भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.61.65

3.61.65.1

3.61
मार्कण्डेय उवाच ॥
शुकवर्णा मही कार्या दिव्याभरणभूषिता ॥
चतुर्भुजा सौम्यवपुश्चन्द्रांशुसदृशाम्बरा

3.61.65.2

रत्नपात्रं सस्यपात्रं पात्रमोषधिसंयुतम् ॥
पद्मं करे च कर्तव्यं भुवो यादवनन्दन

3.61.65.3

दिङ्नागानां चतुर्णां सा कार्या पृष्ठगता तथा ॥
सर्वौषधियुता देवी शुक्लवर्णा ततः स्मृता

3.61.65.4

धर्मं वस्त्रं सितं तस्याः पद्ममर्थं तथा करे

3.61.65.5

हेतुश्च शेषो विदितो बुधानामतो मया ते कथितोऽद्य राजन् ॥
रूपं त्वरूपस्य तु वच्म्यतोहं प्रकर्षितं यद्गगनस्य सिद्धैः

3.61.65.61

इति विष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भूमिरूपनिर्माणो नामैकषष्टितमोऽध्यायः

3.61.65.1

3.62
मार्कण्डेय उवाच ॥
नीलोत्पलाभं गगनं तद्वर्णाम्बरधारिणम् ॥
चन्द्रार्कहस्तं कर्तव्यं द्विभुजं सौम्यदर्शनम्

3.61.65.2

एतद्धि रूपं गगनस्य राजन्प्रोक्तं मया ते परिकल्पितं यत ॥
रूपं प्रवक्ष्याम्यथ ते निबोध पितामहस्याप्रतिमस्य तस्य

3.61.65.62

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गगनरूपवर्णनो नाम द्विषष्टितमोऽध्यायः

3.61.65.1

मार्कण्डेय उवाच ॥
पद्मपत्रासनस्थस्तु ब्रह्मा कार्यश्चतुर्मुखः ॥
सावित्री तस्य कर्तव्या वामोत्सङ्गगता तथा

3.61.65.2

आदित्यवर्णा धर्मज्ञ साक्षमालाकरा तथा ॥
रूपं पूर्वोदितं कार्यं सर्वमन्यज्जगत्पते

3.61.65.3

एतद्धि रूपं वरदस्य कार्यं पितामहस्याप्रतिमस्य सौम्य ॥
पूर्वोदितं वा वरदस्य तस्य लोकं समग्रं वशगं हि यस्य

3.61.65.63

इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे ब्रह्मरूपनिर्माणो नाम त्रिषष्टितमोऽध्यायः

3.61.65.1

3.64
मार्कण्डेय उवाच ॥
देवी सरस्वती कार्या सर्वाभरणभूषिता ॥
चतुर्भुजा सा कर्तव्या तथैव च समुत्थिता

3.61.65.2

पुस्तकं चाक्षमालां च तस्या दक्षिणहस्तयोः ॥
वामयोश्च तथा कार्या वैष्णवी च कमण्डलुः

3.61.65.3

समपादप्रतिष्ठा च कार्या साममुखी तथा ॥
वेदास्तस्य भुजा ज्ञेयाः सर्वशास्त्राणि पुस्तकम्

3.61.65.4

सर्वशास्त्रामृतरसो देव्या ज्ञेयः कमण्डलुः ॥
अक्षमाला करे तस्याः कालो भवति पार्थिव

3.61.65.5

सिद्धिर्मूर्तिमती ज्ञेया वैष्णवी नात्र संशयः ॥
सावित्री वदनं तस्याः सर्वाद्या परिकीर्तिता

3.61.65.6

चन्द्रार्कलोचना ज्ञेया सा च राजीवलोचना

3.61.65.7

सारस्वतं ते कथितं मयैतद्रूपं पवित्रं परमं मनोज्ञम् ॥
ध्येयं च कार्यं च महीपमुख्य सवार्थसिद्धिं समभीप्समानैः

3.61.65.64

इति विष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सरस्वतीरूपनिर्माणो नाम चतुःषष्टि तमोऽध्यायः

3.61.65.1

3.65
वज्र उवाच ॥
आचक्ष्व रूपनिर्माणं ममानन्तस्य देवज ॥
विष्णोरमितवीर्यस्य शेषस्य धरणीभृतः

3.61.65.2

मार्कंडेय उवाच ॥
कुर्याच्छशाङ्कसङ्काशं रत्नोज्ज्वलफणान्वितम्॥
नीलवस्त्रं चतुर्बाहुं सर्वाभरणधारिणम्

3.61.65.3

फणाश्च बहवः कार्या यत्फणं तस्य मध्यमम॥
तत्र रूपवती कार्या वसुधा यदुनन्दन

3.61.65.4

पद्मं समुसलं कार्यं देवदक्षिणहस्तयोः ॥
वामयोस्सीरशंखे च करे तस्य सुराम्बुधिः

3.61.65.5

तालवृक्षं जगत्सर्वं कथितं तु महाभुज ॥
विख्यातौ सीरमुसलौ पूर्वमेव मया तव

3.61.65.6

वनमाला च विख्याता तथा यदुकुलोद्वह ॥
पृथिवी धार्यते तेन सशैलवनकानना

3.61.65.7

पृथिवी तेन कर्तव्या फणे तस्य तु मध्यमे

3.61.65.8

फणावलिप्तस्य तया प्रतिष्ठा कामास्तु ते यादववंशमुख्य ॥
एतद्धि रूपं परमेश्वरस्य विष्णोरचिन्त्यस्य मयेरितं ते

3.61.65.65

इति श्रीविष्णुधमोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादेऽनन्तरूपनिरूपणो नाम पञ्चषष्टितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc