विष्णुधर्मोत्तरपुराणम् · अध्याय 3.326.330
3.326
हंस उवाच ॥
पौरुषश्चैव दिव्यश्च निर्णयो द्विविधः स्मृतः ॥
द्विविधः पौरुषस्तत्र लिखितं साक्षिणस्तथा
त्रिविधं लिखितं तत्र तस्य वक्ष्यामि लक्षणम् ॥
राजसाक्षिकमेकं तु द्वितीयं तु स साक्षिकम्
स्वहस्तलिखितं नाम तृतीयं परिकीर्तितम्॥
नियुक्तकार्यस्य कृतं राजाधिकरणेतरम्
तदध्यक्ष्येण मर्त्यैश्च स्वहस्त परिचिह्नितम् ॥
तल्लेख्यं कथितं लोके राजसाक्षिकमित्युत॥
यत्र क्वचन विप्रेंद्रा लिखितं येन केनचित ॥
चिह्नितं यत्स्वहस्तेन साक्षिभिश्च गुणान्वितैः
द्वाभ्यामूर्ध्वं तु तज्ज्ञेयं लिखितञ्च ससाक्षिकम् ॥
साक्षी स्वहस्तलिखिते भवेद्वापि न वा भवेत्
विनापि साक्षिभिस्तस्य प्रामाण्यमुपपद्यते ॥
स्वहस्तलिखितं पत्रं बलात्कारेण कारितम्
हस्तप्रमाणं सर्वैर्वा तथोपधिकृतं द्विजाः ॥
मत्तोन्मत्तकृतं लेख्यमस्वतन्त्रकृतं च यत्
लेख्यं विना नास्ति सिद्धिः स्थावरस्य तु कर्हिचित् ॥
भुक्तिस्तत्र प्रमाणं वा भवेत्त्रिपुरुषागता
हस्तेन द्विपदं देयं साम्ना दद्याच्चतुष्पदम् ॥
स्थावराणां च सर्वेषां सिद्धिर्लेख्ये प्रतिष्ठिता
देशाचाराद्विरुद्धं यद्व्यक्ताववधिलक्षणम् ॥
तत्प्रमाणं स्मृतं लेख्यं विलुप्तधनमक्षयम्
प्राक्प्रसादाः प्रदीयन्ते पश्चाद्वापि न पार्थिवाः ॥
देवद्विजातिवित्तेषु न स्यात्स्वामी नृपः क्वचित्
समूहार्थे न भोगोऽस्ति लेख्यं तत्रापहारकम् ॥
उभयोरपि तत्र स्याद्भुक्तं येन स वै प्रभुः
चिरन्तनमविज्ञातं भुक्तं भोगान्न चालयेत् ॥
एकार्ह लिखिते तत्स्यात्सम्भोगो यस्य तस्य तु
अर्वाक्कालिकलब्धं तु लेख्येनैव विशोधयेत् ॥
मुद्राशुद्धं क्रियाशुद्धं पारंपर्यानुमोदितम्
अदूषितं च स्पष्टं च सिद्धिमाप्नोति नान्यथा ॥
स्ववेशात्कीर्तयेद्राजा आत्मानं तदनन्तरम्
दायादेयप्रमाणं च सहसीमापरिच्छदैः ॥
ततस्तु लेखयेत्तत्र दानच्छेदोपवर्णनम्
तल्लेख्यं सिद्धिमाप्नोति मुद्रितं राजमुद्रया ॥
मतान्तरे तु लेख्यस्य श्रावणाच्छ्रवणे तथा
नैव सिद्धिर्विनिर्दिष्टा भावनान्या न चेद्भवेत् ॥
स्वहस्तलिखितं पत्रं निह्नुके तु विभावयेत्
वर्णैश्च तत्कृतैश्चिह्नैः प्राप्यैरेव च युक्तिभिः ॥
यत्रर्णलेखको वापि साक्षी वापि मृतो भवेत्
लिखितान्ते प्रविष्टे तु धनी लेख्यं तु पाटयेत् ॥
असमग्रे प्रविष्टे तु लेख्ये दूरगते तथा ॥
धनिकस्य धनी दद्याल्लिखितं स्वमथापरम् ॥
दैवदोपनिविष्टं तु लेख्यं लेख्यं तु कारयेत्
अन्यमेवाधमर्णास्तु लेख्यं यत्स्मर्यते यदि ॥
समुद्रे तु यदा लेख्ये मृताः सर्वे तु तत्स्थिताः
लिखितं तत्प्रमाणं तु मृतेष्वपि हि साक्षिषु ॥
सोपध्यं यद्भवेल्लेख्यं दिव्याद्यैस्तत्प्रसाधयेत्
बलात्कारबलैर्लेख्यैः सत्यश्चेच्छछ्रावणाद्भवेत् ॥
ज्ञापितेनाप्यसिद्धिः स्यात्सिद्धिस्तस्माद्यथा स्मृता ॥
पैतामहानां रिक्थानां प्रभुः पौत्रोऽपि गायते
ये कूटकारा वसुधाधिपेन भृशं विनेयास्त्रिदशेप्सुना वै ॥
ते कण्टकाः सर्वजनस्य विप्रास्तेषां निषेद्धा नृपतिर्भवेद्वै
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु लेख्यलक्षणवर्णनो नाम षैविंशत्युत्तरत्रिशततमो ऽध्यायः
3.327
॥ हंस उवाच ॥ ॥
एकादशविधः साक्षी शास्त्रदृष्टो मनीषिभिः ॥
कृतः पञ्चविधस्तत्र षड्विधोऽकृत उच्यते
लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च ॥
गूढश्चोत्तरसाक्षी च कृतः पञ्चविधः स्मृतः
ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् ॥
कार्येष्वभ्यन्तरो यः स्यादर्थिना प्रहितः सदा
कुलं कुलविवादेषु षड्विधस्त्वकृतः स्मृतः ॥
द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु
पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः ॥
आधार्यः पूर्वपक्षस्य यस्मिन्नर्थवशाद्भवेत्
विवादे साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः ॥
न परेण समुद्दिष्टमुपेयात्साक्षिणं प्रति
भेदयेत्तु न वान्योन्यं हीयत्येवं समाचरेत् ॥
साक्षिद्विष्टो यदि प्रेयाद्गच्छेद्वापि दिगन्तरम्
तच्चोभयोः प्रमाणं तु प्रमाणे ह्यन्तरा क्रिया ॥
अनिर्दिष्टस्तु साक्षित्वे स्वयमेवैत्य यो वदेत्
सूचीत्युक्तः स साक्षी तु न स साक्षित्वमर्हति ॥
न साक्षी नृपतिः कार्यो न कारुककुशीलवौ
न श्रोत्रियो न लिङ्गस्थो न सर्वेभ्यो विनिर्गतः ॥
न व्याधितो न वक्तव्यो न दस्युर्न विकर्मकृत्
न वृद्धो न शिशुर्नैको नान्धो न विकलेन्द्रियः ॥
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः
न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥
नार्थसम्बन्धिनोराप्तो न हायनविचारिणः
न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥
स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः
शूद्राश्च साधुशूद्राणां मर्त्यानां मर्त्ययोनयः ॥
अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम्
अन्तर्वेश्मन्यरण्ये वा शरीरस्य तथात्यये ॥
स्त्रियोऽपि सम्भवे कार्या बालेन स्थविरेण वा
शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥
बालवृद्धातुराणां तु साक्ष्ये तु वदतां मृषा
जानीयादधिवाचमुत्सिक्तमनसां तथा ॥
गृहिणः पुत्रिणो मौलाः शूद्रा विट्क्षत्रयोनयः
अत्युक्ताः साक्ष्यमर्हन्ति नये कूटधनापदि ॥
आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः
बहुत्वे परिगृह्णीयात्साक्षित्वे वेतनाधिपम् ॥
समेषु त्वगुणोत्कृष्टं गुणित्वे वै द्विजोत्तमान्
समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति ॥
तत्र सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते
साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नरकं व्रजेत् ॥
पृष्टानि बद्धोऽपि वदेद्यथा दृष्टं यथाश्रुतम्
एको लुब्धस्त्वसाक्षी स्याद्बहवोऽपि न वा क्वचित् ॥
स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम्
न जातु साक्षिणः प्राप्तानर्थिप्रत्यर्थिसन्निधौ ॥
प्राड्विवाको नियुंजीत विधिनानेन सान्त्वयन्
यत्तयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितेऽपि वा ॥
तद् ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षितम्
देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेत्ततो द्विजाः ॥
उदङ्मुखः प्राङ्मुखो वा पूर्वाह्णे वै शुचिः शुचीन्
ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् ॥
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः
ब्रह्मणे च स्मृता लोका ये च स्त्रीबाल घातिनः ॥
मित्रद्रुहः कृतघ्नस्य तत्ते स्युर्ब्रुवतां मृषा
जन्मप्रभृति यत्किञ्चित्किञ्चित्पुण्यं त्वया कृतम् ॥
तत्सर्वं तस्य जानीहि यं पराजयसे मृषा
नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः ॥
अन्धः शत्रुगृहं गच्छेद्यत्साक्ष्यमनृतं वदेत्
एतांस्तु दोषान्वीक्ष्य त्वं सर्वाननृतभाषणात् ॥
यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद
सत्यं साक्ष्यं ब्रुवन्साक्षी लोकान्प्राप्नोत्यनुत्तमान् ॥
इह वानुत्तमां कीर्तिं वाग्येषां ब्रह्मपूजिता
मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः ॥
तांश्च देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ ३२ .॥
आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च ॥
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे मुनीन्प्रति हंसगीतासु साक्षिनिर्णयो नाम सप्तविंशत्युत्तरत्रिशत तमोऽध्यायः
3.328
हंस उवाच ॥
पौरुषो निर्णयः प्रोक्तो दिव्यं वक्ष्याम्यतः परम् ॥
असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः
राजद्रोहाभिशापेषु साहसेषु तथैव च ॥
विवादे तत्त्वतः सत्यं शपथेनापि लम्भयेत्
महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः ॥
वसिष्ठोऽदत्त शपथं समये जवने नृपे
न मृषा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः ॥
वृथा हि शपथं कुर्वन्प्रेत्य चेह च नश्यति
स्थावरेषु तु दिव्यानि वर्जनीयानि पार्थिवैः ॥
लिखितेन तथा भुक्त्या तेषां भवति साधनम्
कोशं धटं विषं चाग्निमुदकं तप्तमाषकम् ॥
फालं च तण्डुलं चैव दिव्यान्यष्टौ विदुर्बुधाः
कोशवर्जन्तु दिव्यानि सशिरस्कानि दापयेत् ॥
अशिरस्कः स्मृतः कोशः कालान्तरविभावनात
अशिरस्कानि दिव्यानि राज्ञा कण्टकशोधनैः ॥
राज्ञा सर्वाणि देयानि स्वयं च परिमार्गिणा ॥
लोभान्मोहाद्भयाद्वापि भिद्यन्ते साक्षिणः परैः ॥
अज्ञानाद्बालभावाच्च भेदे धर्मो व्यवस्थितः
सर्वद्रव्येषु कनकं मूल्यं तु परिकल्पयेत् ॥
माषकेण सुवर्णस्य ..........काल्यमसुखे द्विजम्
सत्यं वदामीति शपेन्नान्यत्किञ्चन पार्थिव ॥
शस्त्रमादाय वक्तव्यं क्षत्त्रियेण तथैव च
धेनुं संस्पृशता सत्यं वाच्यं वैश्येन वै द्विजाः ॥
शूद्रः कुर्वीत शपथं तथा सर्वैस्तु पातकैः
कृष्णलेन सुवर्णस्य तिलवृद्ध्या तु शापयेत् ॥
शूद्रान्न शापयेद्राजा कदाचिदपि वै द्विजाः
विप्रवर्जं तथा कोशं वर्णिनां दापयेन्नृपः ॥
सुवर्णमाषकादूर्ध्वमर्वागष्टभ्य एव च
विप्रवर्जं तु विप्रोऽपि वर्णिनां पूरसंयुतम् ॥
कोशस्थाने तु शपथं कारयेदविधारयन्
अतः परं तु दिव्यानां कुर्यादन्यतमं नरः ॥
यथा तथा महीपालः शृणुध्वं गदतो मम
न शीते तु धटं देयमुष्णकाले हुताशनम् ॥
वर्णिनां न तथा फालं तण्डुलं मुखरोगिणाम्
श्वासकासार्दितानां च ब्राह्मणानां च नो विषम् ॥
तप्तमाषकमर्हन्ति सर्वे वर्णा निरत्ययम्
न व्याधिमरकाक्रान्ते देशे कोशं तु पातयेत् ॥
मन्त्रैरस्वरदिव्यानि सञ्चयन्तीह मानवाः
प्रतिमन्त्रविदः स्तम्भनानां विनाशने ॥
नियुञ्जीत नरेन्द्रोपि निभृतां धनवत्सलाम्
दिव्यानां स्तम्भकं ज्ञात्वा पापान्नित्यं महीपतिः ॥
विवासयेत्स्वकाद्राष्ट्रात्ते हि लोकस्य कण्टकाः
तेषामन्वेषणे यत्नं राजा नित्यं समाचरेत् ॥
ते हि पापसमाचारास्तस्करेभ्योपि तस्कराः
दृग्दृष्टिदोषात्स्वल्पेपि दिव्येषु विनियोजयेत् ॥
महत्स्वपि न चार्थेषु धर्मज्ञान्धर्मवत्सलान्
ज्ञात्वा धर्मिष्ठतां राजा पुरुषस्स विचक्षणः ॥
