भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.66.70

3.66.70.1

3.66
मार्कंडेय उवाच ॥
कर्तव्यस्तुम्बुरुर्देवो मातृमध्यगतः प्रभुः ॥
उपविष्टो वृषे कार्यः शर्ववत्स चतुर्मुखः

3.66.70.2

उपविष्टस्तु कर्तव्यः स तु पार्थिवसत्तम ॥
महादेवेन तस्योक्तं रूपं ते सकलं मया

3.66.70.3

कपालं तस्य कर्तव्यं मातुलुङ्गधरे करे ॥
मातुलुङ्गं च कर्तव्यं त्र्यम्बकेण तदीरितम्

3.66.70.4

तस्य दक्षिणतः कार्यं तथा मातृद्वयं भवेत् ॥
वामतस्तस्य कर्तव्यं मातृद्वितयमेव च

3.66.70.5

जया च विजया चैव कर्तव्या दक्षिणेन तु ॥
जयन्ती वामतः कार्या तथा चैवापराजिता

3.66.70.6

सर्वाश्च द्विभुजाः कार्याश्चतुर्वक्त्रास्तथैव च ॥
सर्वासां वामहस्तेषु कपालानि तु कारयेत्

3.66.70.7

दण्डः कार्यो महाराज दक्षिणे तु जया करे ॥
विजयायाः करे खड्गः कार्यो भिन्नाञ्जनप्रभः

3.66.70.8

अक्षमालाधरकरां जयन्तीं नृप कारयेत ॥
भिन्दिपालकरा कार्या तथा देव्यपराजिता

3.66.70.9

पादपीठगतं पादं सर्वासामेव कारयेत् ॥
दक्षिणं यानगं वामं कर्तव्यं नृप कुञ्चितम्

3.66.70.3.66.10

जया पुरुषगा कार्या विजया कौशिकोपमा ॥
जयन्ती तुरगारूढा मेघगा चापराजिता ॥

3.66.70.11

चन्द्रांशुगौरः कर्तव्यो महादेवस्तु तुम्बुरुः

3.66.70.12

देवीप्रियार्थं भुवनस्य गोप्ता तासां स मध्ये भगवानथेशः ॥
भक्तेषु कामान्विभधन्नथास्ते स पूजनीयस्त्रिदशारिहन्ता

3.66.70.66

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे देवीचतुष्टयसहि ततुंबुरूपनिर्माणन्नाम षट्षष्टितमोऽध्यायः

3.66.70.1

3.67
वज्र उवाच ॥
प्रागुक्तं रूपनिर्माणं त्वया चन्द्राम्बुनाथयोः ॥
तयोरेवापरं ब्रूहि रूपमकेन्दुरूपयोः

3.66.70.2

मार्कण्डेय उवाच ॥
रविः कार्यः शुभश्मश्रुः सिन्दूराभरणप्रभः ॥
सुदीप्तवेशः स्वाकारः सर्वाभरणसंयुतः

3.66.70.3

चतुर्बाहुर्महातेजाः कवचेनाभिसंवृतः ॥
कर्तव्या रशना चास्य यावियाङ्गेति संज्ञिता

3.66.70.4

रश्मयस्तस्य कर्तव्या वामदक्षिणहस्तयोः ॥
ऊर्ध्वस्रग्दामसंस्थानाः सर्वपुष्पाञ्चिताः शुभाः

3.66.70.5

सुरूपरूपः स्वाकारो दण्डी कार्योस्य वामतः॥
दक्षिणे पिङ्गलो भागे कर्तव्यश्चातिपिङ्गलः

3.66.70.6

उद्दीप्तवेशौ कर्तव्यौ तावुभावपि यादव ॥
तयोर्मूर्धनि विन्यस्तौ करौ कार्यौ विभावसोः

3.66.70.7

लेखनीपत्रककरः कार्यो भवति पिङ्गलः ॥
चर्मशूलधरोदेवस्तथा यत्नाद्विधीयते

3.66.70.8

सिंहो ध्वजश्च कर्तव्यस्तथा सूर्यस्य वामतः ॥
चत्वारश्चास्य कर्तव्यास्तनयास्तस्य पाश्वर्योः

