विष्णुधर्मोत्तरपुराणम् · अध्याय 3.336.340
3.336
॥ हंस उवाच ॥ ॥
पाषण्डनैगमश्रेणी पूर्वाव्रतगणादिषु ॥
संरक्षेत्समये राजा दुर्गे जनपदे तथा
यो धर्मः कारयेच्चैषां चोपस्थान विधिश्च यः ॥
यश्चैषां वृत्त्युपादानं चानुमन्येत तत्तथा
प्रतिकूलं तु यद्राज्ञः प्रकृत्यवसतं च यत् ॥
बाधकं च यदर्थानां तत्तेभ्यो विनिवर्तयेत्
मिथः संघातकरणं त्विह ते शस्त्रधारणम् ॥
परस्परोपघातं च तेषां राजा न मर्षयेत्
पृथग्गणांश्च यो भिन्द्यात्ते विनेया विशेषतः ॥
आवहेयुर्भयं घोरं व्याधिं वा ते ह्यपेक्षिताः
दोषवत्करणं यत्स्यादनाम्नायं प्रकल्पितम् ॥
प्रवृत्तमपि तद्राजा श्रेयःकामो निवर्तयेत्
गणमुद्दिश्य यत्किञ्चिन्मध्यश्चैव समुद्धरेत् ॥
आत्मार्थे वा नियुक्तं वा देयं तैरेव तद्भवेत्
यस्यापृथग्भूतकृतं द्विजेन्द्राः क्षितीशकृत्येन कृतं च यद्वा ॥
भृत्ये कृतं ज्ञेयमृणं भवेद्धि समोक्तिभिस्तत्त्वविदो वदन्ति
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्र संवादे मुनीन्प्रति हंसगीतासु श्रेणिविभागवर्णनो नाम षट्त्रिंशदधिकत्रिशततमोऽध्यायः
3.337
हंस उवाच ॥
सीमाविवादे सम्प्राप्ते सामन्ताः स्थविरा गणाः ॥
गोपा सीमाकृषाणा ये यद्ब्रूयुस्तत्तथा भवेत्
रक्तस्रग्वसनाः सर्वे शिरसा क्षितिधारिणः ॥
सीमां नयेयुस्ते ज्येष्ठे प्रकाशेषु समेषु च
सीमावृक्षांश्च कुर्वीत शाल्मलाश्वत्थकिंशुकान्॥
तुषांगारकपालास्थिशर्कराणि च यानि च
शीममध्ये तु जातानां वृक्षाणां क्षेत्त्रयोर्द्वयोः ॥
फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत्
अन्यक्षेत्रेषु जातानां शाखा यान्यत्र संस्थिता ॥
स्वामिनं तं विजानीयाद्यस्य क्षेत्रमुपस्थिता
गन्धरूपरसाभ्यान्तु प्रसृताप्रौढगाढका ॥
वाकारक्षप्रवाहस्था चिरस्थातिविशुद्धये
संचारापहृता भूमिर्नदीवेगेन चिह्निता ॥
समुक्ता स्वामिने देया पूर्वभुक्तिर्व्यवस्थिता
गृहीत्वा कर्षको भूमिं यदि कश्चन वापयेत् ॥
फलं क्षेत्रस्य दाप्योसौ क्षेत्रं चान्येन कारयेत् ॥
विण्मूत्रोदकमाक्रम्य वह्निं चित्रे निवेशयेत ॥
अ ..... समुत्सृज्य परकुड्ये निवेशयेत्
भ्रमद्वारगवाक्षाढ्यं परपीडाकरं तु यत् ॥
निवेशसमयादूर्ध्वं न तत्कार्यं कदाचन
परस्थाने तु निर्वासं गृहाद्यं यदि कारयेत् ॥
तद्व्ययं प्राप्नुयात्काले स्वामिना चेन्निवारितः
अजातेषु तु सस्येषु कार्या खलु धृतिर्भवेत् ॥
मासं दद्यात्तु महिषी तदावांगस्तथा भवेत्
अजाविकं तदर्धन्तु खरोष्ट्रं महिषीसमम् ॥
अश्वं च विप्रप्रवराः सस्यनाशं प्रदापयेत्
भक्षयित्वोपविष्टेषु द्विगुणं प्रोच्यते दमः ॥
पालश्च दण्डं दाप्यः स्यात्तदभावे पतिस्तथा ॥
सूतिकोत्सृष्टपशवः त्वदंड्या गर्भिणी च या
