विष्णुधर्मोत्तरपुराणम् · अध्याय 3.41.45
3.41
मार्कण्डेय उवाच ॥
सत्यं च वैणिकं चैव नागरं मिश्रमेव च ॥
चित्रं चतुर्विधं प्रोक्तं तस्य वक्ष्यामि लक्षणम्
यत्किञ्चिल्लोकसादृश्यं चित्रं तत्सत्यमुच्यते ॥
दीर्घाङ्गे सप्रमाणं च सुकुमारं सुभूमिकम
चतुरस्रं सुसम्पूर्णं न दीर्घं नोल्बणाकृतिम्॥
प्रमाणं स्थानलम्भाढ्यं वैणिकं तन्निगद्यते
दृढोपचितसर्वाङ्गं वर्तुलं नद्यनोल्बणम ॥
चित्रं तं नागरं ज्ञेयं स्वल्पमाल्यविभूषणम्
चित्रमिश्रं समाख्यातं समासान्मनुजोत्तम ॥
तिस्रश्च वर्तनाः प्रोक्ताः पत्राहैविकबिन्दुजाः
पत्राकृतिभी रेखाभिः कथितात्र च वर्तना ॥
अतीव कथिता सूक्ष्मा तथाहैरिकवर्तना
तथा च स्तम्भनायुक्ता कथिता बिन्दुवर्तना ॥
दौर्बल्यबिंदुरेखत्वमविभक्तत्वमेव च
बृहदण्डौष्ठनेत्रत्वमविरुद्धत्वमेव च ॥
मानवाकारता चेति चित्रशेषाः प्रकीर्तिताः
स्थानप्रमाणभूलम्बो मधुरत्वं विभक्तता ॥
सादृश्यं पक्षवृद्धिश्च गुणाश्चित्रस्य कीर्तिताः ॥ ९ ।
रेखा च वर्तना चैव भूषणं वर्णमेव च ॥
विज्ञेया मनुजश्रेष्ठ चित्रकर्मसु भूषणम्
रेखां प्रशंसन्त्याचार्या वर्तनां च विचक्षणाः ॥
स्त्रियो भूषणमिच्छन्ति वर्णाढ्यमितरे जनाः
इति मत्वा तथा यत्नः कर्तव्यश्चित्रकर्मणि ॥
सर्वस्य चित्तग्रहणं यथा स्यान्मनुजोत्तम
दुरासनं दुरानीतं पिपासा चान्यचित्तता ॥
एते चित्रविनाशस्य हेतवः परिकीर्तिताः
स्वानुलिप्तावकाशा च निदेशं मधुका शुभा ॥
सुप्रसन्नाभिगुप्ता च भूमिः स्याच्चित्रकर्मणि
सुस्निग्धविस्पष्टसुवर्णरेखं विद्वान्यथादेशविशेषवेशम् ॥
प्रमाणशोभाभिरहीयमान कृतं भवेच्चित्रमतीव चित्रम्
इति श्रीविष्णुधर्मोत्तरे तृ० मा० सं० वर्तनो नामैकचत्वारिंशत्तमोऽध्यायः
3.42
मार्कण्डेय उवाच ॥
यथा देवस्तथा चित्रे कर्तव्यः पृथिवीश्वर ॥
एकैकं रूपके लोम कर्तव्यं पृथिवीक्षिताम्
ऋषयश्च सगन्धर्वा दैत्याश्च सह दानवाः ॥
मन्त्रिणश्च महाराज संवत्सरपुरोहितौ
कार्या भद्रप्रमाणेन ब्राह्मणाश्च नरेश्वर ॥
ऋषयस्तत्र कर्तव्या जटाजूटोपशोभिताः
कृष्णाजिनोत्तरासङ्गा दुर्बलास्तेजसा युताः ॥
देवताश्चापि गन्धर्वा मुकुटेन विवर्जिताः
कर्तव्यास्ते महाराज शिखरैरुपशोभिताः ॥
ब्रह्मवर्चस्विनो विप्राः शुक्लाम्बरधरास्तथा
मन्त्रिणश्च महाराज सांवत्सरपुरोहितौ ॥
सर्वालङ्कारसंयुक्तानेवोल्बणविभूषणान्
मुकुटेन विहीनांस्तु सोष्णीषान्कारयेच्च तान् ॥
दैत्याश्च दानवाश्चैव कर्तव्या भ्रुकुटीमुखाः ॥ ऽ७ ॥
वर्तुलाक्षास्तथा कार्या भीमवक्त्रास्तथैव च ॥
तेषामभ्युद्धतो वेषः कर्तव्यः पृथिवीपते
रुद्रप्रमाणाः कर्तव्यास्तथा विद्याधरा नृप ॥
सपत्नीकाश्च ते कार्या माल्यालङ्कारधारिणः
खड्गहस्ताश्च ते कार्या गगने वाथ वा भुवि ॥
मालव्यपरिमाणेन किन्नरोरगराक्षसाः
रुचकस्य प्रमाणेन यक्षाः कार्या नराधिप ॥
शशकस्य प्रमाणेन प्रधानं मानवं लिखेत्
पिशाचा वामनाः कुब्जाः प्रमथाश्च महीभुजः ॥
मानन्नियमतः कार्यं रूपन्नियमतस्तथा
स्वानुरूपप्रमाणाश्च सर्वेषां योषितः स्मृताः॥
किन्नरा द्विविधाः प्रोक्ता नृवक्त्रा हयविग्रहाः
नृदेहाश्चाश्ववक्त्राश्च तथान्ये परिकीर्तिताः ॥
अश्ववक्त्रास्तु कर्तव्याः सर्वालङ्कारधारिणः
गीतवाद्यसमायुक्ता द्युतिमन्तस्तथैव च ॥
उत्कचा राक्षसाः कार्या विकलाक्षा विभीषणाः
देवकाराश्च कर्तव्या नागाः फणविराजिताः ॥
सालंकारा स्मृताः सर्वे यक्षास्तेऽभिहिता मया
सुराणां प्रमथाः कार्याः प्रमाणेन विवर्जिताः ॥
पिशाचाश्च तथा कार्या प्रमाणेन विवर्जिताः
नानासत्त्वमुखाः कार्या देवतानां तथा गणाः ॥
नानावेशा महाराज नानायुधधरास्तथा
नानाक्रीडाप्रसक्ताश्च नानाकर्मकरास्तथा ॥
एकरूपास्तु कर्तव्या वैष्णवानां तथा गणाः
तत्रापि तेषां कर्तव्या भेदाश्चत्वार एव च ॥
वासुदेवसमाः कार्या वासुदेवगणाः शुभाः
संकर्षणेन सदृशास्तद्गणाश्च तथा स्मृताः ॥
प्रद्युम्नेनानिरुद्धेन तद्गणाः सदृशास्तथा
तत्प्रभावाः स्मृताः सर्वे तदायुधधरास्तथा ॥
नीलोत्पलदलश्यामाश्चन्द्रशुभ्रास्तथैव च
तथा मरकताकारा सिन्दूरसदृशप्रभाः ॥
रुचकस्य तु मानेन वेश्याः कार्यास्तथा स्त्रियः
वेश्यानामुद्धतं वेशं कार्यं शृङ्गारसम्मतम् ॥
मालव्यामानतः कार्या लज्जावत्यः कुलस्त्रियः
नात्युन्नतेन वेशेन सालंकारास्तथैव च ॥
दैत्यदानवयक्षाणां राक्षसानां तथैव च
रूपवत्यस्तथा कार्याः पतयो मनुजसत्तम ॥
मातरः स्वेन रूपेण तथा कार्या नराधिप
पिशाचानां च पत्न्योऽपि कार्यास्तद्रूपसंयुता ॥
विभर्तृकास्तु कर्तव्या स्त्रियः पलितसंयुताः
शुक्लवस्त्रपरीधानाः सर्वालङ्कारवर्जिताः ॥
कुब्जा वामनिका वृद्धा तथा रूपवती भवेत्
राजस्त्रीणां परीवारे वृद्धः स्यात्कञ्चुकी पुनः ॥
रुचकस्य तु मानेन वैश्यमानं विधीयते
शशकस्य तु मानेन शूद्रमानं तथैव च ॥
यथा जात्यनुरूपेण वेषेण मनुजेश्वर
दैत्यादियोषितां कार्याः परिचारस्त्रियः सदा ॥
महाशिरा महोरस्को महानासो महाहनुः
पीत स्कन्धभुजग्रीवः परिमाणेन चोच्छ्रितः ॥
त्रितरङ्गललाटश्च व्योमदृष्टिर्महाकटिः
दृप्तश्चित्रविदा कार्यः सेनायाः पतिरूर्जितः ॥ ।
योधाः कार्या महाराज प्रायशो भ्रुकुटीमुखाः
किंचिदुद्धतवेगाश्च कार्याश्चोद्धतदर्शनाः ॥
अभ्युद्गताश्च कर्तव्या आयुधीयाः पदातयः
खड्गचर्मधराः कार्याः कर्णाटकवपुर्धराः ॥
वरबाणधराः कार्या नग्नजङ्घाश्च धन्विनः
नात्युद्धतेन वेषेण सोपानत्कास्तथैव ते ॥
यथोक्तलक्षणाः कार्याः कुञ्जरास्तुरगादयः
हस्त्यारोहास्तु कर्तव्या मुहुः श्यामास्तु वर्णतः ॥
केशैश्च जूटटमरैः सालंकारास्तथैव च।
उदीच्यवेशाः कर्तव्यास्तुरगाणां तु सादिनः ॥
उद्धतेन तु वेषेण कर्तव्या बन्दिनस्तथा
सिरादर्शितकण्ठाश्च तथैवोन्मुखदृष्टयः ॥
आह्वानकास्तु कर्तव्याः कपिलाः केकरेक्षणाः
किंचिद्दानवसङ्काशाः प्रायशो दण्डपाणयः ॥
न केकरान्न कपिलान्युद्धे द्वंद्वान्समालिखेत्
नात्युन्नतेन वेषेण न च शान्तेन शस्यते ॥
पार्श्वबद्धेन खड्गेन प्रतीहारस्तु दण्डवान्
संवेष्टितशिरस्काश्च कर्तव्या वणिजस्तथा ॥
गायना नर्तका ये वा वाद्यवादविशुद्धये
उद्धतेन तु वेषेण कार्यास्ते मनुजोत्तम ॥
आसन्नपलिता कार्याः स्वभूषणविभूषिताः
पौरजानपदाः श्रेष्ठाः शुभवस्त्रविभूषणाः ॥
प्रसृतप्रवणाः प्रह्वाः स्वभावप्रियदर्शिनः
।
स्वकर्मोपस्करव्यग्रः कार्यः कर्मकरो जनः॥
प्रांशवः पीनगात्राश्च पीनग्रीवशिरोधराः
उग्राश्च नीचकेशाश्च मल्लाः कार्यास्तथोद्धताः ॥
वृषाः केसरिणश्चैव याश्चान्याः सत्त्वजातयः
यथाभूमिनिवेशास्ते लोकं दृष्ट्वा नराधिप ॥
एतद्रूपसमुद्देशमदृष्टानां तवेरितम् ॥ ४७ ।
दृष्टं सुसदृशं कार्यं सर्वेषामविशेषतः ॥
चित्रे सादृश्यकरणं प्रधानं परिकीर्तितम्
बुद्ध्या रूपं यथावेशं वर्णं च मनुजोत्तम ॥
देशेदेशे नराः कार्या यथावत्तत्समुद्भवाः
देशं नियोगं स्थानं च कर्म बुद्ध्वा च यत्नतः ॥
आसनं शयनं यानं वेशं कार्यं नराधिप
सरितां सशरीराणां वाहनानि प्रदर्शयेत् ॥
पूर्णकुम्भकराः कार्यास्तथा नामितजानवः
शैलानां शिखरं मूर्ध्नि दर्शयेन्मनुजोत्तम ॥
द्वीपानां च करैः कार्यं तथा भूमण्डलं शुभम्
. .. ... ..........राजंस्तथा शिखरपाणयः ॥
रत्नपात्रकराः कार्याः सागरा मनुजोत्तम
समुद्राणां प्रभास्थाने सलिलं तु प्रदर्शयेत् ॥
आयुधानां च तच्चिह्नं किञ्चिन्मूर्धनि दर्शयेत्
निधीनां दर्शयेत्कुम्भं शंखं शंखस्य दर्शयेत् ॥
पद्मं पद्मस्य राजेन्द्र शेषाणामनुरूपतः
कार्यस्यावयवाः कार्याः स्वद्देहसदृशाः पृथक् ॥
दिव्यानां दर्शयेच्चिह्नमक्षमालां च पुस्तकम्
अतः परं प्रवक्ष्यामि रूपं यद्यस्य दृश्यते ॥
आकाशं दशर्येद्विद्वान्विवर्णं खगमाकुलम्
तथैव दर्शयेद्राजंस्तारकामण्डितं दिवम् ।
भूमिं च जाङ्गलानूपमिश्रां स्वैःस्वैस्तथा गुणैः
पर्वतं तु शिलाजालैः शिखरैर्धातुभिर्द्रुमैः ॥
निर्झरैर्भुजगैश्चैव दर्शयेन्नृपसत्तम
वनं नानाविधैर्वृक्षैर्विहङ्गैः श्वापदैस्तथा ॥
तोयं च दर्शयेद्विद्वाननन्तैर्मत्स्यकच्छपैः
पद्माक्षैश्च महाराज तथान्यैर्जलजैर्गुणैः ॥
देवतावेश्मभिश्चित्रैः प्रासादापणवेश्मभिः
नगरं दर्शयेद्विद्वान् राजमार्गैश्च शोभनैः ॥
वमत्या दर्शयेद्ग्रामं किञ्चिदुद्यानभूषितम्
सर्वेषामथ दुर्गाणां कर्तव्यं दर्शनं तथा ॥
स्वभूमिविनिवेशेन वप्राट्टालकपर्वतैः
पण्ययुक्तास्तु कर्तव्यास्तथैवापणभूमयः ॥
आधानभूमिः कर्तव्या पानयुक्ता नराकुला
उत्तरीयविहीनांश्च द्यूतसक्तान्प्रदर्शयेत्॥
जिताञ्शोकसमायुक्तान्हृष्टांल्लब्धजयांस्तथा
चतुरङ्गबलोपेतां प्रहरद्भिर्नरैर्युताम् ॥
मृतावयवरक्ताढ्यां रणभूमिं प्रदर्शयेत्
चिताकुणपसंयुक्तं श्मशानं च तथा नृप ॥
युक्तं सभारैरुष्ट्राद्यैर्मार्गं सार्थं प्रदर्शयेत्
सचन्द्रग्रहनक्षत्रां तथा दर्शितलौकिकाम् ॥
आसन्नतस्करां रात्रिं दर्शयेत्सुप्तमानवाम् ॥ ६८
प्राग्रात्रे दर्शयेत्तत्र तथा चैवाभिसारिकाम् ॥
सारुणो म्लानदीपश्च प्रत्यूषो रुतकुक्कुटः
कर्मव्यग्रजनप्रायः कर्तव्यो वानरस्तथा ॥
द्विजैर्नियमभिर्युक्तां गां सन्ध्यां प्रदर्शयेत्
तमसो दर्शनं कार्यं वासे संसर्पकैर्नरैः ॥
कुमुदानां विकाशे च ज्योत्स्नां चन्द्रे प्रदर्शयेत्
दर्शयेत्सरजस्यं च शय्यां कर्णोत्करावृताम् ॥
सद्वृत्तमानवप्रायां वृष्टिं वृष्ट्याम्प्रदर्शयेत्
प्राणिनां क्लेशतप्तानामादित्येन निदर्शनम् ॥
वृक्षैर्वसन्तजैः फुल्लैः कोकिलामधुपोत्कटैः
प्रहृष्टनरनारीकं वसन्तं च प्रदर्शयेत् ॥
क्लान्तैः कार्यं नरैर्ग्रीष्मं मृगैश्छायागतैस्तथा
महिषैः पङ्कमलिनैस्तथा शुष्कजलाशयम् ॥
विहङ्गैर्द्रुमसंलीनैः सिंहव्याघ्रैर्गुहागतैः
तोयनम्रघनैर्युक्तं सेन्द्रचापविभूषणैः ॥
विद्युद्विद्योतनैर्युक्तां प्रावृषं दर्शयेत्तथा
सफलद्रुमसंयुक्तां पक्वसस्यां वसुन्धराम् ॥
सहसपद्मसलिलां शरदं तु तथा लिखेत्
सवाष्पसलिलस्थानं तथा लूनवसुन्धरम् ॥
सनीहारदिगन्तं च हेमन्तं दर्शयेद्बुधः
हृष्टवायसमातङ्गं शीतार्तजनसङ्कुलम् ॥
शिशिरं तु लिखेद्विद्वान्हिमच्छन्नदिगन्तरम
वृक्षाणां पुष्पफलतः प्राणिनां मदतस्तथा॥ ॥
ऋतूनां दर्शनं कार्यं लोकान्दृष्ट्वा नराधिप
रसभावाश्च कर्तव्या यथापूर्वमुदाहृताः ॥
यथायोगं तु युञ्जीत नृत्ताभिहितमत्र च
शुष्कं वर्तनया वस्तु चित्रं तन्मध्यमं स्मृतम् ॥
शुष्कार्द्रमधमं प्रोक्तं चार्द्रमेव तथोत्तमम्
यथादेयं यथाकालं यथादेशं यथावयः ॥
क्रियमाणं भवेद्धन्यं विपरीतमतोऽन्यथा
इतिविचक्षणबुद्धिविकल्पितैः करणकान्तिविलासरसादिभिः ॥
लिखितमीक्षणलोचनमादराद्भवति चित्रममीप्सितकामदम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० रूपनिर्माणं नाम द्विचत्वारिंशत्तमोऽध्यायः
3.43
मार्कण्डेय उवाच ॥
शृङ्गारहासकरुणवीररौद्रभयानकाः ॥
बीभत्साद्भुतशान्ताश्च नव चित्ररसाः स्मृताः
तत्र यत्कांतिलावण्यलेखामाधुर्यसुन्दरम् ॥
विदग्धवशाभरणं शृङ्गारे तु रसे भवेत्
यत्कुज्जवामनप्रायमीषद्विकटदर्शनम् ॥
वृथा च हस्तं संकोच्य तत्स्याद्धास्यकरं रसे
याञ्चाविरहासन्त्यागविक्रयव्यसनादिषु ॥
अनुकम्पितकं यत्स्याल्लिखेत्तत्करुणारसे
पारुष्यविकृतिक्रोधविषस्त्यर्था न दूषणम् ॥
दीप्रशस्त्राभरणवत्कृतं रौद्ररसे भवेत्
प्रतिज्ञागर्भशौर्यादिष्वर्थेष्वौ दार्यदर्शनम् ॥
सस्मयं सभ्रुकुटिवद्वीरं वीररसेऽद्भुतम्
दुष्टदुर्दर्शनोन्मत्तहिंस्रव्यापादकादि यत ॥
तत्स्याद्भयानकरसे प्रयोगे चित्रकर्मणः
श्मशानगर्हितं घातकरणं स्थानदारुणम्॥
यच्चित्रं चित्रवच्छ्रेष्ठं तद्बीभत्सरसे भवेत
यदा विनीतरोमाञ्चचिन्तां तार्क्ष्यमुखानतम् ॥
प्रदर्शयति चान्योऽन्यं तदद्भुतरसाश्रयम्
यद्यत्सौम्याकृतिध्यानधारणासनबन्धनम् ॥
तपस्विजनभूयिष्ठं तत्तु शान्ते रसे भवेत्
शृङ्गारहास्य शान्त्याख्या लेखनीया गृहेषु ते
परशेषा न कर्तव्या कदाचिदपि कस्यचित् ॥
देववेश्मनि कर्तव्या रसाः सर्वे नृपालय
राजवेश्मनि नो कार्या राज्ञां वासगृहेषु ते ॥
सभावेश्मसु कर्तव्या राज्ञां सर्वरसा गृहे
वर्जयित्वा सभां राज्ञो देववेश्म तथैव च ॥
युद्धश्मशान करुणामृतदुःखार्तकुत्सितान्
अमङ्गल्यांश्च न लिखेत्कदाचिदपि वेश्मसु ॥
निधिशृंगान्वृषान्राजन्निधिहस्तान्नताङ्गजान्
निधि विद्याधरा राजनृषयो गरुडस्तथा ॥
हनूमांश्च सुमङ्गल्या ये च लोके प्रकीर्तिताः
लिखितव्या महाराज गृहेषु सततं नृणाम् ॥
चित्रकर्म न कर्तव्यमात्मना स्वगृहे नृप
दौर्बल्यं स्थूलरेखत्वमविभक्तत्वमेव च ॥
वर्णानां सङ्करश्चात्र चित्रदीपाः प्रकीर्तिताः
।स्थानप्रमाणं भूलम्भो मधुरत्वं विभक्तता ॥
सादृश्यं क्षयवृद्धी च गुणाष्टकमिदं स्मृतम्
स्थानहीनं गतरसं शुन्यदृष्टिमलीमसम् ॥
चेतनारहितं वा स्यात्तदशस्तं प्रकीर्तितम्
लसतीव च भूलम्बो बिभ्यतीव तथा नृप॥
हसतीव च माधुर्यं सजीव इव दृश्यते
सश्वास इव यच्चित्रं तच्चित्रं शुभलक्षणम् ॥
हीनाङ्गं मलिनं शून्यं बद्धव्याधिभयाकुलैः
वृत्तं प्रकीर्णकेशैश्च सुमंगल्यैर्विवर्जयेत् ॥
प्रतीतं च लिखेद्धीमान्नाप्रतीतेः कथंचन
शास्त्रज्ञैः सुकृतैर्दक्षैश्चित्रं हि मनुजाधिप ॥
श्रियमावहति क्षिप्रमलक्ष्मीं चापकर्षति
निर्णेजयति चोत्कण्ठां निरुणद्ध्यागतं शुभम् ॥
शुद्धां प्रथयति प्रीतिं जनयत्यतुलामपि
दुःस्वप्नदर्शनं हन्ति प्रीणाति गृहदैवतम् ॥
न तु शून्यमिवाभाति यत्र चित्रं प्रतिष्ठितम्
..............दकर्णं चाप्यनलंकृतम् ॥
शल्यविद्धं च वृद्धं च यः करोति स चित्रवित्
तरङ्गाग्निखिखाधूमं वैजयन्त्यस्वरादिकम् ॥
वायुगत्या लिखेद्यस्तु विज्ञेयो मत्तचित्रवित्
सुप्तं च चेतनायुक्तं मृतं चैतन्यवर्जितम् ॥
निम्नोन्नतविभागं च यः करोति स चित्रवित्
एतेषां खलु सर्वेषामानुलोम्यं प्रशस्यते ॥
सम्मुखत्वमथैतेषां चित्रे यत्नाद्विवर्जयेत्
