विष्णुधर्मोत्तरपुराणम् · अध्याय 3.316.320
3.316
॥ ऋषय ऊचुः ॥
कस्य दानस्य कः पात्रं तद्वदस्व महामते ॥
कस्मिन्देशे तथा काले किञ्चिद् दत्तं महाफलम्
॥ हंस उवाच ॥ ॥
न दानं यशसे दद्यान्न दद्यान्नोपकारिणे ॥
न नृत्यगीतशीलेभ्यो नास्तिकेभ्यश्च धार्मिकः
पापशीले न दातव्यं कदाचिदपि किञ्चन ॥
पापशीले तु यद्दत्तं तद्दातुदोषमावहेत्
धनदस्तेन पापेन शीघ्रमेवेह युज्यते ॥
तस्मात्प्राप्य धनं पुण्यं पुण्यशीलं समाचरेत्
धनदस्तेन पुण्येन योगमाप्नोत्यसंशयम् ॥
अन्नदानेन कर्तव्यं पात्रावेक्षणमण्वपि
अन्नं सर्वत्र दातव्यं धर्मकामेन वै द्विजाः ॥
सदोषेपि तु निर्दोषं सगुणेतिगुणावहम्
तस्मात्सर्वप्रयत्नेन देयमन्नं सदैव तु ॥
विद्याध्ययनसक्तानामन्नदानं महाफलम्
शुभानामप्यथान्येषां कर्मणां द्विजपुङ्गवाः ॥
यस्यान्नमुपयुञ्जानो नरः कर्माणि साधयेत्
कर्म साधयतः पुण्यमन्नदाता तथाश्नुते ॥
दत्त्वा नृपतिभीतानां धनिनाञ्च तथा धनम्
तस्करेभ्यश्च भीतानां फलमक्षयमश्नुते ॥
यियक्षता तथा दत्तं व्यसने हंतुमिच्छता
दुःखान्वितानां दीनानाञ्चाक्षयं तत्प्रकीर्तितम् ॥
विवाहमेखलाबन्धप्रतिष्ठादिषु कर्मसु
आपन्नेषु च यद्दत्तं तदक्षय्यमुदाहृतम् ॥
यज्ञोपकरणं द्रव्यं क्षत्त्रिये द्विजपुङ्गवाः
पुण्योपयोगि तद्वैश्ये शूद्रे शिल्पोपजीविनम् ॥
यस्योपयोगि यद्द्रव्यं देयं तस्यैव तद्भवेत्
येनयेन च भाण्डेन यस्य वृत्तिरुदाहृता ॥
तत्तु तस्यैव दातव्यं पुण्यकामेन धीमता
दण्डं कृष्णाजिनञ्चैव तथा विप्राः कमण्डलुम् ॥
चीरं पुण्यमवाप्नोति दत्त्वैतां ब्रह्मचारिणे
वस्त्रं शय्यासनं धान्यं द्रव्यं वेश्म परिच्छदम् ॥
गृहस्थाय तु तद्दत्तं ज्ञेयं बहुफलं सदा
नीवारवल्कलं शाकं फलमूलं च गोरसम् ॥
वानप्रस्थाय तद्दत्तमनन्तं परिकीर्तितम्
भिक्षाप्रदानं यतये पात्रदानं तथा हितम् ॥
सौभाग्यद्रव्य ताम्बूलरक्तवस्त्रादिकं स्त्रियः
स्त्रीणां प्रदानं दातव्यं भर्तृहस्ते तु नान्यथा ॥
प्रोक्तं संग्रहणं ह्येतद्गुप्तं भर्तुः प्रयच्छतः
अन्नं प्रतिश्रयं चोभौ पान्थे दत्तं महाफलम् ॥
विवाहादिक्रियाकाले तत्क्रियासिद्धिकारकम्
यः प्रयच्छति धर्मज्ञाः सोश्वमेधमवाप्नुयात्॥
आतुरेभ्यो धनं दत्त्वा दानं बहुफलं लभेत्
बाले क्रीडनकं दत्त्वा मिष्टमन्नं तथैव च ॥
फलं मनोहरं वापि अग्निष्टोमफलं लभेत्