3.66.70.9

रेवन्तश्च यमश्चैव मनुद्वितयमेव च ॥
ग्रहराजो रविः कार्यो ग्रहैर्वा परिवारितः

3.66.70.3.67.10

राज्ञी च रिक्षुभा च्छाया तथा देवी सुवर्चसा ॥
चतस्रश्चास्य कर्तव्या पत्न्यश्च परिपार्श्वयोः

3.66.70.11

एकचक्रेऽथ सप्ताश्वे षड्रेखाङ्के रथोत्तमे ॥
उपविष्टस्तु कर्तव्यो देवो वारुणसारथिः

3.66.70.12

गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥
त्रिष्टुप् च जगती सप्त छन्दांस्यर्करथे हयाः

3.66.70.13

रश्मिभिः करसंस्थैस्तु धारयत्यखिलं जगत् ॥
सिंहो ध्वजगतश्चास्य साक्षाद्धर्मः प्रकीर्तितः

3.66.70.14

रशनास्थं जगत्सर्वं देवो धारयते तथा ॥
राज्ञी भूरिक्षुभा द्यौश्च च्छाया छाया प्रकीर्तिता

3.66.70.15

प्रभा सुवर्चसा प्रोक्तास्तस्य देवस्य पत्नयः ॥
रक्तवर्णः स भगवांस्तेजसा धाम कारणात्

3.66.70.16

असह्यतेजोधारित्वाद् गूढगात्रस्तथैव च ॥
एवं सर्वमयं धाम सूर्य एव प्रकीर्तितः

3.66.70.17

रूपं तथैतद्दिवसस्य भर्तुर्मयेरितं सर्वजगन्मयस्य ॥
तेजोनिधानस्य परोज्ज्वलस्य सर्वाधिनाथस्य सनातनस्य

3.66.70.67

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० आदित्यरूपवर्णनं नाम सप्तषष्टितमोऽध्यायः

3.66.70.1

3.68
मार्कंडेय उवाच॥
चन्द्रः श्वेतवपुः कार्यस्तथा श्वेताम्बरः प्रभुः ॥
चतुर्बाहुर्महातेजाः सर्वाभरणवांस्तथा

3.66.70.2

कुमुदौ च सितौ कार्यौ तस्य देवस्य हस्तयोः ॥
कान्तिर्मूर्तिमती कार्या तस्य पार्श्वे तु दक्षिणे

3.66.70.3

वामे शोभा तथा कार्या रूपेणाप्रतिमा भुवि ॥
चिह्नं तथास्य सिंहांकं वामपार्श्वैकवद्भवेत्

3.66.70.4

दशाश्वो वा रथः कार्यो द्विचक्रोम्बरसारथी ॥
स्रजश्च त्रिमनाश्चैव वृषो वादी नरो हयः

3.66.70.5

अथो वाक्सप्तधातुश्च हंसो व्योमो मृग स्तथा ॥
एते ते वामतः सर्वे दश चन्द्रमसो हयाः

3.66.70.6

अथ वैवास्य कर्तव्या अष्टविंशतिसङ्ख्यकाः।
अत्यर्थं रूपसंयुक्ताः पत्न्यो नक्षत्रसंज्ञिताः

3.66.70.7

अशीतिद्व्यधिकाः कार्या भावा वा देहभेदयोः ॥
पुरा देवासुरे युद्धे प्राकाम्येन नृपोडुभिः

3.66.70.8

कृतानि स्वशरीराणि बहूनि यदुन न्दन ॥
स्वनाथदेवरूपाणि ततस्ते दानवा हताः

3.66.70.9

नक्षत्रेण कृतं रूपं यस्य यस्य सुरस्य तु ॥
सा चैव देवता तस्य नक्षत्रस्य प्रकीर्तिता

3.66.70.3.68.10

देवासुरे ततो वृत्ते प्राकाम्येनैव यादव ॥
स्त्रीरूपधारिणो देवास्तावन्तस्तु ततः कृताः

3.66.70.11

सर्वलोकस्य धर्मज्ञ चन्द्रमा वै पिता स्मृतः ॥
तस्मिन्सृष्टे जगत्सर्वं परं हर्षमुपैति च