यथाचित्रं तथैवोक्तं खातपूर्वं नराधिप ॥
सुवर्णरूप्यताम्रादि तच्च लोहेषु दर्शयेत्
शिलादारुषु लोहेषु प्रतिमाकरणं भवेत्॥
अनेनैव विधानेन यथा चित्रमुदाहृतम्
तथानेन विधानेन पुस्तकर्म विधीयते ॥
द्विविधं तच्च कथितं घनं सुषिरमेव च
घनर्लौंहैः शिलाभिश्च दारुमृद्भिः सदा भवेत् ॥
चर्मणा सुषिरः कार्यो दारुलोहैस्तथैव च
देयो मृत्तिकया लेपः पुस्ते चर्मकृते दृढः ॥
सूत्रेऽनेन विधानेन चित्रवस्त्रे तथा लिखेत्
एतदुद्देशमात्रेण यदा ते कथितं नृप ॥
अशक्यो विस्तराद्वक्तुं बहुवर्षशतैरपि ॥
यदत्र नोक्तं तन्नृत्ताद्विज्ञेयं वसुधाधिप ॥
नृतेऽपि नोक्तं तच्चित्रं नात्र योज्यं नराधिप
कलानां प्रवरं चित्रं धर्मकामार्थ मोक्षदम् ॥
मङ्गल्यं प्रथमं चैतद्गृहे यत्र प्रतिष्ठितम्
यथा सुमेरुः प्रवरो नगानां यथण्डजानां गरुडः प्रधानः ॥
यथा नराणां प्रवरः क्षितीशस्तथा कलानामिह चित्रकल्पः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शृङ्गारादिभावकथनं नाम त्रिचत्वारिंशत्तमोऽध्यायः
समाप्तं चित्रसूत्रम् ॥
3.44
वज्र उवाच॥
देवतारूपनिर्माणं कथयस्य ममानघ॥
यस्मात्सन्निहिता नित्यं शास्त्रवत्सा कृता भवेत्
मार्कण्डेय उवाच॥
देवतारूपनिर्माणं वदतः शृणु पार्थिव॥
आदावेव प्रवक्ष्यामि त्रिमूर्तेस्तव पार्थिव
विष्णोरमितवीर्यस्य प्रतिमालक्षणं शुभम् ॥
ब्राह्मी तु राजसी मृतिस्तस्य सर्वप्रवर्तिनी
सात्त्विकी वैष्णवी ज्ञेया संसारपरिपालिनी ॥
तामसी च तथा रौद्री ज्ञेया संहारकारिणी
ब्रह्माणं कारयेद्विद्वान्देवं सौम्यं चतुर्मुखम् ॥
बद्धपद्मासनं तोष्यं तथा कृष्णाजिनाम्बरम्
जटाधरं चतुर्बाहुं सप्तहंसे रथे स्थितम् ॥
वामे न्यस्तं करतले तस्यैकं दोर्युगं भवेत्
एकस्मिन्दक्षिणे पाणावक्षमाला तथा शुभा ॥
कमण्डलुर्द्वितीये च सर्वाभरणधारिणः
सर्वलक्षणयुक्तस्य शान्तरूपस्य पार्थिव ॥
पद्मपत्रदलाग्राभं ध्यानसम्मीलितेक्षणम्
अर्चायां कारयेद्देवं चित्रे वा पुस्तकर्मणि ॥
देवदेवं तथा विष्णुं कारयेद्गरुडस्थितम्
कौस्तुभोद्भासितोरस्कं सर्वाभरणधारिणम् ॥
सजलाम्बुदसच्छायं पीतदिव्याम्बरं तथा
मुखाश्च कायाश्चत्वारो बाहवो द्विगुणास्तथा ॥
सौम्यं तु वदनं पूर्वं नारसिंहं तु दक्षिणम्
कापिलं पश्चिमं वक्त्रं तथा वाराहमुत्तरम् ॥
तस्य दक्षिणहस्तेषु बाणाक्षमुसलादयः
चर्म चीरं धनुश्चेन्द्रचापेषू वनमालिनः ॥
कार्याणि विष्णोर्धर्मज्ञ शृणु रूपं पिनाकिनः
देवदेवं महादेवं वृषारूढं तु कारयेत् ॥
तस्य वकत्राणि कार्याणि पञ्च यादवनन्दन
सर्वाणि सौम्यरूपाणि दक्षिणं विकटं मुखम् ॥
कपालमालिनं भीमं जगत्संहारकारकम्
त्रिनेत्राणि च सर्वाणि वदनं ह्युत्तरं विना ॥
जटाकलापे महति तस्य चन्द्रकला भवेत्
तस्योपरिष्टाद्वदनं पञ्चमं तु विधीयते ॥
यज्ञोपवीतं च तथा वासुकिं तस्य कारयेत्
दशबाहुस्तथा कार्यो देवदेवो महेश्वरः ॥
अक्षमालां त्रिशूलं च शरदण्डमथोत्पलम्
तस्य दक्षिणहस्तेषु कर्तव्यानि महाभुज ॥
वामेषु मातुलिङ्गं च चापादर्शौ कमण्डलुम्
तथा चर्म च कर्तव्यं देवदेवस्य शूलिनः ॥
वर्णास्तथा च कर्तव्याश्चन्द्रांशुसदृशप्रभाः
एतत्त्रिमूर्तेस्तव रूपमुक्तं माहानुभावस्य जनार्दनस्य॥
पद्मस्वरूपं तव वच्मि राजन्यत्रार्चनं कार्यमथेश्वराणाम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० त्रिमूर्तिनिर्माणन्नाम चतुश्चत्वारिंशत्तमोऽध्यायः
3.45
मार्कण्डेय उवाच ॥
सौवर्णं राजतं ताम्रमारकूटमयं तथा ॥
द्विहस्तमात्रं कर्तव्यं कमलं चारुकेसरम्
तस्याष्टभागाः कर्तव्याः कर्णिका नृप वर्तुला ॥
अष्टभागोच्छ्रिता चैव पत्रे न्यस्ता तु कारयेत्
एकतोनत्रिपञ्चाशत्कर्णिकायां तु कारयेत् ॥
वर्तुला कर्णिकाच्छेदा यवमात्रसमन्विताः
षोडशांशेन कर्तव्यं तद्धि विस्तरतस्तथा ॥
शेषं पत्रैस्तु सुस्निग्धैः पूरयेदष्टभिस्तथा
तस्य प्रतिष्ठा कर्तव्या तत्र देवांस्तु पूजयेत् ॥
ब्रह्माणं पूजयेत्तत्र तत्र सम्पूजयेद्धरिम्
तत्र सम्पूजयेद्रुद्रं तत्र सम्पूजयेच्छ्रियम् ॥
तत्र सम्पूजयेच्छक्रं देवराजं जगत्पतिम
तत्र सम्पूजयेत्सूर्यं शशिनं तत्र पूजयेत् ॥
यमेव मनसोद्दिश्य देवं पद्मं प्रतिष्ठितम् ॥
तमेव पूजयेत्तत्र नान्यं देवं कथञ्चन
पद्मस्य रूपं कथितं तवैतत्पद्मं समग्रा वसुधा निरुक्ता ॥
तत्रार्चनं कार्यमथेश्वराणां तत्रार्चितास्ते वरदा भवन्ति
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पद्मरूपनिरूपणो नाम पञ्चचत्वारिंशत्तमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0