भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.56.60

3.56.60.1

अनुसारेण अग्नेः स्वरूपम्]]
3.56
मार्कण्डेय उवाच ॥
रक्तं जटाधरं वह्निं कुर्याद्वै ध्रूम्रवाससम् ॥
ज्वालामालाकुलं सौम्यं त्रिनेत्रं श्मश्रुधारिणम्

3.56.60.2

चतुर्बाहुं चतुर्दंष्ट्रं देवेशं वातसारथिम् ॥
चतुर्भिश्च शुकैर्युक्तं धूमचिह्नरथे स्थितम्

3.56.60.3

वामोत्सङ्गगता स्वाहा शक्रस्येव शची भवेत् ॥
रत्नपात्रकरा देवी वह्नेर्दक्षिणहस्तयोः

3.56.60.4

ज्वालात्रिशूलौ कर्तव्यौ चाक्षमाला तु वामके ॥
रक्तं हि तेजसो रूपं रक्तवर्णं ततः स्मृतम्

3.56.60.5

वातसारथिता तस्य प्रत्यक्षं धूम्रक्षेत्रता ॥
प्रत्यक्षा च तथा प्रोक्ता यागधूम्राभवस्त्रता

3.56.60.6

अक्षमालां त्रिशूलं च जटाजूटत्रिनेत्रता ॥
सर्वाभरणधारित्वं व्याख्यातं तस्य शम्भुना

3.56.60.7

ज्वालाकारं परं धाम हुतं तेन प्रतीच्छति ॥
गृहीत्वा सर्वदेवेभ्यो ततो नयति शत्रुहन्

3.56.60.8

वाग्दण्डमथ धिग्दण्डं धनदण्डं तथैव च ॥
चतुर्थं वधदण्डं च दंष्ट्रास्तस्य प्रकीर्तिताः

3.56.60.9

श्मश्रु तस्य विनिर्दिष्टं दर्भाः परमपावनम् ॥
ये वेदास्ते शुकास्तस्य रथयुक्ता महात्मनः

3.56.60.3.56.10

आग्नेयमेतत्तव रूपमुक्तं पापापहं सिद्धिकरं नराणाम् ॥
ध्येयं तवैतन्नृप होमकाले सर्वाग्निकर्मण्यपराजितेन

3.56.60.56

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० अग्निरूपनिर्माणो नाम षट्पञ्चाशत्तमोऽध्यायः

3.56.60.1

3.57
मार्कण्डेय उवाच ॥
विरूपाक्षो विवृत्ताक्षः प्रांशुदण्डोज्ज्वलाननः ॥
ऊर्ध्वकेशो हरिश्छमश्रुर्द्विबाहुर्भीषणाननः

3.56.60.2

वर्णेन रक्तकृष्णाङ्गः कृष्णाम्बरधरस्तथा ॥
सर्वाभरणधारी च दण्डरश्मिकरस्तथा

3.56.60.4

भार्या च तस्य कर्तव्या देवी निनृतितस्तथा ॥
कृष्णाङ्गी कृष्णवदना पाशहस्ता तु वामतः ॥ ३ ।
कालः प्रोक्तो विरूपाक्षो मृत्युर्हि निनृतिस्तथा ॥
बिभर्ति तामसं रूपं वासांसि च ततो नृप

3.56.60.9

मारणं तत्करे दण्डं बन्धनं चोष्ट्ररश्मयः ॥
महामोहस्तथैवोष्ट्रः कथितस्तस्य वामतः

3.56.60.9

वपुर्विरूपाक्षमिदं प्रदिष्टं रक्षोधिपस्याप्रतिमस्य तस्य ।
अतः परं वच्मि तवाद्य राजन्वायोस्तुरूपं परमस्य धाम्नः

3.56.60.57

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० विरूपाक्षरूपनिर्माणो नाम सप्तपञ्चाशत्तमोऽध्यायः

3.56.60.1

3.58
मार्कण्डेय उवाच ॥
वायुरम्बरवर्णस्तु तदाकारोम्बरो भवेत् ॥
वाय्वापूरितवस्त्रश्च द्विभुजो रूपसंयुतः

3.56.60.2

गमनेच्छा शिवा भार्या तस्य कार्या च वामतः ॥
कार्यो गृहीत वस्त्रान्तः कराभ्यां पवनो द्विज

3.56.60.3

तथैव देवी कर्तव्या शिवा परमसुन्दरी ॥
व्याधितास्यस्तथा कार्यो देवो व्याकुलमूर्धजः

3.56.60.4

वायुराश्रयतो धत्ते गन्धवर्णादिकं यतः ॥
तस्मादञ्जनवर्णस्तु गमनस्य समाश्रयात्

3.56.60.9

तदेव वसनं तस्य गगनं परिकीर्तितम् ॥
या गतिः सा शिवा देवी योऽनिरुद्धश्च सोऽनिलः

3.56.60.6

एतद्धि रूपं पवनस्य राजँस्तवोदितं स वै जगन्मयस्य ॥।
देव्याः शिवायाश्च महानुभाव परं पवित्रं विदितं द्विजानाम

3.56.60.58

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० वायुरूपनिर्माणोनामाष्टपञ्चाशत्तमोऽध्यायः

3.56.60.1

3.59
मार्कण्डेय उवाच
अथातो रूपनिर्माणं वच्म्यहं भैरवस्य ते ॥
लम्बोदरं तथा कुर्याद्वृत्तपिङ्गललोचनम्

3.56.60.2

दंष्ट्राकरालवदनं फुल्लनासापुटं तथा ॥
कपालमालिनं रौद्रं सर्वतः सर्पभूषणम्

3.56.60.3

व्यालेन त्रासयन्तं च देवीं पर्वतनन्दिनीम् ॥
सजलाम्बुदसंकाशं गजचर्मोत्तरच्छदम्

3.56.60.4

बाहुभिर्बहुभिव्याप्तं सर्वायुधविभूषणैः ॥
बृहत्सालप्रतीकाशैस्तथा तीक्ष्णनखैः शुभैः

3.56.60.5

साचीकृतमिदं रूपं भैरवस्य प्रकीर्तितम् ॥
महाकालस्य कथितमेतदेव च सन्मुखम्

3.56.60.6

देवी तु वामतः कार्या करे कार्यस्तु पन्नगः ।
न चास्य पुरतः कार्या देवी पर्वतनन्दिनी

3.56.60.7

शुक्ला न कार्या न तथास्य रक्ता समीपतो मातृगणप्रधाने ॥
कार्यस्त्वथान्यः परिबर्हमस्य गणाश्च कार्या बहुरूपरूपाः

3.56.60.59

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डयवज्रसंवादे भैरवरूपनिर्माणो नामैकोनषष्टितमोऽध्यायः

3.56.60.1

3.60
॥वज्र उवाच॥
विष्णुभूम्यम्बराणां त्वं ब्रह्मणश्च तथा विभो ॥
रूपनिर्माणमाचक्ष्व भृगुवंशविवर्धन

3.56.60.2

मार्कण्डेय उवाच ॥
एकवक्त्रो द्विबाहुश्च गदाचक्रधरः प्रभुः ॥
देहविन्यासमपरं प्रागुक्तं कीर्तितं हरेः

3.56.60.3

गान्धारी तु स्मृता मायी जगद्बन्धाय वैष्णवी ॥
गदा देवकरे नित्यं सर्वभूतवशङ्करी

3.56.60.4

सैव लक्ष्मीर्धृतिः कीर्तिः पुष्टिः श्रद्धा सरस्वती ॥
गायत्री वेदजननी कालरात्रिस्तथैव सा

3.56.60.5

संसारभ्रमणं चक्रं चक्रं विष्णुकरे स्थितम् ॥
धर्मचक्रं कालचक्रं भचकं च महाभुज

3.56.60.6

ध्रुवो हि विप्णुर्भगवान्प्रदिष्टचक्रं सदा भ्रामयते स वीरः ॥
एतेन कार्येण जगत्प्रधानः स चक्रहस्तो भगवान्प्रदिष्टः

3.56.60.60

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विष्णुरूपनिर्माणो नाम षष्टितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc