमोदमथ जानीहि सर्वलोकनमस्कृतम्
एतत्ते रूपनिर्माणं चतुर्मूर्तेर्मयेरितम् ॥
एकमूर्तिधरः कार्या वैकुण्ठेत्यभिशब्दिताः
चतुर्मुखः स कर्तव्यः प्रागुक्तवदनः प्रभुः ॥
चतुर्मूर्तिः स भवति कृते मुखचतुष्टये
पूर्वं सौम्यमुखं कार्यं यत्तु मुख्यतमं विदुः ॥
कर्तव्यं सिंहवक्त्राभं ज्ञानवक्त्रं तु दक्षिणम्
पश्चिमं वदनं रौद्रं यत्तदैश्वर्यमुच्यते ॥
चतुर्वक्त्रस्य कर्तव्यं रूपमन्यत्तथेरितम्
चतुर्भुजो वा कर्तव्यस्तार्क्ष्यो यादवनन्दन ॥
गारुडश्च तथा कार्यो धर्मज्ञ रचिताञ्जलिः
सुखोपविष्टैस्तत्पृष्ठे तत्करस्थो हि पङ्कजः ॥
उपविष्टौ गदा चक्रौ कर्तव्यौ तार्क्ष्यपक्षयोः
तार्क्ष्यासनस्था श्रीः कार्या वामोत्सङ्गगतापि वा ॥
शेषभोगोपविष्टो वा कार्यो देवो मनोहरः
तत्फणैरेव रचितं दुर्निरीक्ष्यं प्रभोर्मुखम् ॥
शेषभोगोपविष्टस्य शून्यं करचतुष्टयम्
कार्यं चक्रं गदा कार्या सदेहा तत्समीपगा ॥
लक्ष्मीः कार्या तथा तस्य शेषभोगगतापि वा
शेषपर्यङ्कशयने कार्यो वा भगवान्हरिः ॥
ऐरावती सुमुद्भूते यथारूपो मयेरितः
नृसिंह रूपं कथितं वाराहं कापिलं तथा ॥
विश्वरूपं हयग्रीवं पद्मनाभं तथैव च
ब्राह्म्यं रौद्रं च रामीय पुष्करेण महात्मना ॥
कर्तव्यो वामनो देवः सङ्कटैर्गात्रपर्वभिः
पीनगात्रश्च कर्तव्यो दण्डी चाध्ययनोद्यतः ॥
दूर्वाश्यामश्च कर्तव्यः कृष्णाजिनधरस्तथा
सजलाम्बुदसङ्काशस्तथा कार्यस्त्रिविक्रमः ॥
दण्डपाशधरः कार्यः शङ्खसञ्चुम्बिताधरः
शङ्खचक्रगदापद्माः कार्यास्तस्य स्वरूपिणः ॥
नृदेहास्ते न कर्तव्या शेषं कार्यं तु पूर्ववत्
एकोर्ध्ववदनः कार्यो देवो विस्फारितेक्षणः ॥
रूपं नरस्य कथितं तथा नारायणस्य ते
कृष्णस्य हरिणा सार्धं पूर्वं वरुणसूनुना ॥
हंसो मत्स्यस्तथा कूर्मः कार्यास्तद्रूपधारिणः
शृङ्गमत्स्यस्तु कर्तव्यौ देवदेवो जनार्दनः ॥
स्त्रीरूपश्च तथा कार्यः सर्वाभरणभूषितः
करेऽमृतघटश्चास्य कर्तव्यो भूरिदक्षिणः ॥
पृथुः कार्यस्तथा राजा चक्रवत्यन्त लक्षणः
कार्यस्तु भार्गवो रामो जटामण्डलदुर्दृशः ॥
हस्तेऽस्य परशुः कार्यः कृष्णाजिनधरस्य तु
रामो दाशरथिः कार्यो राजलक्षणलक्षितः ॥
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महायशाः
तथैव सर्वे कर्तव्याः किन्तु मौलिविवर्जिताः ॥
गौरस्तु कार्यो वाल्मीकिर्जटा मण्डलदुर्दृशः
तपस्यभिरतः शान्तो न कृशो न च पीवरः ॥
वाल्मीकिरूपं सकलं दत्तात्रेयस्य कारयेत्
कृष्णशान्ततनु र्व्यासः पिङ्गलोऽतिजटाधरः ॥
सुमन्तुर्जैमिनिः पैलो वैशम्पायन एव च
तस्य शिष्यास्तु कर्तव्याश्चत्वारः परिपार्श्वयोः ॥
युधिष्ठिरोऽथ कर्त्तव्यो राजलक्षणलक्षितः
श्मश्रुहीनोऽतिपीनाङ्गः क्षाममध्यो वृकोदरः ॥
तिर्यक्प्रेक्षी संहतभ्रुः कर्तव्यश्च तथा गदी
दूर्वाश्यामोर्जुनः कार्यः किरीटी लोहिताङ्गदः ॥
बाणचापधरः श्रीमान्सर्वाभरणभूषितः
नकुलः सहदेवश्च कार्यावश्विसमावुभौ ॥
खङ्गचर्मधरौ कार्यौ न त्वेवौषधिपाणिनौ
नीलनीरजपत्राभा कृष्णा कार्यातिरूपिणी ॥
पद्मपत्राग्रगौरा तु कर्त्तव्या देवकी तथा
मधूकपुष्पसच्छाया यशोदापि तथा भवेत् ॥
एकानंशापि कर्तव्या देवी पद्मकरा तथा
कटिस्थवामहस्ता सा मध्यस्था रामकृष्णयोः ॥
सीरपाणिर्बलः कार्यो मुसली चैव कुण्डली
श्वेतोऽतिनीलवसनो मदादञ्चितलोचनः ॥
कृष्णश्चक्रधरः कार्यो नीलोत्पलदलच्छविः
इन्दीवरकरा कार्या तथा श्यामा च रुक्मिणी ॥
तार्क्ष्यस्था सा च कर्तव्या सत्यभामा सुरूपिणी
अन्याश्च देव्यः कर्तव्याः सुरूपाः सुमनोहराः ॥
चापबाणधरः कार्यः प्रद्युम्नश्च सुदर्शनः ॥
राजन्दूर्वादलश्यामः श्वेतवासा मदोत्कटः ॥
कर्तव्यश्चानिरुद्धोऽपि खड्गचर्मधरः प्रभुः
साम्बः कार्यो गदाहस्तः सुरूपश्च विशेषतः ॥
साम्बानिरुद्धौ कर्तव्यौ पद्माभौ रक्तवाससौ ॥
खङ्गहस्तौ च कर्तव्यौ स्त्रियो वेषौ तु पार्श्वयोः
युयुधानस्तथा प्रांशुर्बाणचापधरो भवेत ॥
वर्णेनोत्पलगर्भाभो दीर्घबाहुः सुलोचनः
प्रादुर्भावा देवदेवस्य विष्णोर्वक्तुं शक्या विस्तरान्नैव राजन् ॥
बुद्ध्या तेषां कर्मयोगं यथा वच्छास्त्रं दृष्ट्वा ते तु कार्या बुधेन
इति श्रीविष्णुधर्मो०तृ०ख०मा०व० सं०देवोद्यानरूपनिर्माणोनाम पञ्चाशीतितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0