विष्णुधर्मोत्तरपुराणम् · अध्याय 3.321.325
3.321
॥ ऋषय ऊचुः ॥ ॥
क्व काले कर्मणा केन प्राप्नुवन्ति नरोत्तमाः॥
तत्त्वमस्माकमाचक्ष्व त्वं हि सर्वविदर्हसि
॥ हंस उवाच ॥ ॥
ज्येष्ठस्वसारं पितरं मातरं गुरुमेव च ॥
नित्यं सम्पूजयेद्भक्त्या याम्यलोके महीयते
भोजनाच्छादनाद्येन त्वतिथिं चैव पूजयेत् ॥
राजराजस्य लोकेषु मोदते नात्र संशयः
मेरोः समीपं गच्छन्वै नित्याध्ययनतत्परः ॥
सुदर्शना यत्र च सा जम्बूः ख्याता द्विजातयः
नृत्ते गीते च कुशलं नन्दनं यान्ति ते वनम् ॥
हिमानि वृत्ता गच्छन्ति तथा चैवोत्तरान्कुरून्
नित्यं दानपराः सन्तो लोकं गच्छन्ति शाश्वतम् ॥
आदित्यलोकं गच्छन्ति तथा ये तपसि स्थिताः
तीर्थयात्रापरा यान्ति तथा लोकं प्रचेतसः ॥
संग्रामे निहता यान्ति शक्रलोकमसंशयम्
प्राजापत्यं तथा यांति सम्यग्वृत्वा महीक्षितः ॥
गवां पत्या तथा यांति गोलोकं मानवोत्तमाः
यान्ति लोकं च सूर्यस्य नित्यं ये सत्यभाषिणः॥
प्रतिग्रहान्निवृत्ताश्च वसूनामपि मानवाः
वायुलोके महीयन्ते रोगिणां परिचारकाः ॥
लोकं गच्छन्त्यथाग्नेयं वह्निशुश्रूषणे रताः
।
यांति ते नैरृतं लोकं प्रपारक्षणतत्पराः ॥
भृगूणामपि लोकेषु मोदन्त्याकाशशायिनः
यांति चाङ्गिरसं लोकं व्रतेनानेन मानवाः ॥
मरुतां च तथा लोकं यांति यानप्रदा नराः
नासत्यलोके मोदन्ते तथैवौषधदायिनः ॥
रुद्रलोकं प्रपद्यन्ते गोविप्रनरवत्सलाः
।
स्वाचारनिरता यांति वैश्वदेवमसंशयम् ॥
आदित्यैः सह मोदंते दयावन्तस्तु ये नराः
ब्रह्मलोकं विष्णुलोकं रुद्रलोकं तथैव च ॥
तद्भक्तैरेव लभ्यन्ते नान्यथा द्विजसत्तमाः
यस्य देवस्य यो भक्तिं सदा वहति मानवः॥
सम्पदस्तस्य सालोक्यं यांति नास्त्यत्र संशयः
लोकेषु दिव्येषु गतिर्मयोक्ता कर्मानुरूपा पुरुषस्य विप्राः ॥
अतः परं किं कथयाम्यहं वै तन्मे गदध्वं तपसि प्रधानाः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु लोकविभागवर्णनो नामैकविंशत्यधिकत्रिशततमोऽध्यायः
3.322
॥ ऋषय ऊचुः ॥
कथयस्वामितप्राज्ञ स्त्रीणां धर्ममतः परम् ॥
तद्वयं श्रोतुमिच्छामस्त्वं हि सर्वविदुच्यसे
॥ हंस उवाच ॥
स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः ॥
सधर्मचारिणी भर्तुर्भवेदग्निसमीपतः
सुस्वभावा सुविमना सुविभक्ता सुदर्शना ॥
अनन्यचित्ता सुमुखी भर्तुस्सा धर्मचारिणी
पुत्रवक्त्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षती ॥
या साध्वी नियताचारा सा भवेद्धर्मचारिणी
श्रुत्वेदं पतिधर्मं वै महाश्रमकृतं शिवम् ॥
या भवेद्धर्मपरमा नारी भर्तृसमव्रता
देववत्सततं साध्वी भर्तारमनुपश्यति॥
शुश्रूषां परिचर्याञ्च देवतुल्यं प्रकुर्वती
वश्याभावेन सुमनाः सुव्रता सुसमाहिता ॥
अनन्यचित्ता सुमना भर्तुः सा धर्मभागिनी
पारुष्यमपि वोक्ता या दृष्टा वा क्रूरचक्षुषा ॥
सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता
न चन्द्रसूर्यौ तद्रूपं नेनौ या च निरीक्षते॥
भर्तृवर्जं वरारोहा सा भवेद्धर्मभागिनी
दरिद्रं व्याधितं दीनं चाधिना परिकीर्तितम् ॥
पतिम्पुत्रमिवारक्षेत्सा नारी धर्मभागिनी
या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत् ॥
पतिव्रता पतिप्राणा सा नारी धर्मभागिनी
शुश्रूषां परिचर्याञ्च करोत्यविमनाः सदा ॥
सुप्रतीता सुमनाः सा नारी धर्मभागिनी
न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा ॥
स्पृहा यस्या यथा भर्तुः सा नारी धर्मभागिनी
कामार्था न व्रता नित्यं गृहशुश्रूषणे रता ॥
सुसम्मृष्टक्षया चैव गोशकृत्कृतलेपना
अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा ॥
देवतातिथिभृत्यानां निरूप्य पतिना सह
शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि ॥
तुष्टभृत्यजना नित्यं नारीधर्मेण युज्यते
श्वश्रूश्वशुरयोः पादाँस्तोषयन्ती गुणान्विता ॥
मातापितृरता नित्यं या नारी सा तपोधना
ब्राह्मणान्दुर्बलानाथदीनान्धकृपणाँस्तथा ॥
बिभर्त्यनेन या नारी सा पतिव्रतभागिनी
व्रतञ्चरति या नित्यं दुश्चरं स्पष्टमानसा ॥
पतिचित्ता पतिरता सा पतिव्रतभागिनी
पुण्यमेतत्तपश्चैव स्वर्गश्चैव सनातनः ॥
या नारी भर्तृपरमा भवेद्भर्तृवता शिवा
पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः ॥
पत्या गतिः समा नास्ति दैवतं वा यथा पतिः
पतिः स्वर्गप्रदो नार्या यदा तल्पमना भवेत् ॥
यद्यत्कार्यमकार्यं वा यदि वा प्राणनाशनम्
पतिः पातकयुक्तो वा व्याधितो वा कथञ्चन ॥
आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा
आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया ॥
स्वातंत्र्यमुक्तम्परमं हि पापं स्त्रीणां सदा तेन सदैव नारी ॥
स्वातन्त्र्यहीना सततम्भवेद्धि या कामयेन्नाकमितश्चिराय
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्र सं० मुनीन्प्रति हंसगीतासु स्त्रीधर्मनिरूपणोनाम द्वाविंशत्यधिकत्रिशततमोऽध्यायः
3.323
॥ हंस उवाच ॥ ॥ ॥
स्वेस्वे धर्मे व्यवस्थानं वर्णानां पृथिवीपतेः ॥
परो धर्मः सदा प्रोक्तस्तत्र यत्र भवेन्नरः
देवब्राह्मणगोसाध्वीसाधूनामपि पूजनम् ॥
निग्रहश्चैव दुष्टानान्नृपतेर्धर्मकारणम्
समता व्यवहारेषु स्वयञ्चैवान्ववेक्षणम् ॥
राज्ञां धर्मं परं विद्यात्तथा वै चारदृष्टिता
स्वदेशपालनं धर्मः परराष्ट्राभिमर्दनम् ॥
यज्ञदानक्रिया चैव संग्रामे चापलायनम्
मृगयाक्षा तथा पानं गर्हितानि महीभुजाम् ॥
वाग्दण्डयोस्तु पारुष्यन्तथैवार्थस्य दूषणम्
सन्धिविग्रहदानानामासनस्य तथैव च ॥
द्वैधीभावस्य चाप्युक्ता सेवा वै संश्रयस्य च
ज्ञात्वा कालञ्चलं राजा षाड्गुण्यस्य हि निश्चये ॥
इन्द्रियाणाञ्जये यत्नः सदा स्याद्द्विजपुङ्गवाः
ततो भृत्यजयः कार्यः समस्तविजयस्ततः ॥
कामः क्रोधो मदो लोभो मानो हर्षस्तथैव च
आभ्यन्तरा विजेतव्या रिपवः षण्महीभुजा ॥
ततस्तु शत्रवो जेयाः कुल्याश्चेतरकृत्रिमाः
भूमिमित्रहिरण्यानामर्ज्जने यत्नवान्भवेत् ॥
धर्मार्थकामसेवा च सदा कार्या महीक्षिता
स्वाम्यमात्यञ्जनं दुर्गं कोशो दण्डः सुहृत्तथा ॥
राज्ये प्रकृतयः सप्त रक्ष्या यत्नेन भूभुजा
दैवमन्त्रप्रभूत्साहशक्तियुक्तस्तथा भवेत् ॥
मङ्गलाचारयुक्तानां सिध्यन्ते देवशक्तयः
चतुरङ्गबलं कुर्यात्सुभृतञ्च तथा नृपः ॥
कर्मणा मनसा वाचा सदा लोकं प्रसादयेत्
महच्चावरणं कार्यन्नित्यमेव समृद्धये ॥
राजा सहायसम्पन्नः पशव्यञ्जाङ्गलं शिवम्
वैश्यशूद्रजनप्रायमरोगं देशमावसेत॥
तत्र दुर्गाणि कुर्वीत स्वदुर्गञ्च विशेषवत्
धन्वदुर्गम्महीदुर्गं गिरिदुर्गन्तथैव च ॥
अदुर्गं वृक्षदुर्गञ्च नरदुर्गन्तथैव च
एषामन्यतमे दुर्गे धनधान्यसमायुते ॥
हस्त्यश्वरथसम्पन्ने मणिभीरूपशोभिते
पत्त्याढ्ये योधबहुले युद्धोपकरणैर्युते ॥
सुसञ्चिते धनाढ्ये च बहुपेये बहूदके
हस्त्यश्वनरगोवैद्यसांवत्सरयुते शुभे ॥
घृततैलौषधियुते सर्वोपकरणैस्तथा
प्राकारपरिखावप्रगोपुराट्टालकैर्युते ॥
पापतस्करदुर्वृत्तक्रुद्धलुब्धादिवर्जिते
दैवज्ञस्थपतिभ्यान्तु संमत्या शुभलक्षणम् ॥
तत्रावसेत्स्वयं राजा सर्वोपकरणैर्युतम्
कुलीनां रूपसम्पन्नां सवर्णाञ्च नराधिपः ॥
कुर्याद्भार्यां सुशीलाञ्च विनीतां धर्मवत्सलाम्
तया सह सदा राजा गृहस्थाश्रमचोदितम् ॥
पञ्चयज्ञविधानन्तु कारयेत पुरोहितम्
यजेच्च विविधैर्यज्ञैः पूजयेद्देवतास्तथा ॥
देवतायतनान्कूपांस्तडागांश्चैव कारयेत् ॥
उद्यानानि विचित्राणि गोब्राह्मणगृहाणि च ॥
दुष्टदण्डः सताम्पूजा धर्मेण च धनार्जनम्
राष्ट्ररक्षा समत्वञ्च व्यवहारेषु पञ्चकम् ॥
भूमिपानाम्महायज्ञाः सर्वकल्मषनाशनाः
गणं लक्षणसंयुक्तं तुरगञ्चाभिषेचयेत् ॥
सलक्षणं तथा रत्नं खड्गकम्बिभृयान्नृपः
दुर्गस्थश्च नियुञ्जीत ग्रामेग्रामे च पालकान् ॥
दशग्रामाधिपांश्चान्यं शतग्रामाधिपांस्तथा
देशेश्वरांस्तथा कुर्यान्नगरस्थान्विशेषतः ॥
ग्रामदोषान्समुत्पन्नान् ग्रामपालः शमं नयेत्
अशक्तश्च दशेशाय स तु गत्वा निवेदयेत् ॥
शतेशाय दशेशस्तु शतेशो देशपाय च
ग्रामादिपालकानां तु शौचाशौचं नराधिपः ॥
चारैः सुविदितं कुर्याज्ज्ञात्वा दुष्टांश्च घातयेत्
राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः ॥
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेद्वसुन्धराम्
तथा च रक्षाधिकृताननुरूपेण योजयेत् ॥
विभवेन द्विज श्रेष्ठाः परीक्ष्य च पुनःपुनः
राजा कर्मनियुक्तानां स्त्रीणां प्रेष्यजनस्य च ॥
प्रत्यहं कल्पयेद् वृत्तिं स्थानकर्मानुरूपतः
आयद्वारांश्च नोच्छिन्द्याद्विशेषद्वारकानपि ॥
सम्यग्बलिश्च गृह्णीयान्मालाकारोपमां नृपः
क्रयविक्रयमध्वानं भक्तञ्चासपरिव्ययम् ॥
योगक्षेमञ्च सम्प्रेक्ष्य वणिजो दापयेत्करम्
यथा फलेन युज्येत राजा कर्त्ता च कर्मणाम् ॥
तथावेक्ष्य नरो राष्ट्रे कल्पयेत्सततं करम्
पञ्चाशद्भाग आदायो राज्ञाम्पशुहिरण्ययोः ॥
धान्यानाञ्च तथा षष्ठं सस्यानाञ्च महीक्षिता
।
षष्ठमेव तथा भागं माषाणां मधुसर्पिषाम् ॥
गन्धौषधिरसानाञ्च पुष्पमूलफलस्य च
पत्रशाकतृणानाञ्च चर्मणां द्वैदलस्य च ॥
मृन्मयानाञ्च भाण्डानां सर्वस्याश्ममयस्य च
यत्किञ्चिदपि वर्षस्य दापयेत्करसंज्ञितम् ॥
व्यवहारेण जीवन्तं राष्ट्रे राज्यं पृथक्पृथक्
राजदूतकरेभ्यश्च गृह्णीयात्पञ्चकं शतम् ॥
पञ्चपञ्चशतन्तत्र समिकः प्राप्तुमहर्ति
कारुकाञ्शिल्पिनश्चैव शूद्रधर्मोपजीविनः ॥
एकैकं कारयेत्कर्म मासिमासि महीपतिः
स्वदेशपण्याच्छुल्कांशं गृह्णीयाद्दशमं नृपः ॥
विदेशपण्याच्च तथा देयम्पञ्चशतं समम्
शुल्कस्थानम्भवेदेकं न द्वितीयं कथञ्चन ॥
शुल्कं भूयस्तु गृह्णीतश्चौरस्याप्नोति किल्बिषम्
न भिन्नकार्षापणमस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते ॥
न भैक्ष्यलब्धेन हतावशेषे न श्रोत्रिये प्रव्रजिते न यज्ञे
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु राजधर्म्मनिरूपणो नाम त्रयोविंशत्यधिकत्रिशततमोऽध्यायः
3.324
ऋषय ऊचुः ॥
राज्ञो धर्मस्त्वया प्रोक्तो व्यवहारान्ववेक्षणम् ॥
तदस्माकं त्वमाचक्ष्व त्वं हि सर्वविदुच्यसे
हंस उवाच ॥
आसीत्कृतयुगे पूर्वे प्रजाधर्मनिबन्धनः ॥
ततस्त्रेतायुगे तेषां धर्मो नाशमुपागमत्
धर्मे नष्टे मनुष्याणां व्यवहारः प्रवर्तितः ॥
द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः ॥
कुलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः ॥
द्रष्टारो व्यवहाराणां गुरवो ह्युत्तरोत्तरम्
व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह ॥
धर्मशास्त्रानुसारेण रागद्वेषविवर्जितः
कुलोद्गता स्थिता धर्मे मृजायुक्ताः श्रुतान्विताः ॥
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥
अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु ॥ ॥
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित्
क्षत्त्रियस्त्वथ वा वैश्यो न तु शूद्रः कदाचन ॥
यस्य राज्ञस्तु विषये शूद्रो धर्मविवेचकः
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः ॥
विवादाद् द्विगुणं दंडं कूटकृत्साक्षिणस्तथा
द्विगुणं च तथा सभ्या रागद्वेषव्यवस्थिताः ॥
दुर्मृष्टव्यवहारेण राज्ञा वित्तं यदर्जितम्
त्रिंशद्गुणं तु दातव्यं ब्राह्मणेष्वथ वांभसि ॥
स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥
प्रत्यर्थिनस्तथा कुर्यादाह्वानं पृथिवीपतिः
अनागच्छञ्जितो राज्ञा विनेयः पुरुषो भृशम्॥
नदीसन्तारकारण्यदुर्देशोपप्लवादिषु
नागस्थो न स दंड्यः स्यान्नासौ राज्ञोपराध्यति ॥
निवेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः
अभियुक्तस्तथान्येन राजकार्यरतस्तथा ॥
गवां प्रचारे गोपालाः सम्पत्काले कृषीवलाः
शिल्पिनश्चैव तत्कालं चायुधेयाश्च विग्रहे ॥
अपास्तव्यवहाराश्च दूतदानो मुखी व्रते
विषमस्थश्च नासाध्या नचैनांश्चाह्वयेन्नृपः ॥
प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिनः
समामासतदर्धाहर्ज्ञातिनामादिचिह्नितम् ॥
श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ
ततोर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ॥
चतुर्धा तच्च कथितं मुनिभिस्तत्त्वदर्शिभिः
लिखितं साक्षिणो भुक्तिश्चतुर्थी वैदिकी क्रिया ॥
सारस्तु व्यवहाराणां प्रतिष्ठा समुदाहृता
तत्सिद्धौ सिद्धिमाप्नोति विपरीतमतोन्यथा ॥
अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् । २१ ॥
कुर्यात्प्रत्यभियोगं च कलहे साहसेषु व ॥
उभयोः प्रतिभुवौ ग्राह्यौ समर्थौ कार्यनिर्णये ॥
साहसस्तेयपारुष्ये ह्यभिशापात्यये स्त्रियम् ॥
विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः
देशाद्देशान्तरं याति सृक्किणी परिलेढि च ॥
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमेति च
परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ॥
अभियोगेथ वा साक्ष्ये दुष्टः स परिकीर्त्यते
आकारैरिङ्गितैर्गत्या चेष्टितैर्भाषितेन च ॥
नेत्रवक्त्रविकाराभ्यां गृह्यतेंऽतर्गतं मनः
त्रिपक्षाद्विजितो ज्ञेयस्तूत्तरस्याप्रयच्छतः ॥
सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया
आधौ प्रतिग्रहे क्रीते पूर्वात्तु बलवत्तरा ॥
सर्वोपद्रवकर्तारमेकदेशविभावितम्
सर्वस्माद्धीयते चार्थादिति धर्मविदो विदुः ॥
बलोपधिनिवृत्ताँस्तु व्यवहारान्निवर्त्तयेत्
स्त्रीनक्तमन्तरागारबहुशत्रुकृताँस्तथा ॥
रोगार्त्तभीतव्यसनिबालशिष्यकृतानि तु
अकृतानि विजानीयात्तथा दासकृतानि तु॥
गुरोर्वाक्येन शिष्यस्य पितृवाक्यात्सुतस्य च
दासस्य स्वामिवाक्येन व्यवहारस्तु सिद्ध्यति ॥
स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि
विशेषतो धनक्षेत्रे दायादधनविक्रमाः ॥
एतान्येव प्रमाणानि भर्ता यद्यनुमन्यते
पुरः पत्युरभावेन राजा वा पितृपुत्रयोः ॥
बाल आषोडशावर्षात्पौगण्डश्चाभिशस्यते
परतो व्यवहारज्ञः स्वतन्त्रः पितरं विना ॥
अप्राप्तव्यवहारस्य स्वातंत्र्यं मातुरुच्यते
अस्वतन्त्रकृतान्याहुरप्रमाणानि पंडिताः ॥
नानियुक्तेन वक्तव्यं व्यवहारे कथंचन
अनियुक्तवचो दण्ड्यो राजा रुक्मस्य कृष्णलम् ॥
नियुक्तो न नियुक्तो वा विद्या वाक्यमुदाहरन्
सर्वस्वरहितः कार्यो लेखकोऽनृतलेखकः ॥
लेखकस्य च सभ्यानां साक्षिणां यश्च दूषकः
अनाहूतस्य चाह्वाने आहूतस्य च मोक्षणे ॥
अजितोऽस्मीति मन्वानो ब्रूयात्तं तु पराजितम्
राजा तान्विनयेद्विप्रान्दंडेन द्विगुणेन च ॥
सभा वा न प्रवेष्टव्या वक्तव्यं वासमंजसम्
अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी ॥
पादो धर्मस्य कर्तारं पादः साक्षिणमेव च
पादः सभासदः सर्वान्पादो राजानमृच्छति ॥
राजा भवत्यनेनास्तु निन्दार्हो यत्र निन्द्यते
एनो गच्छति कर्तारं मुच्यन्ते च सभासदः ॥
छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः
भूतमप्यनुपन्यस्तं व्यवहारेण हीयते॥
सपणश्चेद्विवादः स्यातद्धनं दापयेन्नरः॥
दण्डं च स्वपणं चैव धनिके धनमेव च
न सा सभा यत्र न संति वृद्धा न ते वृद्धा ये न वदंति धर्मम्॥
न तद्धर्मं यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम्
इति श्रीविष्णुधर्मोत्तरे तृ०ख० मा० संवादे मुनीन्प्रति हंसगीतासु व्यवहारनिरूपणो नाम चतुर्विंशत्युत्तरत्रिशततमोऽध्यायः
3.225
हंस उवाच ॥
संभोगो दृश्यते यत्र न दृश्येतागमः क्वचित् ॥
आगमः कारणं तत्र न भोगस्तत्र कारणम्
आगमेन विशुद्धेन भोगो याति प्रमाणताम् ॥
अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति
आहंतैवाभियुक्तः सन्नर्थानामुद्धरेत्पदम् ॥
भुक्तिरेव विशुद्धा स्यात्प्राप्तानां पितृतः क्रमात्
अन्वाहितः ..... हेले विस्पष्टयाचितम् ॥
अप्रत्यक्षं च यद्भुक्तं न चेद्भोगेन जीर्यते
पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ॥
परेण भुज्यमानाया धनस्य दशवार्षकी
त्रिभिरेव तु यद्भुक्तं पुरुषैस्तु यथाविधि ॥
लेख्याभावेपि तं तत्र चतुर्थः समवाप्नुयात्
आगमोप्यधिको भुक्तेर्विनापूर्वक्रमागतात् ॥
आगमोपि बली नैव भुक्तिस्तत्रापि यत्र न
आध्याभिहस्ता स भृशं विनेया दण्डेन विप्रा द्विगुणेन राज्ञा ॥
लोके न दुष्टः स तु कंटकः स्यात्पापात्मनां मूर्धनि तिष्ठतीति॥॥॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु भोगलक्षणवर्णनो नाम पञ्चविंशत्युत्तरत्रिशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0