3.66.70.12

सौम्यमूर्तिः परा ज्ञेया सा च विष्णोर्महात्मनः ॥
हर्षप्रसादौ विज्ञेयौ कुमुदौ चन्द्रहस्तयोः

3.66.70.13

शोभाकान्ती विनिर्दिष्टे स्वरूपं भृगुनन्दन ॥
अपां सारमयत्वाद्धि शुक्लवर्णस्तु चन्द्रमाः

3.66.70.14

अपां हि धामामृतमाहुराद्या मवास्तु तच्चन्द्रसमः प्रदिष्टम् ॥
सिंहध्वजं धर्ममुशन्ति राजन्दिशस्तुरङ्गाः शशिनः प्रदिष्टाः

3.66.70.68

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शशिरूपनिरूपणो नामाष्टषष्टितमोऽध्यायः

3.66.70.1

3.69
वज्र उवाच ॥
ग्रहाणां रूपनिर्माणं समाचक्ष्व महाभुज ॥
अनेनैव प्रसङ्गेन सर्वज्ञस्त्वं मतो मम

3.66.70.2

मार्कण्डेय उवाच ॥
भौमोऽग्नितल्पः कर्तव्यश्चाष्टाश्वे काञ्चने रथे ॥
विष्णुतल्पो बुधः कार्यो भौमतल्पे तथा रथे

3.66.70.3

तप्तजाम्बूनदः कार्यो द्विभुजश्च बृहस्पतिः ॥
पुस्तकं चाक्षमालां च करयोस्तस्य कारयेत्

3.66.70.4

सर्वाभरणयुक्तश्च तथा पीताम्बरो गुरुः ॥
अष्टाश्वे काञ्चने दिव्ये रथे दृष्टिमनोहरे

3.66.70.5

शुक्रः श्वेतवपुः कार्यः श्वेताम्बरधरस्तथा ॥
द्वौ करौ कथितौ तस्य निधिपुस्तकसंयुतौ

3.66.70.6

दशाश्वे च रथे कार्यो राजते भृगुनन्दन ॥
कृष्णवासास्तथा कृष्णः शनिः कार्यस्सिराततः

3.66.70.7

दण्डाक्षमालासंयुक्तः करद्वितयभूषितः॥
कार्ष्णायसे रथे कार्यस्तथैवाष्टभुजङ्गमे

3.66.70.8

रौप्यै रथे तथाष्टाश्वो राहुः कार्यो विचक्षणः ॥
केवलं मस्तकं कार्यं भुजेनैकेन संयुतम्

3.66.70.9

करमेकं तु कर्तव्यं तस्य शून्यं तु दक्षिणम् ॥
भौमस्य च तथा कार्यं केतो रूपं विजानता

3.66.70.3.69.10

केवलं चास्य कर्तव्या दशराजंस्तुरङ्गमाः

3.66.70.69

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भौमादिग्रहरूपनिर्माणो नामैकोनसप्ततितमोऽध्यायः

3.66.70.1

3.70
वज्र उवाच ॥
मनुद्वयस्य मे रूपं कथयस्वामितद्युते ॥
देवेन्द्रस्य च धर्मज्ञ यमस्याभिहितं त्वया

3.66.70.2

मार्कंडेय उवाच ॥
वर्तमानो मनुः कार्यो राजलक्षणसंयुतः ॥
भविष्यन्तु तथा कार्यः सर्वाभरणवर्जितः

3.66.70.3

जटाधरोऽक्षमाली च कमण्डलुधरस्तथा ॥
कृशोऽपि तेजसा युक्तस्तपस्यभिरतस्तथा

3.66.70.4

कार्या योगेन चान्येऽपि भविष्या मनवश्च ये ॥
सावर्णमनुतुल्येन कार्यो रूपेण यादव

3.66.70.5

अतीता मनवः कार्या राजलक्षणलक्षिताः ॥
पृष्ठेश्वे सूर्यवत्कार्यो रेवन्तश्च तथा प्रभुः

3.66.70.70

इति श्रीवि० तृ० ख० मा० सं० मनुरूपनिरूपणो नाम सप्ततितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc