विष्णुधर्मोत्तरपुराणम् · अध्याय 3.46.50
3.46
॥ वज्र उवाच ॥ ॥
रूपगन्धरसैर्हीनः शब्दस्पर्शविवर्जितः ॥
पुरुषस्तु त्वया प्रोक्तस्तस्य रूपमिदं कथम्
मार्कण्डेय उवाच ॥
प्रकृतिर्विकृतिस्तस्य रूपेण परमात्मनः ॥
अलक्ष्यं तस्य तद्रूपं प्रकृतिस्सा प्रकीर्तिता ॥
साकारा विकृतिर्ज्ञेया तस्य सर्वं जगत्स्मृतम् ॥
पूजाध्यानादिकं कर्तुं साकारस्यैव शक्यते
स्वतस्तु देवस्याकारः पूजनीयो यथाविधि ॥
अव्यक्ता हि गतिर्दुखं देहभृद्भिरवाप्यते
अतो भगवतानेन स्वेच्छया तत्प्रदर्शितम् ॥
प्रादुर्भावेष्वथाकारं तं दिशन्ति दिवौकसः
एतस्मात्कारणात्पूजा साकारस्य विधीयते ॥
हेतुमच्च तदाकारं तन्मे निगदतः शृणु
अरुणं रजसा वर्णं तेन पद्माग्रसन्निभः ॥
ब्रह्मा देववरो ज्ञेयस्सर्वभूतनमस्कृतः
ऋग्वेदः पूर्ववदनं यजुर्वेदस्तु दक्षिणम् ॥
पश्चिमं सामवेदः स्यादाथर्वणमथोत्तरम्
ये वेदास्ते मुखा ज्ञेयाश्चतस्रो बाहवो दिशः ॥
आप एव जगत्सर्वं स्थावरं जङ्गमं तथा
ताश्च धारयते ब्रह्मा तेन हस्ते कमण्डलुः ॥
अक्षमाला विनिर्दिष्टा कालस्तु ब्रह्मणः करे
कलनात्सर्वभूतानां काल इत्यभिधीयते ॥
यज्ञो विस्तीर्यते सर्वः शुक्लाशुक्लेन कर्मणा
शुक्लाशुक्लमतो ज्ञेयं वासः कृष्णाजिनं विभोः ॥
भूलोकश्च भुवो लोकः स्वलोकोऽथ महत्तथा
जनस्तपश्च सत्यं च सप्तलोकाः प्रकीर्तिताः ॥
ये लोकास्ते रथे हंसा ब्रह्मणः परमेष्ठिनः
विष्णुनाभौ समुत्पन्नं यत्पद्मं सा महीभुजः ॥
मेरुस्तु कर्णिका तस्य विज्ञेया गजसत्तम
सर्वत्र पार्थिव स्थैर्यं ध्यानबन्धमतः स्थितम् ॥
पद्मासनेन भगवान्विधत्ते पार्थिवेन तु
आत्मनः परमं धाम रूपहीन विचिन्तयेत् ॥
दृष्ट्यर्थं जगतामास्ते ध्यानसम्मीलितेक्षणः
तथैवोषधयो राजञ्जगद्धारणकारणाः ॥
ब्रह्मणस्ता जटा ज्ञेयाः सर्वगस्य महात्मनः
प्रकाशकानि लोकस्य विद्यास्थानानि यानि च॥
तस्याभरणजातानि ज्ञेयानि परमेष्ठिनः
एतद्धि तस्याप्रतिमस्य रूपं तवेरितं सर्वजगन्मयस्य ॥
एवं शरीरेण जगत्समग्रं सन्धारयत्येव जगत्प्रधानः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० सं० ब्रह्मरूपनिर्माणो नाम षट्चत्वारिंशत्तमोऽध्यायः
3.47
मार्कण्डेय उवाच॥
परस्य पुरुषस्यैषा संसारे विकृतिर्मता ॥
सर्वा च विकृतिः कृष्णा तेन संसारपालनम्
कृष्णरूपं स भगवान्विधत्ते भूतभावनः ॥
ब्रह्मणैव हरेः प्रोक्तं सर्वाभरणधारणम्
बिभर्ति वक्षसा ज्ञानं कौस्तुभं विमलं हरिः ॥
कृष्णा दीर्घा विचित्रा च वनमाला प्रकीर्तिता
यथा सर्वमिदं बद्धं जगद्राजंश्चराचरम् ॥
अविद्या वसनं तस्य संसारपरिपालिनी
विद्या शुक्ला विनिर्दिष्टा कृष्णमज्ञानमुच्यते ॥
अज्ञानविद्या मध्यस्था त्वविद्या परिकीर्तिता
न कृष्णा न तथा शुक्ला तेन विद्येयमुत्तमा ॥
अन्तरालं बिभर्त्येव सुवर्णकनकोपमम्
मनस्तु गरुडो ज्ञेयः सर्वभूतशरीरगम् ॥
तस्माच्छीघ्रतरं नास्ति तथैव बलवत्तरम्
दिशश्चतस्रो धर्मज्ञ तावत्यो विदिशस्तथा ॥
बाहवोऽष्टौ विनिर्दिष्टास्तस्य देवस्य शार्ङ्गिणः ॥ ८. ॥
बलं ज्ञानं तथैश्वर्यं शक्तिश्च यदुनन्दन ॥
विज्ञेयं देवदेवस्य तस्य वक्त्रचतुष्टयम्
वासुदेवश्च भगवांस्तथा सङ्कर्षणः प्रभुः ॥
प्रद्युम्नश्चानिरुद्धश्च बलाद्याः परिकीर्तिताः
द्वौद्वौ भुजौ तु विज्ञेयौ प्रतिवक्त्रं महात्मनः ॥
वासुदेवस्य करयोर्ज्ञातव्यौ सूर्यरात्रिपौ
सङ्कर्षणस्य कारयोस्तथा मुसललाङ्गले ॥
प्रद्युम्नस्य तथा ज्ञेयौ चापबाणौ महाभुज
आनिरुद्धम्य विज्ञेयो चर्मखङ्गौ विचक्षणैः ॥
पुरुषप्रकृती ज्ञेयौ सूर्याचन्द्रमसावुभौ
एते च वासुदेवस्य करे चक्रगदे मते ॥
कालं च लाङ्गलं विद्धि मृत्युं च मुसलं तथा
ताभ्यां संकर्षणो रुद्रः कर्षतीदं चराचरम्॥
प्रद्युम्नस्य करे वह्नेः शार्ङ्गं चापं तु यत्स्मृतम्
ध्येयं तु परमं लक्ष्यं ताभ्यां छिन्दन्ति योगिनः ॥
ब्रह्मणस्त्वनिरुद्धस्य करे चर्म महाभुज
अज्ञानावरणं जेयं जगत्सृष्टिप्रयोजनम् ॥
वैराग्यं नन्दकं खङ्गं छित्त्वा वै तेन बन्धनम् ॥
नदन्ति योगिनो यस्मात्तस्मात्तन्नन्दकं स्मृतम्
एतद्धि तस्याप्रतिमस्य रूपं तवेरितं सर्वजगन्मयस्य ॥
एवं शरीरेण जगत्समग्रं बिभर्ति देवः स जगत्प्रधानः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विष्णुरूपनिर्माणो नाम सप्तचत्वारिंशत्तमोऽध्यायः
3.48
॥ मार्कण्डेय उवाच ॥
सद्योजातं वामदेवमघोरं च महाभुज ॥
तथा तं पुरुषं ज्ञेयमीशानं पञ्चमं मुखम्
सद्योजातं मही प्रोक्ता वामदेवं तथा जलम् ॥
तेजस्त्वघोरं विद्यात्तं वायुस्तत्पुरुषं मतम्
ईशानं च तथाकाशमूर्द्ध्वस्थं पञ्चमं मुखम् ॥
विभागेनाथ वक्ष्यामि शम्भोर्वदनपञ्चकम्
महादेवमुखं जेयं पूर्वं शम्भोर्महात्मनः ॥
नेत्राणि त्रीणि तस्याङ्ग सोमसूर्यहुताशनाः
दक्षिणं तु मुखं रौद्रं भैरवं तत्प्रकीर्तितम ॥
पश्चिमं यन्मुखं तस्य नन्दिवक्त्रं तदुच्यते
उमा वक्त्रं च विज्ञेयं तस्य देवस्य चोत्तरम् ॥
सदाशिवाख्यं विज्ञेयं पावनं तस्य पञ्चमम्
त्रिलोचनानि सर्वाणि वामदेवं द्विलोचनम् ॥
महादेवमुखं भूमिस्ततः स्याद्भैरवं मुखम्
नन्दिवक्त्रं तथा वायु रौद्रेयं चाप उच्यते ॥
सदाशिवमुखं ज्ञेयमाकाशं यदुनन्दन
दिशो दश भुजास्तस्य विज्ञेयं वदनं प्रति ॥
महादेवकरे ज्ञेया त्वक्षमालाकमण्डलू
सदाशिवमुखे ज्ञेयौ चापबाणौ महाभुज ॥
माहेश्वरं ततश्चापं पिनाकमिति शब्दितम्
तेषां तु पूर्वमेवोक्तं व्याख्यानं रिपुसूदन ॥
दण्डश्च मातुलुङ्गश्च करयोर्भैरवस्य तु
मृत्यु दण्डौ विनिर्दिष्टौ मातुलुङ्गस्तथा करे ॥
जगद्बीजस्य सर्वस्य ये राजन्परमाणवः
तैः पूर्णं बीजरत्नं तु भैरवस्य करे स्मृतम् ॥
चर्मशूले करे ज्ञेये नन्दिनो यदुनन्दन
पूर्वमेव च ते प्रोक्तं धर्मव्याकरणं मया ॥
त्रिशलूदण्डमव्यक्तं शूलेषु व्यक्ततां गतम्
सत्त्वं रजस्तमश्चैव विज्ञातव्यं नृपोत्तम ॥
दर्पणेन्दीवरे ज्ञेये तथा देव्याः करद्वये
आदर्शं निर्मलं ज्ञानं वैराग्यं च तथोत्पलम् ॥
महादेवस्य देवस्य व्याख्याता ब्राह्मणा जटाः
ऐश्वर्यं तु कला चान्द्री मूर्ध्नि शम्भोः प्रकीर्तिता ॥
त्रैलोक्यशमनः क्रोधो वासुकिर्नामतः स्मृतः
तृष्णा विशाला चित्रा च व्याघ्रचर्म प्रकीर्तितम् ॥
वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः
जगदुत्पादकं वस्तु प्रकृतिः सा प्रकीर्तिता ॥
शुक्ला च प्रकृतिः सर्वा तेन शुक्लो महेश्वरः
एतद्धि तस्याप्रतिमस्य रूपं तवेरितं सर्वजगन्मयस्य ॥
एवं शरीरेण जगत्समग्रं स धारयत्येव जगत्प्रधानः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महादेवरूपनिर्माणो नामाष्टाचत्वारिंशत्तमोऽध्यायः
3.49
वज्र उवाच ॥
नासत्ययोर्ममाचक्ष्व रूपनिर्माणमच्युत ॥
नासत्यरूपयोश्चैव त्वं हि सर्वविदुच्यसे
मार्कण्डेय उवाच ॥
पद्मपत्रसवर्णाभौ पद्मपत्रसमाम्बरौ ॥
द्विभुजौ देवभिषजौ कर्तव्यौ देवसंयुतौ ॥२।
सर्वाभरणसंपन्नौ विशेषाच्चारुलोचनौ ॥
तयोरोषधयः कार्या दिव्या दक्षिणहस्तयोः
वामयोः पुस्तकौ कार्यौ दर्शनीयौ तथा द्विज ॥
एकस्य दक्षिणे पार्श्वे वामे चान्यस्य यादव
नारीयुगं तु कर्तव्यं सुरूपं चारुदर्शनम् ॥
तयोश्च नामनी प्रोक्ते रूपसंपत्तथाकृतिः
मधूकपुष्पसंकाशा रूपसंपत्प्रकीर्तिता॥
प्राकृतिः कथिता लोके शरकाण्डनिभा तथा ॥
न तु भाण्डकरे कार्ये चन्द्रशुक्लाम्बरे तथा
नासत्ययो रूपमिदं तवोक्तं मयाद्य मुख्यं यदुवंशमुख्य ॥
ध्यानेन सर्वामयनाशकारि सम्पूजितं वा भुवि मानवानाम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नासत्यरूपनिर्माणो नामैकोनपञ्चाशत्तमोऽध्यायः
3.50
वज्र उवाच॥
शक्रकीनाशवरुणधनदानां भृगूत्तम ॥
सहेतुकं समाचक्ष्व रूपनिर्माणमच्युत
मार्कण्डेय उवाच ॥
चतुर्दन्ते गजे शक्रः श्वेतः कार्यः सुरेश्वरः ॥
वामोत्सङ्गगता कार्या रक्षमाणा तथा शची
नीलवस्त्रः सुवर्णाभः सर्वाभरणवाँन्तथा ॥
तिर्यग्ललाटगेनाक्ष्णा कर्तव्यश्च विभूषितः
शक्रश्चतुर्भुजः कार्यो द्विभुजा च तथा शची ॥
पद्माङ्कुशौ तु कर्तव्यौ शक्रदक्षिणहस्तयोः
वामं शचीपृष्ठगतं द्वितीयं वज्रसंयुतम् ॥
वामे शच्याः करे कार्या रम्या सन्तानमञ्जरी
दक्षिणं पृष्ठविन्यस्तं देवनाथस्य कारयेत् ॥
ब्रह्मणैव विनिर्दिष्टं तस्याभरणधारणम्
तेनैव तस्य कथितं तथा बाहुचतुष्टयम् ॥
त्रिनेत्रता च तस्योक्ता देवदेवेन शम्भुना
रुक्माभवर्णता तस्य तेजसां धामकारणात् ॥
यन्नीलं वसनं तस्य तदाकाशं प्रकीर्तितम्
आज्ञा तस्याङ्कुशो हस्ते सर्वभूतवशङ्गरी ॥
पद्मस्थां सहपद्मेन विभूतिं भुवनाधिप
करेण धारयञ्छ्रीमान्मघवान्सुरसत्तमः ॥
दुष्टसंशमनं क्रोधो वज्रः शक्रकरः स्मृतः
वासुदेवः स्मृतः शक्रस्तेन लक्ष्मीः शची मता ॥
तस्याः करे च सन्तानं ज्ञेया सन्तानमञ्जरी
अर्थस्त्वैरावणो ज्ञेयो दन्तास्तस्य तु कीर्तिताः ॥
दैवमन्त्रप्रभूत्साहशक्तयस्तु महाबलाः ॥ १२ ।
एतद्रूपं वासुदेवस्य शाक्रं तुभ्यं प्रोक्तं देवराजस्य राजन् ॥
याम्यं रूपं तेऽधुनाहं ब्रवीमि यस्यायत्ते सुख दुःखे नराणाम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसम्वादे शक्ररूपनिर्माणो नाम पञ्चाशत्तमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0