पथस्तथा ग्रामविनीतकान्ते न दोषमल्पे प्रवदन्ति काले॥
यः कामकारेण करोति राज्ञे विवासनीयः स भवेद्द्विजेन्द्राः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु सस्यहानिदण्डवर्णनो नाम सप्तत्रिंशदधिकत्रिशततमोऽध्यायः
3.338
॥ हंस उवाच ॥
धनं धर्मार्थकामानां मूलमाहुर्मनीषिणः ॥
नृणां बहिश्चरा प्राणा द्रविणं च प्रकीर्तितम्
तस्माद्धर्मविदा राज्ञा घातनीयास्तु तस्कराः ॥
ते हि घातनमर्हन्ति सर्वा बाधा विशेषतः
राज्ञो धर्मं न पश्यामि तस्करस्य वधादृते ॥
स्नेहाद्वा धनलोभाद्वा राजा चेत्तस्करं त्यजेत्
ब्रह्मवध्याशतं तस्य प्राहुर्धर्मविदो जनाः ॥
न हन्याद्ब्राह्मणं राजा सर्वपापेष्ववस्थितम्
स्तेनं विवासयेद्राष्ट्रात्समग्रधनमक्षतम् ॥
महापातकिनं विप्रं कृतचिह्नं विवासयेत्
ग्रामसीम्नि हृतं द्रव्यं ग्राम्यो दाप्यस्तथा भवेत् ॥
यस्मिन्ग्रामे पदं गच्छेत्स च दाप्यस्तथा भवेत्
ग्रामे द्वौ दण्डनीयौ तु सीमामध्ये हृतं यदि ॥
अटव्यां तं नियुक्तं तु नगरे नगराधिपः
महापातकिनः सर्वे घातनीया महीक्षिता ॥
कबन्धेनाङ्कयेद्विप्रं ललाटे ब्रह्मघातकम्
सुरापं तद्व्रजेनाथ कृतं चाश्वपदेन तु ॥
अगम्यगामिनं विप्रं भगाङ्केनाङ्कयेन्नृपः
घातनीयास्तथा राज्ञा नरस्त्रीबालघातिनः ॥
अग्निगरदाश्चैव भूम्यर्थे कूटसाक्षिणः
सेतुभेदकरा ये च राज्ञो व्यङ्कचराश्च ये॥
ते चाङ्गहीनाः कर्तव्या राज्ञा कूटाक्षदेवकाः
करहीनस्तथा कार्यो यश्चेहोपधिदेविता॥।
उत्क्रोशतां जनानां च ह्रियमाणे धने वधे
श्रोता यस्तु न वावर्तेद्राजा तानपि घातयेत् ॥
गजाश्वघातिनो वध्यास्तथा गोघातिनश्च ये ।
परिशेषपशूनां तु घातिनां छेदयेत्करम् ॥
कार्षापणशतं दण्ड आरण्यपशुघातने
पक्षिघाती तदर्धं तु इति धर्मविदो विदुः ॥
फलो पगद्रुमच्छेदे दण्ड उत्तमसाहसम्
पुष्पप्रदस्य यश्छेदी मध्यमं दण्डमर्हति ॥
कार्षापणशतं दंड्या लतामुल्मादिभेदकाः
सवर्णगः पारजायी दंड्या उत्तमसाहसम् ॥
हीनवर्णागमे दण्ड्यास्तथा प्रथमसाहसम्
तथैवोत्तमवर्णाया गमने घातमर्हति ॥
हीनवर्णगमे नारी वधमर्हत्यसंशयम्
समवर्णागमे त्याज्या उत्कृष्टामथ गच्छति ॥
हृताधिकारां मलिनां तां तु संवासयेद्गृहे
येनयेन तथांगेन हीनवर्णो नरोधमः ॥
उत्कृष्टस्यापकुरुते तत्तदेवास्य घातयेत्
श्वपाकपंडुचण्डालेष्वन्येषु वधवृत्तिषु ॥
हस्तिप्रव्राज्यदासेषु गुरुदाराभिगेषु च
मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥
मला ह्येते मनुष्येषु धनमेषां सदात्मकम्
तस्मात्तान्घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥
शतं ब्राह्मणमाक्रम्य क्षत्त्रियो दण्डमर्हति
विप्रः पंचशतं दण्ड्यः क्षत्रियस्याभिशंसने॥
वैश्यः स्यादर्धपञ्चाशच्छूद्रे द्वादशके दमः
क्षत्त्रियस्य तु पंचाशद्दंडो वैश्येऽभिशंसने॥
शूद्रः स्यादर्धपंचाशद्वैश्यः शूद्राभिशंसने
कार्षापणं भवेद्दंड्यस्तथा वै पञ्चविंशतिः ॥
आक्रोशे स सवर्णानां द्वादशैव व्यतिक्रमः॥॥
वादेषु वचनीयेषु तदेव द्विगुणं भवेत् ॥
काणं वाप्यथ वा खंजं त्वन्यद्वापि तथाविधम्
तथ्येनापि ब्रुवन्दाप्यो दण्डः कार्षापणं नरम् ॥
न किल्बिषेनापवदेच्छास्त्रतः कृतवासनम्
न राज्ञा धृतदण्डं तु दण्डता तद्व्यतिक्रमात् ॥
राजा च ब्राह्मणश्चैव लोके पूज्यतमौ मतौ
नामजातिग्रहं तेषां त्वभिद्रोहेण कुर्वतः ॥
निधेयोयोमयः शंकुर्ज्वलन्नास्ये दशाङ्गुलः ।
धर्मोपदेशे धर्मेण द्विजानामस्य कुर्वति ॥
तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः
सहासनमभिप्रेप्सुरुत्कृष्टस्यावकृष्टजः ॥
कट्यां कृतांको निर्वाप्यः कृतं चैवास्य कीर्तयेत्
अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ च्छेदयेन्नृपः ॥
अवमूत्रयतः शिश्नमवशद्वयतो गुदम् ॥
तमुपाक्रम्य राजानं जिह्वाच्छेदनमर्हति ॥
राजा न प्रहरेद्यस्तु कृतागस्यपि दुर्मतिः
तमग्नौ विपचेच्छूले ब्रह्महत्याशतातिगम् ॥
गुरुं वा बालवृद्धं वा ब्राह्मणं वा बहुश्रुतम् ॥
आततायिनमायांतं हन्यादेवाविचारयन्
संक्षेपतो धर्मभृतां वरिष्ठा राज्ञो मयैते कथितास्तु धर्माः ॥
अतः परं यत्र च संशयोस्ति तं मे वदध्वं तपसि प्रधानाः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दण्डानुशासनवर्णनो नामाष्टात्रिंशदधिकत्रिशततमोऽध्यायः
3.339
ऋषय ऊचुः ॥
अतः परं द्विजश्रेष्ठ वदास्माकमतंद्रितः ॥
वने निवसतां धर्मं धर्ममाश्रमिणामपि
हंस उवाच ॥
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः ॥
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत्
पुत्रेषु भार्यां निक्षिप्य तया वानुगतो वने ॥
अग्नीनुपचरन्नित्यं वन्यमाहारमाहरेत्
यथाहारो भवेत्तेन पूजयेत्पितृदेवताः ॥
तेनैव पूजयेद्विद्वानतिथिं समुपागतम्
ग्रामादाहृत्य वाश्नीयाद्वासानष्टौ समाहितः ॥
स्वाध्यायं च तथा कुर्याज्जटाश्च बिभृयात्तथा
तपसा शोषयेन्नित्यं तथा चैव कलेवरम् ॥
आर्द्रवासास्तु हेमंते ग्रीष्मे पञ्चतपास्तथा
प्रावृष्याकाशशायी च नक्ताशी च तथा भवेत् ॥
चतुर्थकालिको वा स्यात्षष्ठकालिक एव वा
कृच्छ्रैर्वापि नयेत्कालं ब्रह्मचर्यं च पालयेत् ॥
एवं नीत्वा वने कालं द्विजो ब्रह्माश्रमी भवेत्
वने विमुच्याथ शरीरधातून्प्राप्नोति लोकान्प्रपितामहस्य ॥
पुनात्यतीतान्पुरुषांश्च सप्त भविष्यतो यानथ सप्त विप्राः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे मुनीन्प्रति हंसगीतासु वानप्रस्थधर्मवर्णनोनामैकोनचत्वात्रिंशदधिकत्रिशततमोऽध्यायः
।
3.340
॥ हंस उवाच ॥
चतुर्थमायुषो भागमन्त्यं यत्याश्रमे वसेत् ॥
कृत्वेष्टिं विधिवत्पश्चात्सर्ववेदीसदक्षिणाम्
आत्मन्यग्नीन्समारोप्य द्विजो ब्रह्माश्रमी भवेत् ॥
ग्रामैकरात्रिकः स स्यान्नगरे पाञ्चरात्रिकः
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ॥
अतीते पात्रसञ्चारे भिक्षां नित्यं यतिश्चरेत्
सप्तागारं चरेद्भैक्ष्यं भिक्षुकान्नानुभिक्षयेत् ॥
न व्यथेत तथाऽलाभे यथालाभेन वर्तयन्
नास्वादेत रसान्भिक्षुर्नाश्नीयात्कस्यचिद्गृहे ॥
मृन्मयालाबुपात्राणि दारुवैदलकानि च ॥
तेषां सम्मार्जनाच्छुद्धिरद्भिश्चैव प्रकीर्तयेत्
कौपीनाच्छादनं वासो रथ्याविद्धमपाहरेत्
शून्यागारनिकेतः स्याद्यत्र सायं गृही मुनिः ॥
कर्मदण्डं मनोदण्डं वाग्दण्डं च तथा न्यसेत्
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ॥
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत्
चन्दनेनोक्षितो बाहुं वास्यैकमपि तक्षतः ॥
कल्याणं चाप्यकल्याणं तयोरपि न चिन्तयेत्
प्राणायामैर्दहेद्दोषान्धारणाभिस्तु किल्बिषम् ॥
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान्
निराशीर्निर्नमस्कारः समलोष्टाश्मकाञ्चनः ॥
सर्वभूतसमो मैत्रः परमं पदमश्नुते
जन्मना यस्तु निर्विण्णः मरणेन तथैव च ॥
आधिभिर्व्याधिभिश्चैव तं देवा ब्राह्मणं विदुः ॥
अशुचित्वं शरीरस्य प्रियाप्रियविपर्ययः
गर्भवासे च वसतिं पश्यन्मुच्यति नान्यथा ॥
जन्ममृत्योश्च नानन्दं न त्वसारमनर्थकम्
भोक्तव्यमिति निर्विण्णः प्रत्यहमुच्यते वचः ॥
एवं वैराग्यमास्थाय नित्यं ध्यानपरायणः
चतुर्विंशतिकं लंघ्य प्रपश्येत्पञ्चविंशकम ॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च
पञ्चेमानि विजानीयान्महाभूतानि सर्वतः ॥
श्रोत्रं चक्षु स्पर्शनं च रसनं प्राणमेव च
बुद्धीन्द्रियाणि जानीयात्पञ्चैवास्मिञ्छरीरके ॥
शब्दो रूपं तथा स्पर्शो रसो गन्धस्तथैव च
कर्मेन्द्रियाणि पञ्चैव नित्यमस्मिञ्छरीरके ॥
मनोबुद्धी तथैवात्मा ह्यव्यक्तं च तथा द्विजाः
इन्द्रियेभ्यः पराणीह चत्वारि कथितानि तु ॥
चतुर्विंशत्यथैतानि पुरुषः पञ्चविंशकः
यं ज्ञात्वा प्रतिमुच्यंते ये नराः शान्तबुद्धयः ॥
गन्धो रसस्तथा वायुः स्पर्शः शब्दस्तथा द्विजाः
एते पञ्चगुणा भूमेः स्थूला भूमेषु लक्ष्यते ॥
रसो रूपस्तथा स्पर्शः शब्दाश्चाम्बुगुणा मताः
रूपं स्पर्शस्तथा शब्दः तेजसस्तु गुणाः स्मृता ॥
स्पर्शः शब्दस्तथा वायोः शब्दश्च नभसस्तथा
आकाशाज्जायते शब्दो वायोः स्पर्शगुणस्तथा ॥
रूपं तु तेजसः प्रोक्तो रसश्चाम्बुगुणो मतः।
पार्थिवं गन्धमित्याहुरिन्द्रियार्थाः प्रकीर्तिताः ॥
इन्द्रियेभ्यः परा अर्था अर्थेभ्यस्तु परं मनः
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥
महतः परमव्यक्तं त्वव्यक्तात्पुरुषः परः
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥
एतत्परतरं गुह्यमेतदक्षरमुत्तमम्
ॐकारवाचकं ह्येतद्गुणातीतं सनातनम् ॥
अशब्दमरसस्पर्शमरूपं गन्धवर्जितम्
निर्दुःखमसुखं दुःखं तद्विष्णोः परमं पदम् ॥
वालाग्रशतशो भागः कल्पितस्तु सहस्रधा
तस्यापि शतशो भागो जीव इत्यभिधीयते ॥
हृद्यर्कचन्द्रमाः सूर्यः सोममध्ये हुताशनः
तस्य मध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितोच्युतः ॥
स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम्
ध्याननिर्मथनाभ्यासाद्विष्णुं पश्येद्धदि स्थितम् ॥
एष देवस्तु मर्त्यानां वणैरेव विधीयते
अज्ञानपटसंवीतैरिन्द्रियैर्विषयेप्सुभिः ॥
एष वै पुरुषो विष्णुर्व्यक्ताव्यक्तः सनातनः ॥
एष धाता विधाता च प्रमाणो निष्कलः शिवः ॥
द्वे ब्रह्मणी वेदितव्ये शाब्दब्रह्म परं च यत्
शाब्दब्रह्मणि निष्णातः परं ब्रह्माधि गच्छति ॥
सूक्ष्मं नित्यमुपासीत शुभं च सततं द्विजाः
सूक्ष्मस्योपासनाच्छ्रेष्ठां याति तेजोमयीं गतिम् ॥
तत्त्वं वहति वै बुद्धिं बुद्धिस्तु परमाङ्गतिम्
गतिर्वहति चंद्रार्कौ तपसा परमेष्ठिनः ॥
तयोर्वहति वै सत्त्वं सत्त्वं च वहति प्रभुम्
प्रभुवर्हति सौक्ष्म्यं तु परमात्मानमात्मनः ॥
तयोर्वृत्तिरजः सत्त्वं सत्त्वस्य परमा गतिः
सत्त्वं वहति सूक्ष्मत्वात्परं नारायणं प्रभुम् ॥
परमात्मानमासाद्य हरिं वैकुण्ठमीश्वरम्
अमृतत्वाय कल्पेत ततो नैव निवर्त्तते ॥
दशार्धयुक्तेन रथेन युक्तो मनोनुगेनार्यपथानुवर्तिना ॥
तञ्चेद्रथं नापवहंति वाजिनस्तथागतं नावजयेति शक्तः
अणोरणीयान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः ॥
तेजोमयं पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः
वेदाहमेतं पुरुषं महान्तं चादित्यवर्णं तमसः परस्तात् ॥
यं वै विदित्वा न बिभेति मृत्योर्नान्यः पन्था विद्यतेऽयनाय
एको ह्यात्मा महिमा ब्राह्मणस्य स्वकर्मणा वै जायतेऽसौ कनीयान् ॥
यस्मात्परं नापरमस्ति किञ्चित्सौक्ष्म्यान्महत्त्वाच्च ततश्च नान्यः
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥
सुस्वादुपर्णः सुच्छायो दृश्यते स वृक्षः परिषस्वजाते॥
तयोरन्यत्पिप्पलं नाम स्वाद्वन्यदश्नन्यो अभिचाकशीति
अकामधीरमृतः स्वयंभू रसेन तृप्तो न च कश्चिद्द्रुमाणाम् ॥
परेण नाकं नापतिर्न गृहाय विभ्राजते तं नियता विशन्ति । ४४ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु यतिधर्म वर्णनो नाम चत्वारिंशदधिकत्रिशततमोऽध्याय.
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0