स्वल्पे वाप्यथ वास्वल्पे शपथे तान्नियोजयेत्
न मिथ्यावचनं येषां जन्मप्रभृति विद्यते ॥
श्रद्दध्यात्पार्थिवस्तेषां वचने धर्मदर्शिनाम्
अत्यन्तोपहताः पापा नास्तिका भिन्नसेतवः ॥
दिव्यान्यर्हंति सर्वाणि स्वल्पदोषा अपि द्विजाः
आदौ भूमिं परीक्षेत धटस्यार्थे विचक्षणः ॥
इन्द्रस्थाने सभायां वा दिग्भागे पूर्वदक्षिणे
धटं निवेशयेत्तत्र सुसमायां तथा भुवि ॥
यज्ञियस्य तु वृक्षस्य कर्तव्यं मण्डपद्वयम्
मण्डपस्य प्रमाणं तु सप्तहस्तं प्रकीर्तितम् ॥
द्वौ हस्तौ निखनेत्काष्ठं दृश्यं स्याद्धस्तपञ्चकम्
अन्तरञ्च तयोः कार्यं तथा हस्तचतुष्टयम् ॥
मण्डपोपरि काष्ठं च दृढं कुर्याद्विचक्षणः
चतुर्हस्तं तुलाकाष्ठं त्वव्रणं कारयेत्स्थिरम् ॥
खदिरार्जुनवृक्षाणां शिंशिपासालजं तथा
तुलाकाष्ठं तु कर्तव्यं तथा वै शिक्यकद्वयम् ॥
प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस्तथा
वणिक्सुवर्णकारौ च कुलालः कांस्यकारकः ॥
तुलाधरे धटः कार्यो रिपौ मित्रे तथा समः
श्रावयेत्प्राड्विवाकोपि तुलाधारं विचक्षणः ॥
ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनाम्
तुलाधरस्य ते लोकास्तुलां धारयतो मृषा ॥
एकस्मिँस्तोलयेच्छिक्ये स्नातं सूपोषितं नरम्
द्वितीये मृत्तिकां शुभ्रां गौरीं तु तुलयेद्बुधः ॥
इष्टकाभस्मपाषाणकपालास्थीनि वर्जयेत्
तुलयित्वा ततः पूर्वं तस्मात्तमवतारयेत् ॥
मूर्ध्नि पत्रं ततस्तस्य न्यस्तपत्रं निवेशयेत्
मन्त्रश्चायं पुरा प्रोक्तः स्वयमेव स्वयम्भुवा ॥
ब्रह्मणस्त्वं सुता देवि तुलानाम्नीति कथ्यसे
तुकारो गौरवो नित्यं लकारो लघुनि स्मृतः ॥
गुरुलाघवसंयोगात्तुला तेन निगद्यसे
संशयान्मोचय स्वैनं चाभिशस्तं नरं शुभे ॥
भूय आरोपयेत्तं तु नरं तस्यां सपत्रकम्
तुलितो यदि वर्धेत शुभो भवति धर्मतः ॥
हीयमाने न शुद्धः स्यादिति धर्मविदो विदुः
शिक्यच्छेदे तुलाभङ्गे पुनरारोपयेन्नरम् ॥
तथा निःसंशयं ज्ञानं भवतीति विनिश्चयः
अग्नेर्विधिं प्रवक्ष्यामि शृणुध्वं गदतो मम ॥
सप्तमण्डलकान्कुर्याद्देवब्राह्मणसन्निधौ
प्रत्यक्षं कारयेद्दिव्यं राज्ञो वाधिकृतस्य वा ॥
ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च
पश्चिमे मण्डले तिष्ठेत्प्राङ्मुखः प्राञ्जलिः शुचिः ॥
चरतुरस्रे यथा अस्मिन्कृत्वा चैव समौ करौ
लक्षयेयुः क्षतादीनि हस्तयोस्तस्य कारिणः ॥
सप्ताश्वत्थस्य पत्राणि बध्नीयुः करयोस्ततः
नवेन सितसूत्रेण कार्पासेन द्विजोत्तमाः ॥
ततस्तु सुसमं कृत्वा अङ्गुलं त्वेकमायसम्
पिण्डं हुताशसन्तप्तं पञ्चाशत्पलिकं दृढम् ॥
आदौ पूजां हुताशस्य कारयेद्वसुधाधिपः
रक्तचन्दनधूमाभ्यां रक्तपुष्पैस्तथैव च ॥
अभिशस्तस्य मन्त्रं च बध्नीयात्तस्य मूर्धनि
मन्त्रेणानेन संयुक्तं ब्राह्मणाभिहितेन तु ॥
त्वमग्ने वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम्॥
जठरस्थोपि भूतानां त्वं च वेत्सि शुभाशुभम्॥
पापेषु दर्शयात्मानमर्चिष्मान्भव पावक
अथ वा शुद्धभावेषु शीतो भव महाबल ॥
ततोभिशस्तः शनकैर्मण्डलानि परिक्रमेत्
परिक्रम्य शनैर्जह्याल्लोहपिण्डं तथा क्षितौ ॥
विमुक्तहस्तं तं पश्चात्कारयेद्व्रीहिमर्द्दनम्
निर्विकारौ करौ दृष्ट्वा शुद्धो भवति धर्मतः ॥
भयाद्वा पातयेद्यस्तु दग्धो वा न विभाव्यते
पुनस्तु चाहरेल्लोहं विधिरेष प्रकीर्तितः ॥
तोयस्याथ प्रवक्ष्यामि विधिं धर्म्यं सनातनम्
शैवालनक्रमत्स्याद्यैर्वर्जिते स्थावरे जले ॥
धर्मस्थूणा तत्र कार्या पुरुषं धर्मवत्सलम्
नाभिदघ्नोदकस्थस्य गृहीत्वोत्तं समाविशेत् ॥
मध्यमेनाथ धनुषा मध्यस्थः पुरुषोऽपरः
इषुमोक्षं तदा कुर्याद्देशे तृणविवर्जिते ॥
शरमोक्षे समे काले निमज्जेत्पुरुषोप्यसौ
मूर्ध्नि विन्यस्तपत्रस्तु पेत्रै चैतान्निवेशयेत् ॥
आदिदेवोऽसि देवानां शौचस्याप्यायनं परम्
पञ्चानां लोकपालानां त्वं वरिष्ठं जगत्पते ॥
त्रायस्वैनं नरं पापात्पश्यसि त्वं शुभाशुभम
अन्तश्चरसि भूतानां सर्वेषां मोक्षवत्स्थितः ॥
इषुप्रक्षेपणस्थानाद्युवा च बलवान्नरः ॥।
धावन्स परया शक्त्या शरं तत्समुपातयेत् ॥
आगते तु शरग्राहे तोयस्थश्चेन्न दृश्यते
शुद्धो भवति धर्मेण यश्चाप्यङ्गं न दर्शयेत् ॥
विषस्यातः प्रवक्ष्यामि विधिं धर्म्यं सनातनम्
शृङ्गिणो वत्सनाभस्य हिमशैलोद्भवस्य च॥
यवास्सप्त प्रदातव्या अथ वा यद्घृताप्लुताः
मूर्ध्नि विन्यस्तपत्रस्य पत्रे चैतन्निवेशयेत् ॥
त्वं विष ब्रह्मणः पुत्रः सत्ये धर्मे व्यवस्थितः । ६५ ॥
त्रायस्वैनं नरं पापात्सत्येनास्य भवामृतम् ॥
येन वेगैर्विना जीर्णं छर्दिमूर्च्छाविवर्जितम्
तं तु शुद्धं विजानीयादिति धर्मविदो विदुः ॥
तण्डुलानां प्रवक्ष्यामि विधिं धर्म्यं सनातनम्
चौर्ये तु तण्डुला देया न चान्यत्र कथंचन ॥
तण्डुलानुदके सिक्त्वा रात्रौ तत्रैव स्थापयेत
।
तण्डुलान्कारयेच्छुद्धाञ्शालीनां पृथिवीपतिः ॥
मृन्मयं भाजनं कृत्वा सवितुः पुरतः स्थितः
तण्डुलान्मंत्रयेच्शुद्धान्मंत्रेणानेन धर्मतः ॥
दीयते सत्त्वधर्मज्ञैर्मानुषाणां विशोधनम्
ततस्तण्डुल सत्येन धर्मतस्त्रातुमर्हसि ॥
प्रभाते कारयेदेव भक्षणाय न संशयः
त्रिविधः प्राङ्मुखस्येह पत्रे निष्ठीवयेत्ततः ॥
पिप्पलस्याथ भूर्जस्य न त्वन्यस्य कथंचन
शोणितं दृश्यते यस्य तमशुद्धं विनिर्दिशेत् ॥
अथातः संप्रक्ष्यामि तप्तमाषकनिर्णयम्
कारयेदायसं पात्रं ताम्रं वा षोडशाङ्गुलम् ॥
चतुरङ्गुलखातं तु मृन्मयं वापि कारयेत् ॥
पूरयेद्घृततैलाभ्यां पलैर्विंशतिभिस्ततः ॥
सुतप्ते निक्षिपेत्तत्र सुवर्णस्य तु माषकम्
वह्न्यक्तं विन्यसेन्मन्त्रमभिशस्तस्य मूर्धनि ॥
अङ्गुष्ठाङ्गुलियोगेन तप्तमाषं समुद्धरेत्
शुद्धं ज्ञेयमदग्धं तु विस्फोटादिविवर्जितम् ॥
फालशुद्धिं प्रवक्ष्यामि शृणुध्वं द्विजपुङ्गवाः
आयसं द्वादशपलं घटितं फालमुच्यते ॥
अष्टाङ्गुलं समं दीर्घं चतुरंगुलविस्तृतम्
वह्न्यक्तं विन्यसेत्पत्रमभिशस्तस्य मूर्धनि ॥
त्रिः परावर्तयेज्जिह्वां लिहतस्सार्धमङ्गुलम्
गवां क्षीरं प्रदातव्यं जिह्वाशोधनमुत्तमम् ॥
जिह्वापरीक्षणं कुर्याद्दग्धां चेन्न विभाव्यते
तं विशुद्धं विजानीयाद्विशुद्धं चैव मोक्षयेत् ॥
कोषस्याथ प्रवक्ष्यामि विधिं धर्म्यं सनातनम्
योयो यां देवताभक्तः पाययेत्तस्य तूत्तरम् ॥
समभक्तं तु देवानामादित्यस्यैव कारयेत्
उग्राणामपि देवानां वधस्यैव तु दापयेत् ॥
सर्वेषामेव देवानां स्नापयेदायुधं स्वकम्
स्नानोदकं वा सकलमाहरेत विचक्षणः ॥
उन्मुखं करणं कृत्वा पाययेत्प्रसृतित्रयम्
इदं मया नैव कृतं कृतं वाप्यथ शायिना
पीते तु कोशे पुरुषस्य दृष्टा देवोपघातं नृपसंभवं वा ॥
त्रिःसप्तरात्रांतरतो नृपेण भृशं विनेयः पुरुषः स विप्राः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दिव्यप्रमाणनिरूपणं नामाष्टाविंशत्युत्तरत्रिशततमोऽध्यायः ॥
