विष्णुधर्मोत्तरपुराणम् · अध्याय 3.51.55
3.51
मार्कण्डेय उवाच ॥
सजलाम्बुदसच्छायस्तप्तचामीकराम्बरः ॥
महिषस्थश्च कर्तव्यः सर्वाभरणवान्यतः
नीलोत्पलाभा धूमोर्णा वामोत्सङ्गे च कारयेत् ॥
धूमोर्णा द्विभुजा कार्या यमः कार्यश्चतुर्भुजः
दण्डखड्गावुभौ कार्यौ यमदक्षिणहस्तयोः ॥
दण्डोपरि मुखं कार्यं ज्वालमालाविभूषणम्
धूम्रोर्णापृष्ठगं वामं चर्मयुक्तं तथापरम् ॥
धूमोर्णादक्षिणं हस्तं यमपृष्ठगतं भवेत्
वामे तस्याः करे कार्यं मातुलुङ्गं सुदर्शनम् ॥
पार्श्वे तु दक्षिणे तस्य चित्रगुप्तं च कारयेत्
उद्दिश्य वेशं स्वाकारं द्विभुजं सौम्यदर्शनम् ॥
दक्षिणे लेखिनी तस्य वामे पत्रं तु कारयेत्
वामे पाशधरः कार्यः कालो विकटदर्शनः ॥
यमं सङ्कर्षणं विद्धि तामसीं तनुमाश्रितम्
मर्यादापालनार्थाय लोकसंहारकारणम् ॥
नीलोत्पलदलच्छायस्तामसत्वात्प्रकीर्तितः
वसनं तस्य विख्यातं वासुदेवेन शत्रुहन् ॥
चतुर्भुजत्वं विख्यातं ब्रह्मणा परमात्मनः
ब्रह्मणा तस्य निर्दिष्टं सर्वाभरणधारणम् ॥
यो मोहो मरणं नॄणां विज्ञेयो महिषस्तु सः
अमोघं तु करे दण्डं मृत्युं धारयते यमः ॥
अनिरुद्धेन तस्योक्तं धारणं खड्गचर्मणोः
कालरात्री तु विज्ञेया धूमोर्णा यदुनन्दन ॥
तस्यास्तु शूलिना प्रोक्तं बीजपूरकधारणम्
चित्रगुप्तो विनिर्दिष्टस्तथात्मा सर्वदेहगः ॥
पत्रं धर्ममधर्मं च करस्था तस्य लेखिनी
काल एव स्वरूपेण कालो यमसमीपगः ॥
तस्य पाशः करे घोरो यममार्गः सुदुष्करः
वज्र उवाच ॥
संहारहेतुकी मूर्तिर्विष्णोः सङ्कर्षणो मतः ॥
स तु देवस्त्वया प्रोक्तश्चन्द्रशुक्लवपुर्महान्
तल्पे संहारकर्तृत्वे कृष्णमूर्तिः कथं यमः ॥
एतं मे संशयं छिन्धि भृगुवंशविवर्धन
मार्कंडेय उवाच ॥
मूर्तिः साङ्कर्षिणी विष्णो रुद्रः संहारकारकः ॥
कल्पक्षये तु संहारे करोति जगतां हि सा
प्रकृतो याति धर्मज्ञ संहृतं तु तदा जगत ॥
तेन प्रकृतिवर्णस्थः करोति जगतां क्षयम्
कृत्वापि प्राणिसंहारं यमरूपी पुनःपुनः ॥
प्राणिनां प्रकृतौ योगं न विधत्ते कदाचन
विकारे योजयत्येव सुखदुःखात्मके तदा ॥
विकाररूपवर्णं तु तेन संहरते जगत्
रूपमिदं कथितं तव याम्यं पापविनाशकरं विबुधानाम् ॥
रूपमतः कथयामि महात्मंस्तोयपतेर्वरुणस्य तवाहम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे यमरूपनिर्माणो नामैकपञ्चाशत्तमोऽध्यायः
3.52
मार्कण्डेय उवाच ॥
सप्तहंसे रथे कार्यो वरुणो यादसाम्पतिः ॥
स्निग्धवैडूर्यसङ्काशः श्वेताम्बरधरस्तथा
किञ्चित्प्रलम्बजठरो मुक्ताहारविभूषणः ॥
सर्वाभरणवान्राजा तया देवश्चतुर्भुजः
वामभागगतं केतुं मकरस्य तु कारयेत् ॥
छत्रं च सुसितं मूर्ध्नि भार्या सर्वाङ्गसुन्दरी
