विष्णुधर्मोत्तरपुराणम् · अध्याय 3.331.335
3.331
॥ हंस उपाच ॥
उत्तमर्णाय दातव्यमधमर्णेन याचितम् ॥
ब्राह्मणेन्द्रा धनं सर्वं निह्नवे तच्च भावितम्
सर्वोपायैर्धनी वित्तमृणिकादाप्नुयात्स्वकम् ॥
न स राज्ञाभियोक्तव्यः स्वकं संसाधयन्धनम्
अर्थनिह्नवमानं तु भावनाभिर्विभावितम् ॥
दापयेद्धनिकस्यार्थं राज्ञो दण्डं च तत्समम्
मिथ्याभियोगे द्विगुणमिति योगाद्धनं हरेत् ॥
भागं विंशतिमन्दद्यात्प्राप्तार्थो धनिको नृपे
यदि राजबलेनासौ तद्धि तस्मादवाप्नुयात् ॥
द्विकं त्रिकं चतुष्कं च पञ्चकं च तथा शतम्
वर्णानुक्रमतो वृद्धिः प्रतिमासं प्रकीर्तिता ॥
स्वयं कृतां तथा वृद्धिं सर्वे सर्वासु योनिषु
दातुमर्हति विप्रेन्द्रा इति मे निश्चिता मतिः ॥
न क्वचित्प्रीतिदत्तानां वृद्धिः संवत्सरं भवेत्
तेषामपि भवेद्वृद्धिर्गते संवत्सरे तथा ॥
सा च वृद्धिर्यथोक्ता वै वर्णानामनुपूर्वशः
तथाविधा ग्रहीतव्या नान्यथेति हि निश्चयः ॥
आधिभुग्दीयते वृद्धिं नष्टामाधिं च दापयेत्
दैवराजकृतं दोषं विना ब्राह्मणसत्तमाः ॥
अन्त्यवृद्धौ प्रविष्टायां चार्तौ त्यागो विधीयते
भोज्यस्याधेः परित्यागः प्रविष्टे तु धने भवेत् ॥
भोगस्य गणना कार्या न तत्र वचनादृते
धनिनोर्थं न हीयेत आधौ प्राणयुते मृते ॥
हेतुभूतस्तु मरणे न चेत्स्यादुत्तमर्णिकः
आधौ विवदमानानां भुक्ता जीवन्ति चापराः ॥
अन्यस्याधीकृतां भूमिं यश्चान्यस्य प्रयच्छति
स्वयमेव नरेन्द्रस्तं घातयेदविचारयन् ॥
द्रव्येष्वेवमथान्येषु दण्डः स्याद्द्विगुणं भवेत्
आधौ समुद्रे नष्टे तु मुद्रा यत्र न दृश्यते ॥
न तत्र हीयते वित्तं धनिकस्य कथञ्चन
अन्यथा तु तथा नष्टे धनिकस्यैव हीयते ॥
अन्त्या वृद्धिर्हिरण्यस्य द्विगुणा परिकीर्तिता
वस्त्रस्य त्रिगुणा प्रोक्ता धान्यस्य तु चतुर्गुणा ॥
रसस्याष्टगुणा वृद्धिः स्त्रीपशूनां च सन्ततिः
स्त्रीपशूनामृते वृद्धिः पशूनां चैव विद्यते ॥
उरभ्राणां भवेद्वृद्धिः सति पुंस्त्वे हि वै द्विजाः
ऊर्णावृद्धिर्भवेत्तेषां वर्षाणि द्वादशैव तु ॥
द्रव्याणामप्यनुक्तानां वृद्धिर्ज्ञेया चतुर्गुणा
दीयमानप्रयुक्तं तु पुरुषस्याप्रगृह्णतः ॥
ततः परं न वृद्धिः स्यात्कथंचिद्द्विजसत्तमाः
स्वमर्थं यो न गृह्णाति दीयमानं पुनःपुनः ॥
तस्मात्स हीयते विप्रा दाता तत्रानृणो भवेत्
पिता प्रवसितो यस्य ब्राह्मणा द्विदशाः समाः ॥
ऋणं तस्य सुतैर्देयं मृतस्य यदि वा पुनः
पैतृकं तु ऋणं पुत्रः पौत्रो वा दातुमर्हति॥
न कामस्तच्चतुर्थं तु दातुमर्हति कर्हिचित्॥
रिक्थग्राही तथा पुत्रः स्त्रीग्राही धनदासिकः ॥
पुत्रे स्थितेपि दातव्यमृणं वै धनहारिणाम
रिक्थग्राही सुताभावे स्त्रीग्राही दातुमर्हति ॥
स्वयं दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम्
स दत्त्वा निर्जितां वृद्धिं कारयेत्परिवर्त्तयेत् ॥
अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयन्
यावती संभवेद्वृद्धिस्तावतीं दातुमर्हति॥
प्रातिभाव्ये वृथा दानं द्यूतमध्ययनं च यत्
दण्डशुल्कावशेषं तु न पुत्रो दातुमर्हति ॥
दर्शने प्रत्यये दाने प्रातिभाव्यं त्रिधा स्मृतम्
आदौ तु वितथे दद्यादितरस्य सुतावपि ॥
दर्शने प्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा
न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय ये स्थिताः ॥
प्रकाशं प्रतिभूर्यत्र दापितो धनिनां धनम् ॥
सोयं तस्य तु तद्द्रव्यमृणिको दातुमर्हति
वर्णत्रयं विप्रवरा ऋणार्थं क्षीणे विशुद्धाविह कर्म कार्यम् ॥
क्षीणोग्रजं सा तु यथोदयं तद्दाप्यो न कर्माहरणे तदर्थम् ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ऋणदानवर्णनो नामैकत्रिंशदधिकत्रिशततमोऽध्यायः
3.332
॥ हंस उवाच ॥ ॥
शीलाढ्ये कुलजे शक्तः निक्षेपे निक्षिपेद्बुधः ॥
याच्यमानं तथैवासौ तस्य तद्दातुमर्हति
याचते यश्च निक्षिप्य निक्षिप्तं न प्रयच्छति ॥
तावुभौ चौरवच्छास्यौ धर्म्मज्ञेन महीक्षिता
निक्षेपोपनिधी चैव न देयौ प्रत्यनन्तरे ॥
नश्येते वनिपातेतावनिपाते त्वनाशिना
यस्य हस्ते विनिक्षिप्तं तस्य हस्ते तथा विना ॥
नष्टं तु यदि निक्षिप्तं नासौ दद्यात्कथञ्चन
निक्षेपभोगी दण्ड्यः स्याद्भोगमूल्यन्तु षड्गुणम् ॥
एष एव विधिर्दृष्टो याचितान्वाहितेषु च ॥
शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च
प्रतिगृह्णाति यो गण्डं यश्च स प्रधने नरः ॥
तस्याप्येष भवेद्धर्म्मः षडेते निधनाः स्मृताः
निक्षेपरक्षा पुरुषेण कार्या यत्नेन विप्रप्रवरास्सदैव ॥
निक्षेपहर्त्ता नरकं प्रयाति कल्पावशेषं निहितस्तु सर्वैः ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु निक्षेपरक्षावर्णनो नाम द्वात्रिंशदधिकत्रिशत तमोऽध्यायः
3.333
हंस उवाच ॥
वणिक्प्रभृतयो यत्र कर्म संभूय कुर्वते ॥
तत्संभूय समुत्थानं शृणुध्वं गदतो मम
फलहेतोरुपायेन कर्म संभूय कुर्वताम् ॥
आधारभूतः प्रक्षेपः ततस्तिष्ठेयुरंशकाः
समोऽतिरिक्तो हीनो वा यत्रांशो यस्य यादृशः ॥
क्षयव्ययौ तथा वृद्धिस्तत्र तस्य तथाविधा
सर्वेषां च मतं कार्यं भाण्डपिण्डव्ययादिकम् ॥
समं सर्वस्य विभजँल्लोके तस्मान्महीयते
दैविके राजके वापि व्यसने समुपस्थिते ॥
तत्र तत्र स्वशक्त्या तु तस्यांशो दशमः स्मृतः
एकस्य चेत्स्याद्व्यसनं दायादस्तदवाप्नुयात् ॥
तस्याभावे च सर्वेषां तेषामेव हि तद्धनम्
ऋत्विजो व्यसनेष्वेवं मान्यस्त्वं कर्मनिस्तरः ॥
लभते दक्षिणाभागं स तस्मात्संप्रकल्पितम् ॥
ऋत्विग्याज्यां च दुष्टौ तौ सन्त्यजेतां परस्परम् ॥
प्रथमं साहसं दंड्यौ न च तौ त्यागमर्हतः
अन्वाहितं याचितकं सार्धिः साधारणं च यत् ॥
निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति
अदेयानि द्विजश्रेष्ठा यश्चान्यस्मै प्रतिश्रुतम् ॥
अदत्तं तु भवेत्क्रोधभयशोकान्वितैर्नरैः
बालवृद्धास्वतन्त्रैश्च मत्तोन्मत्तस्तथैव च ॥
अज्ञानाच्च तथा पात्रं स्पर्धया द्विजसत्तमाः
गृह्णात्ययञ्च यो मोहाद्यश्चादेयं प्रयच्छति ॥
तावुभौ चौरवच्छास्यौ धर्मज्ञेन महीक्षिता
दत्तं स्वयं नाथ परेण दत्तं दत्तं नरो यस्तु हरेत्परस्य ॥
ध्रुवं स विप्रा नरकं प्रयाति दत्तं स्वयं वा न च यश्च दद्यात्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु संभूयसमुत्थानदेयादेयवर्णनो नाम त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः
3.334
हंस उवाच ॥
कृतकस्त्रिविधः प्रोक्तस्तस्य वक्ष्यामि लक्षणम् ॥
एकत्र कालावधिको देशावधिरथापरः
कर्मावधिस्तृतीयस्तु सर्वे कर्मकराः स्मृताः ॥
अदेशकाले कर्मादौ भृतकश्चेत्त्यजेद्भृतिम्
भृतिश्चादीयते सर्वा स्वामिदोषो न चेद्भवेत् ॥
हारिते स्वामिदोषेण दाप्यश्च भृतिको भवेत्
राजा च दण्डनीयः स्यात्तथा पणशतं भवेत् ॥
गृहीतमूल्यं यः शिल्पी काले द्रव्यं न यच्छति
द्विगुणं दीयते मूलं द्रव्यं दाप्यं तथैव च ॥
तद्द्रव्यं च विना हानिं सकलां दातुमर्हति
भृत्यदोषं विना स्वामी भृत्यमर्धपथे त्यजेत् ॥
तुल्यं तु सकलं दद्याद्राज्ञः कनकमाषकम्
आर्तस्य भक्तं दातव्यं स्वस्थस्तत्कर्म पूरयेत् ॥
स्वस्थोऽपि चेन्न तत्कुर्याद्द्विगुणं भक्तमुत्सृजेत्
प्रमादान्नाशितं दाप्यं समं छिद्राहता शतम् ॥
प्रसह्य यद्धृतं चौरैर्न तद्दाप्यो भवेत्क्वचित्
तोयाग्निनाशे शक्त्या चेत्प्रवर्तेनव दापयेत् ॥
राज्ञा हृतं तथा द्रव्यं न स दाप्यः कथंचन
यत्र गुप्त्या भवेन्नित्यं तत्र चेद्व्यापको भवेत् ॥
तत्सर्वं दापयेद्द्रव्यं यत्किंचित्तत्र नश्यति
शकटाद्यं तु गृह्णीयाद्भाटकेन तु यो नरः ॥
अददद्भाटकं दाप्यो व्यूढस्यापि च भाटकम्
भृतिं यः प्रतिपद्येत विनैव समयक्रियाम् ॥
देशकालौ च शक्तिं च भक्तिं चावेक्ष्य शक्तितः
भृतिस्तस्य प्रदातव्या दाप्यो राज्ञा बलादथ ॥
प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः
दुर्भिक्षविधृतो यस्तु मोक्षतः प्राणसंशयात् ॥
प्रतिशीर्षं प्रदानेन मुच्यते च ध्वजाहृतः
ग्रासमाच्छादनं देयं सर्वेषामेव सर्वदा ॥
तथैव राजा भृत्यानां भृतिं वर्षशतादपि
पुत्रपौत्रानुगश्चेत्स्याद्यद्यसौ तत्र कर्मकृत् ॥
अध्यापने यो भृतकस्तस्याप्येष विनिश्चयः
काले भृत्यैर्जयेत्किंचिद्यदि चित्तं स्वकर्मणा ॥
भक्तदस्यैव तत्सर्वमिति धर्मविदो विदुः
भार्या पुत्रश्च दासश्च त्रय एवाधना मताः ॥
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम्
वर्णानामानुलोम्येन न दास्यं प्रतिलोमतः ॥
प्रातिलोम्येन चेद्दास्यं कारयेत्तं विनाशयेत्
शुल्कं गृहीत्वा पण्यस्त्री नेच्छती द्विगुणं वहेत् ॥
अप्रयच्छन्पुमाञ्शुल्कं दाप्यं त्वष्टगुणं भवेत्
पशून्नयेदरण्यं तु पालको रजनीक्षये ॥
तृप्तान्पीतजलान्सर्वान्सायाह्ने तु समर्पयेत्
दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ॥
पशूनां व्यसनं गोपो व्यायच्छेत्तत्र शक्तितः
अशक्तानपि पत्तौ तु स्वामिने तन्निवेदयेत ॥
अध्यायच्छन्नविक्रोशं स्वामिने विनिवेदयेत्
वोढुमर्हति गोपस्तु विनयं चापि राजनि ॥
नष्टं विनष्टं कृमिभिः श्वहतं व्यसने मृतम् ॥
हीनं पुरुषकारेण पालको विनिवेदयेत् ॥
अजाविके तु संरुद्धे वृकैः पाले त्वनायति
यां प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत् ॥
तासां चेद्दैवरुद्धानां चरन्तीनां मिथो वने
यामुत्पत्य वृको हन्यान्न पालस्तत्र किल्बिषी॥
विद्विष्य तु हृतं चौरैर्न पालो दातुमर्हति
यदि देशे च काले च स्वामिनस्तस्य शंसति ॥
एतेन सर्वपालानां विवादः समुदाहृतः
साकं सशृङ्गं सखुरं च चर्म प्रदर्शयित्वाथ पशोर्मृतस्य ॥
पालस्य शुद्धिः कथिता द्विजेन्द्रा अतोन्यथा तस्य न शुद्धिरुक्ता
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु स्वामिभृत्यनियमवर्णनो नाम चतुस्त्रिंशदधिकत्रिशततमोऽध्यायः
3.335
॥ हंस उवाच ॥
द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात् ॥
प्रकाशक्रयतः शुद्धिः क्रीतः स्तेयो रहः क्रमात्
हीनमूल्यं बलात्क्रीतं ततस्तद्दोषभाग्भवेत् ॥
न गृहेतागमं क्रीताच्छुद्धिस्तस्य तदागमात्
स्वामी तु प्राप्नुयाद्वित्तं प्रकाशं रह एव वा ॥
विक्रीय पण्यमूल्येन यः क्रीतं न नियच्छति
स्थावरस्य फलं दाप्यो जङ्गमस्य क्रियाफलम् ॥
अर्धं चेन्न प्रहीयेत सोदयं पण्यमावहेत्
स्थानिनामेष नियमो दिग्लाभश्च दिशागते ॥
उपहन्येत वा पण्यं दह्येतापह्रियेत वा
विक्रेतुरेव सोऽनर्थो विक्रेता सम्प्रयच्छति ॥
दीयमानं न गृह्णाति क्रीतं पण्यं तु यः क्रयी
विक्रीणानं तदन्यत्र विक्रेता नापराध्नुयात् ॥
निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति
मूल्यं तद्द्विगुणं दाप्या विनेयश्च तथा भवेत् ॥
दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः
अदत्तेन्यत्र समयान्न विक्रेतुरतिक्रमः ॥
क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी
विक्रीतं प्रतिदेयं तु यथा विप्रास्तथा शृणु ॥
द्व्यहादेव भवेद्देयं पञ्चाहाद्वाह्यमेव तु
सप्ताहेन तथा रत्नं लोहस्तस्मिंस्तथाहनि ॥
द्विपदं चार्द्धमासेन बीजानि दशभिर्दिनैः ॥
तृतीयेहनि वस्त्रं च शरं चैवापरेहनि
परिभुक्तं तु यद्वासः क्लिष्टरूपं महीसमम् ॥
सदोषमपि तत्क्रीतं विक्रेतुर्न भवेत्पुनः
द्रव्यं तु विक्रीतमपि स्वकं हि विनायको वा तदवाप्नुयाद्वै ॥
क्रेता न कुर्याद्यदि वञ्चनां वा विक्रेतुरेवेह पुनस्तदिष्टम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु क्रयविक्रयनिर्णयोनाम पञ्चत्रिंशदधिकत्रिशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0