3.229
हंस उवाच ॥
एका द्वे च तथा तिस्रश्चतस्रश्च यथाक्रमम् ॥
शूद्रविट्क्षत्रविप्राणां भार्याः प्रोक्ता मनीषिभिः
शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ॥
ते च स्वा च तथा राज्ञस्ताश्च स्वा चाग्रजन्मनः
न विवर्णा भवेद्भार्या कदाचिदपि कस्यचित् ॥
सवर्णैव भवेज्ज्येष्ठा असवर्णासु सत्स्वपि
अष्टौ विवाहा निर्दिष्टास्तेषां वक्ष्यामि लक्षणम् ॥
आहूय दानाद्ब्राह्मस्तु ऋत्विजैर्दैव उच्यते ॥
गोयुगग्रहणादार्षः प्राजापत्योर्थिते तथा ॥
आसुरो द्रविणादानाद्गान्धर्वस्तु मताद्द्वयोः
राक्षसो युद्धहरणात्पैशाचः कन्यकाच्छलात् ॥
प्राजापत्यस्तथा दैवो ब्राह्मश्चापि शुभास्त्रयः
गान्धर्वो राक्षसश्चैव मध्यमौ परिकीर्तितौ ॥
आसुरश्चैव पैशाच आर्षश्चैव तथाधमः ॥।
न ते कार्याः प्रयत्नेन कदाचिदपि केनचित् ॥
आसुरस्य तथार्षस्य विशेषो नैव विद्यते
शुक्लमेव ततो ज्ञेयमल्पं वा यदि वा बहु॥
प्राणिविक्रयिणः सर्वे नरकं यान्ति मानवाः॥॥
विशेषेण च यः पुत्रं विक्रीणाति स्वकं नरः ॥
नरके वसतिं तस्य बहूनब्दगणान्विदुः
मृते भर्तरि या कन्या केवलं हस्तदूषिता ॥
सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हति
इत्येवं केचिदिच्छन्ति न तन्मम मतं द्विजाः ॥॥
सप्तमे हि पदे वृत्ते नान्यमर्हति सा पतिम्
वाचा दत्ता तु या कन्या मन्त्रैश्चैव न संस्कृता॥
अन्यस्य सा भवेद्देया सति भर्तरि दोषिणी
नष्टे मृते प्रव्रजिते क्लीबेऽथ पतिते पतौ॥
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते
पितापितामहो भ्राता सकुल्यो जननी तथा ॥
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः
यस्तु दोषमनाख्याय कन्यकां संप्रयच्छति ॥
स राज्ञा द्विशतं दत्त्वा बिभृयात्तां च कन्यकाम्
अदुष्टामथ यो दुष्टां ब्रूयाद्दोषेण मानवः ॥
प्रथमं साहसं तस्य राजा दण्डं प्रकल्पयेत्
यस्तु दोषवतीं पत्नीं सम्यक्त्वेनानुवर्त्तते ॥
दण्डयित्वा स्वशक्त्या तं समे पथि निवेशयेत्
भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिबलदर्पिता॥
तां श्वभिः खादयेद्राजा संस्थाने वध्यघातिनाम्
भार्याया व्यभिचारिण्या परित्यागो विधीयते
हीनवर्णगमे चास्या वधमुक्तं मनीषिभिः ॥
भर्त्रनुज्ञां विना राजा स्त्रीणां च प्रभवेत् क्वचित्
अशक्तभर्तृकां नारीं शासयेत्तदनुज्ञया ॥
योन्यस्मै कन्यकां दत्त्वा भूयोन्यस्मै प्रयच्छति
वित्तस्यांशं तुरीयं तु तं राजा दण्डयेन्नरम् ॥
भर्तृदोषे समुत्पन्ने न सा दण्डमवाप्नुयात्
यस्तु न व्रजते भार्यामृतुकाले नराधमः ॥
ऋतावृतौ भवेद्दंड्यः स सुवर्णस्य माषकम्
आहूयमाना या भार्या भर्तारं न व्रजेदृतौ ॥
विवास्या सा भवेद्भर्त्रा दोषं व्याख्याप्य मातरम्
यस्त्यजेच्च तथा भार्यामदुष्टां पुरुषाधमः ॥
स सुवर्णं भवेद्दंड्यो बिभृयात्तां तथा पुनः
विषमं परिणीतासु वर्तते यस्तु मानवः ॥
सवर्णासु भवेद्दण्ड्यः सुवर्णं स महीक्षिता
त्रीणि वर्षाण्युपासीत कुमार्यृतुमती सती ॥
उक्तकालात्परं कन्या विन्देत सदृशं पतिम्
अलङ्कारं नाददीत पित्र्यं कन्या स्वयं वरात् ॥
मातृकं भ्रातृदत्तं वा स्तेयं वा स्याद्धि तं हरेत्
कन्यान्तु चेदृतुमतीं पुरुषो न दद्याच्छक्तोपि न द्विजवरश्च स दण्डनीयः॥
स्वाम्यं न तां प्रति च तस्य भवेत्कदाचित्पुत्रीमृतौ न ददतो न पुनर्द्विजत्वम
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु विवाहधर्मनिरूपणो नामैकोनत्रिंशदुत्तरत्रिशततमोऽध्यायः
3.330
॥ हंस उवाच ॥ ॥
औरसः पुत्रिकापुत्रः क्षेत्रजश्च तथा परः ॥
पौनर्भवश्च कानीनः सहोढश्च तथा सुतः
गूढोत्पन्नो दत्तकश्च क्रीतश्चैव तथा परः ॥
अपविद्धस्तूपगतः शूद्रापुत्रस्तथैव च
एते द्वादश वै पुत्रास्तेषां वक्ष्यामि लक्षणम् ॥
संस्कृतायां स्वयं जातः पुत्र औरस उच्यते
अस्यामुत्पद्यते पुत्रो यः स मे भविता सुतः ॥
एषा दत्तापि या पित्रा पुत्रिका सा निगद्यते
विना वचनदत्तापि भ्रातृहीना तु पुत्रिका ॥।
तत्पुत्रः पुत्रिकापुत्रो द्वितीयः परिकीर्तितः
देवराद्वा सगोत्राद्वा ब्राह्मणाद्वा विचक्षणात् ॥
नियोगोत्पादितः पुत्रः क्षेत्रजः परिकीर्तितः
।
स्वैरिणी या पतिं हित्वा कामतोन्यं समाश्रयेत् ॥
पौनर्भवस्तु तत्पुत्रः चतुर्थः परिकीर्तितः
असंस्कृतायामुत्पन्नः कानीनो भर्तुरेव सः ॥
गर्भिणी या संस्क्रियते सहोढस्तत्सुतो मतः
गृहे च गूढमुत्पन्नो गृहोत्पन्नः प्रकीर्तितः ॥
तस्यां सकाशात्क्रीतश्च क्रीतपुत्रो निगद्यते ॥
ताभ्यां चैवापविद्धस्तु त्वपविद्धस्तु स स्मृतः
विधृतो येन यस्यासौ पुत्रत्वेन निगद्यते ॥
स्वयं यश्चाभ्युपगतः पुत्रत्वे द्विजसत्तमाः
आदौ तु पुत्रिकापुत्रः पश्चाज्जातस्त्वथौरसः ॥
औरसेन समांशस्तु तत्र स्यात्पुत्रिकासुतः
जाते तु पुत्रिकापुत्रे क्षेत्रजोत्पादनं वृथा ॥
समाः समांशिनो ज्ञेया यादृशास्तादृशाः सुताः
प्रतिलोमभवाः पुत्रा न तु रिक्थस्य भागिनः ॥
धनभाग्भरणं तेषां कर्मणा कर्तुमर्हति
तदपत्याः पितृवधे भागिनः परिकीर्तिताः ॥
पैतामहेन ते वित्ते स्वाम्यमर्हति केनचित्
जडान्धबधिरोन्मत्ता भर्तव्यास्तु निरंशकाः ॥
तेषाम्रिमृक्थहराः पुत्रा धने पैतामहे सुताः
पतितानां न भागोस्ति तत्सुतानां च धर्मतः ॥
कर्मणः प्राक्समुत्पन्नाः पतनीयस्य ये सुताः
तेषाम्रिक्थं प्रदातव्यं न तु ते पतिताः स्मृताः॥
प्रायश्चित्ते तथा चीर्णे पतितो भागमर्हति
तत्पुत्रोऽपि तथा विप्रा नात्र कार्या विचारणा ॥
पिता चेद्विभजेत्पुत्रान्स्वेच्छा तस्य स्वके धने
पैतामहे त्वस्वतन्त्रः पिता भवति धर्मतः ॥
पितामहार्जिते वित्ते पितुः पुत्रस्य चोभयोः
स्वाम्यन्तु सदृशं ज्ञेयं पुत्रश्चेद्गुणवान्भवेत् ॥
पितुरूर्ध्वं विभजतां माताप्यंशं सुसंहरेत्
सवर्णास्तु सुताः सर्वे तथा ज्ञेयाः समांशिनः ॥
ज्येष्ठस्य किञ्चिदधिकं दातव्यं नात्र संशयः
ब्रह्मदेवासुतस्यापि तौ हि मान्यतमौ समौ ॥
पैशाचाऽसुरयोर्जातौ यथा पौनर्भवस्तथा
चतस्रस्तु यदा भार्या भवन्ति ब्राह्मणस्य तु ॥
तासां पुत्रेषु दायं यत्तद्वित्तं विभजेन्नृपः
चतुरोंशान्हरेद्विप्रस्त्रीनंशान्क्षत्रियासुतः ॥
वैश्यापुत्रो हरेद्द्व्यंशमंशं शूद्रासुतो हरेत्
ब्राह्मणौ यदि पुत्रौ द्वौ चैकः शूद्रासुतो भवेत् ॥
नवधा ब्राह्मणधनं विभज्यमिति निश्चयः
अष्टौ ब्राह्मणयोर्भागाः शूद्रस्य नवमो भवेत् ॥
द्वौ विज्ञेयौ सुतौ स्यातामेकश्च ब्राह्मणीसुतः
ब्राह्मणस्वं तथा षोढा विभज्यमिति निश्चयः ॥
द्वावंशौ शूद्रयोर्देयौ चतुरोंशा हि वै द्विजाः
अनेनैवानुसारेण सर्वत्रैवांशकल्पना ॥
असवर्णासु जातानां कर्तव्या पृथिवीक्षिता
षोढा तत्क्षत्त्रियधनं कर्तव्यमिति निश्चयः ॥
क्षत्त्रियायां ततः पुत्रा वित्ततोंशत्रयं हरेत्
वैश्यापुत्रो हरेद्द्व्यंशमंशं शूद्रासुतो हरेत् ॥
वैश्यास्वं तु त्रिधा कार्यं शृणु तत्रापि कल्पना
वैश्यापुत्रो हरेद्व्यंशमंशं शूद्रासुतो हरेत् ॥
अपुत्रस्य तु दौहित्रो रिक्थमर्हति धर्मतः
दौहित्रस्याप्यभावे तु दुहितापि धनं हरेत्॥
तदभावे तदा भार्या तदभावे सहोदरः ॥
तस्याप्यभावे जननी तदभावे पिता हरेत् ॥
भ्रातरस्तदभावे तु भ्रातृपुत्रस्ततो हरेत्
सहोदरभ्रातृसुतो विद्यमाने कथंचन ॥
नान्यभ्रातृभवो भ्राता प्राप्नुयादिति निश्चयः
अन्यभ्रातृभवभ्रातुः पुत्रो यत्र व्यवस्थितः ॥
पितृव्यभ्रातृपुत्रस्तु नैव तत्र धनं हरेत्
अनन्तरं सपिण्डाद्यस्तस्यतस्य धनं हरेत् ॥
तदभावे सकुल्यस्य तदभावे गुरोर्भवेत्
शिष्यस्य तदभावे तु द्विजानां तदभावतः ॥
त्रैविद्याः समया दान्तास्तस्य वित्तस्य भागिनः
ब्राह्मणस्वमनाहार्यं पार्थिवानां सदा भवेत् ॥
इतरेषान्तु वर्णानां सर्वाभावे हरेन्नृपः
पुत्रौ तु विवदेयातां द्वाभ्यां जातौ स्त्रिया धने ॥
तयोर्यद्यस्य पित्र्यं स्यात्तत्संगृह्णीत नेतरः
मातृकं यद्भवेद्वित्तं कुमारीणां तु तद्भवेत् ॥
तदभावे तु सोढानां सुतानां तदभावतः
अध्यग्न्यध्यावनिकं दत्तं च प्रीतिकर्मणा ॥
भ्रातृमातृपितृप्राप्ते षड्विधं स्त्रीधनं स्मृतम्
ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद्द्वयम् ॥
अप्रजायामतीतायां भर्तुरेव तदिष्यते
यथान्येषु पितृगामि . . . धनानि . . . भवेत् ॥
पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत्
न तं भजेरन्दायादा भजमानाः पतन्ति ते ॥
भ्रातृणामेकजातानां यद्येकः पुत्रवान्भवेत्
सर्वे ते तेन पुत्रेण पुत्रवन्त इति श्रुतिः ॥
सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत्
पुत्रवत्यस्तु तास्सर्वास्तेन पुत्रेण कीर्तिताः ॥
अनुपघ्नं पितृद्रव्यं श्रमेण यदुपार्जितम्
स्वयमीहितलब्धं तं नाकामो दातुमर्हति ॥
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः
म्रियेतान्यतरो वाऽपि तस्य भागो न नुलुप्यते ॥
सोदर्या विभजेरंस्तं समेत्य सहिताः समम्
भ्रातरो ये च संसृष्टा भगिन्यश्च सजातयः ॥
विभक्ते तु धने जाताः पित्र्यमेव धनं हरेत्
विभक्तैर्वास्य दातव्यमंशमंशानुरूपतः ॥
स्वभागस्यानुसारेण दत्त्वा भागं यथाक्रमम्
असंस्कृतास्तु संस्कार्या विभक्तैः कन्यकास्तथा ॥
प्रविभागे कृते यत्र पश्चाछिष्येत वै धनम्
पूर्वोक्तेनानुसारेण विभागं तत्र कारयेत् ॥
वस्त्रं पत्रमलङ्कारं कृतान्नमुदवकं स्त्रियः
योगक्षेमप्रचारे च न विभज्यं च पुस्तकम् ॥
रिक्थग्राही ऋणं दद्यात्पिण्डं दद्यात्स एव तु
भर्तव्यान्बिभृयात्तस्य सर्वानिति मतिर्मम ॥
रिक्थग्राही न यः कुर्यात्प्रेतकर्म यथाविधि
तस्करं तं स्वकाद्राष्ट्रात्क्षिप्रं राजा विवासयेत् ॥
राजगामी भवेद्विप्रा यस्य वित्तं तु कर्हिचित्
राजापि दापयेत्पिण्डं तस्य भृत्यैर्यथाविधि ॥
यस्यां नराणामिह वित्तभागी ऋणस्य भागी स तथा निरुक्तः ॥
ऋणावशिष्टं पुरुषस्तु नित्यं भुक्त्वा द्विजेन्द्राः सुकृती सदा स्यात्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दायविभागवर्णनो नाम त्रिंशदुत्तरत्रिशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0