वामोत्संगगताकार्या गौरी तद्द्विभुजा नृप ॥
उत्पलं तु करे वामे दक्षिणं देवपृष्ठगम्
पद्मपाशौ करे कार्यौ देवदक्षिणहस्तयोः ॥
शङ्खं च रत्नपात्रं च वामयोस्तस्य कारयेत्
भागे तु दक्षिणे गङ्गा मकरस्था सचामरा ॥
देवी पद्मकरा कार्या चन्द्रगौरी वरानना
वामे तु यमुना कार्या कूर्मसंस्था सचामरा ॥
नीलोत्पलकरा सौम्या नलिनीरजसन्निभा
स्निग्धवैडूर्य सङ्काशस्त्वापोवर्णो यतो नृप ॥
तयोरनुग्रहार्थाय तद्वर्णो वरुणस्ततः
स्वरूपवर्णाः सुसितास्ता एव द्विजपुंगव ॥
वसनं तस्य कथितं ता एव सुसितं नृप
वज्र उवाच ॥
अम्भसस्तु कथं वर्णः सत्यासत्ये त्वयेरिते ॥
एतत्तु श्रोतुमिच्छामि परं कौतूहलं हि मे
मार्कण्डेय उवाच ॥
वैडूर्याभमपां वर्णमतथ्यं यदुनन्दन ॥
छायागतस्य नभसस्तद्रूपं तासु दृश्यते
प्रपातपातैर्यद्रूपमंभसां नृप दृश्यते ॥
शशाङ्कांशुप्रतीकाशं तत्स्वरूपे प्रतिष्ठितम्
प्रद्युम्नो वासुदेवस्तु वरुणो यादसां पतिः ॥
तस्य भार्या रतिर्ज्ञेया गौरी यादवनन्दन
सौभाग्यमुत्पलं तस्याः करे सुरतगं विभो ॥
वरुणस्य करे पद्मं विधिधर्मे महाभुज
शङ्खमर्थं विजानीहि पाशं संसारबन्धनम् ॥
रत्नपात्रं करे ज्ञेयं सर्वरत्नधरा धरा
यशश्च सुसितं छत्रं सौख्यं मकर एव च ॥
ब्रह्मणा कथितं तस्य भुजाभरणधारणम्
लवणक्षीरआज्यादि दधिमण्डसुरोदकाः ॥
तथैवेक्षुरसोदश्च सुरोदश्च तथापरः । १७ ॥
समुद्रास्ते तु विख्याता लोके नरवरोत्तम ॥
सप्तहंसा रथे तस्य वरुणस्य महात्मनः
जाया तु यमुना ज्ञेया सिद्धिर्भागीरथी द्विज ॥
वीर्यकालौ विनिर्दिष्टौ तथा मकरकच्छपौ
स्वर्गगङ्गाकरे पद्मं वृद्धयामुनमुत्पलम्
रूपं जलेशस्य तवैतदुक्तं मया शिरःपाशधरस्य तस्य ॥
अतः परं वित्तपतेर्ब्रवीमि रूपं तवाहं यदुवंशचन्द्र
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वरुणरूपनिर्माणो नाम द्विपञ्चाशत्तमोध्यायः
3.53
मार्कण्डेय उवाच ॥
कर्तव्यः पद्मपत्राभो धनदो नरवाहनः ॥
चामीकराभो धनदः सर्वाभरणभूषणः
लम्बोदरश्चतुर्बाहुर्वामपिङ्गललोचनः ॥
अपीच्यवेशः कवची हारभारार्पितोदरः
द्वे च दंष्ट्रे मुखे तस्य कर्तव्ये श्मश्रुधारिणः ॥
वामेन विनता कार्या मौलिस्तस्यारिमर्दिनी
वामोत्संगगता कार्या ऋद्धिर्देवी वरप्रदा ॥
देवपृष्ठगतं पाणिं द्विभुजायास्तु दक्षिणम्
रत्नपात्रकरं कार्यं वामं रिपुनिषूदन ॥
गदाशक्ती च कर्तव्ये तस्य दक्षिणहस्तयोः
सिंहाङ्कलक्षणं वृत्तं शिबिकामपि पादयोः ॥
शङ्खपद्मौ निधी कार्यौ स्वरूपौ निधिसंस्थितौ
शङ्खपद्मान्तनिष्क्रान्तं वदनं तस्य पार्श्वतः ॥
अनिरुद्धस्तु विज्ञेयस्त्वया देवो धनाधिपः ॥
ब्रह्मणा कथितं तस्य सर्वाभरणसाधनम ॥
सुवर्णं नाम विख्यातं धनानामुत्तमं धनम् ॥
तस्यानुग्रहतो धत्ते वासः कनकसन्निभम् ॥
शक्तिरेव स्मृता शक्तिर्दण्डनीतिस्तथा गदा
लोकयात्रा च कथिता ऋद्धिर्ज्ञेया स्वभावतः
तत्करे रत्नपात्रं तु गुणाधारं प्रचक्षते
नरं राज्यं विजानीहि यत्रस्थस्तु सदा विभुः ॥
स्वरूपतस्तु विज्ञेयौ शङ्खपद्मौ तथा निधी
वित्ततोंशो जयत्यस्मिंस्ताभ्यां प्रसवतेऽयुतः ॥
अर्थः सक्षमया ज्ञेयः केतुः सिंहाङ्कलक्षणः ॥
निग्रहानुग्रहे दंष्ट्रे तस्य तात महात्मनः
यक्षाधिपस्येतदनन्तदंष्ट्रं नामे वने यक्षनदस्य राजन् ॥
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वैश्रवणरूपनिर्माणो नाम त्रिपञ्चाशत्तमोऽध्यायः
3.54
वज्र उवाच ॥
सुपर्णस्य च तालस्य मकरस्य मृगस्य च॥
मरुतां रूपनिर्माणं श्रोतुमिच्छामि भार्गव
मार्कण्डेय उवाच ॥
तार्क्ष्यो मारकतप्रख्यः कौशिकाकारनासिकः ॥
चतुर्भुजस्तु कर्तव्यो वृत्तनेत्रमुखस्ततः
गृध्रोरुजानुचरणः पक्षद्व्यविभूषणः
प्रभासंस्थानर्सौवर्णः कलापेन विवर्जितः॥
छत्रं च पूर्णकुम्भं च करयोस्तस्य कारयेत्
करद्वये तु कर्तव्यं तथास्य रचिताञ्जलिः ॥
तथास्य भगवान्पृष्ठे छत्रकुम्भधरौ करौ
न कर्तव्यौ तु कर्तव्यौ देवपादवरावुभौ ॥
किञ्चिल्लम्बोदरः कार्यः सर्वाभरणभूषितः
तालस्तालाकृतिः कार्यो मकरो मकराकृतिः ॥
उपरिष्टात्तथैवास्य कार्यो ऋग्यवदच्युतः
मनो जगत्तथा कामं कर्म चैते क्रमात्स्मृताः ॥
वासुदेवोच्युतश्चैव प्रद्युम्नश्च महाभुजः ॥
तथा चैवानिरुद्धश्च क्रमेणैते प्रकीर्तिताः
तार्क्ष्यः सतालो मकरस्तथार्च्यो देवेश कीनाशजलार्थनाथः ॥
अग्न्यर्कतोयाधिपपत्रिनाथस्त एव लोकेषु बुधैः प्रदिष्टाः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गरुडरूपनिर्माणो नाम चतुःपञ्चाशत्तमोऽध्यायः
3.55
वज्र उवाच ॥
शिवस्य रूपनिर्माणं वह्नेर्वै निरृतेस्तथा ॥
वायोश्च ब्रूहि धर्मज्ञ तत्र मे संशयो महान्
मार्कंडेय उवाच ॥
वामार्धे पार्वती कार्या शिवः कार्यश्चतुर्भुजः॥
अक्षमालां त्रिशूलं च तस्य दक्षिणहस्तयोः
दर्पणेन्दीवरौ कार्यौ वामयोर्यदुनन्दन ॥
एकवक्त्रो भवेच्छम्भुर्वामा च दयिता तनुः
द्विनेत्रश्च महाभाग सर्वाभरणभूषितः ॥
अभेदभिन्ना प्रकृतिः पुरुषेण महाभुज
गौरीशर्वेति विख्याता सर्वलोकनमस्कृता ॥
कारणं कथितं पूर्वं शूलादीनां मया तव
ईशानरूपं कथितं तवेदं रूपं तथाग्नेः शृणु धर्मनित्यम् ॥
वेदा यदर्थं जगति प्रवृत्ता मुखं च यत्सर्वसुराऽसुराणाम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गौरीशर्ववर्णनो नाम पञ्चपञ्चाशत्तमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0