मिष्टान्नं मानवो दत्त्वा मिष्टान्नानि तु कांक्षताम्॥
अक्षयं फलमाप्नोति स्वर्गलोकं च गच्छति
श्रीविहीने तथा दत्त्वा भोजनं द्विजसत्तमाः ॥
वस्त्रं शुभं वा धर्मज्ञाः पुण्यं महदुपाश्नुते
कृपास्थानपरो विप्रा विद्युतः पुरुषः श्रिया ॥
तस्यानुकम्पा कतर्व्या सतां वर्त्मनि तिष्ठतः
कार्ये समुद्यमं कृत्वा परेषां समुपस्थिते ॥
अक्षयं फलमाप्नोति नात्र कार्या विचारणा
यवसानां प्रदानेन धेनुमत्सु द्विजातिषु ॥
लवणानाञ्च धर्मज्ञा फलमक्षयमश्नुते
प्रसवेषु तदा दत्तं व्यसनान्युभये ततः ॥
तद्दानमक्षयं प्रोक्तं पुरुषस्य विपश्चितः
दत्त्वा ब्राह्मणशार्दूला जलमात्रमथार्थिने ॥
फलमक्षयमाप्नोति नात्र कार्या विचारणा
क्लेशं विना दत्तमथार्थिने तु दानं हि लोके फलदं निरुक्तम् ॥
अभ्यर्थितेनाथ ततो न कार्या विमानना त्वर्थिजनस्य शक्त्या
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु पात्रविशेषेण दानविशेषवर्णनो नाम षोडशाधिकत्रिशततमोऽध्यायः
3.317
ऋषय ऊचुः ॥
दानं बहुफलं काले यस्मिन्यत्परिकीर्तितम् ॥
तत्त्वमस्माकमाचक्ष्व त्वं हि सर्वविदुच्यसे
हंस उवाच ॥
संवत्सरे तथा दानं तिलस्य च महाफलम् ॥
परिपूर्वे तथा दानं यवानां द्विजसत्तमाः
इडापूर्वेन्नवस्त्राणां धान्यानां चानुपूर्वके ॥
उदासंवत्सरे दानं रजतस्य महाफलम्
उत्तरे त्वयने प्रोक्तं वस्त्रदानं फलप्रदम् ॥
स्नानानुलेपनादीनां वसन्ते द्विजपुङ्गवाः
पानकानां तथा ग्रीष्मे छत्राणां तदनन्तरे ॥
शरद्यन्नस्य धर्मज्ञा वस्त्राणामपि हैमने
वह्निदानं नरः कृत्वा सूर्यस्योदयनं प्रति ॥
शिशिरे सततं वह्निं तर्पयित्वा तथा तिलैः
कुल्माषं सघृतं दत्त्वा यथाशक्त्या द्विजातिषु ॥
कायाग्निदीप्तिं प्राकाश्यं शत्रुनाशञ्च विन्दति
सक्तून्सिताखण्डयुतांस्त्रपुसोर्वारुकान्वितान् ॥
जलकुम्भोपरिकृतानक्षयं फलमश्नुते
मध्याह्ने प्रावृषि स्नातः सततं द्विजपुङ्गवाः ॥
तिलप्रदानान्माघे तु प्राप्यलोकं स गच्छति
प्रियङ्गुं फाल्गुने दत्त्वा प्रियो भवति भूतले ॥
चैत्रे चित्राणि वस्त्राणि सौभाग्यं महदश्नुते
अपूपानां प्रदानेन वैशाखे स्वर्गमश्नुते ॥
छत्रदानं तथा ज्येष्ठे सर्वान्कामानुपाश्नुते ॥
दत्त्वा चोपानहौ स्वर्गञ्चाषाढे ध्रुवमश्नुते
श्रावणे वस्त्रदानस्य कीर्तितं सुमहत्फलम् ॥
प्रोष्ठपादे तथा मासि प्रदानात्फाणितस्य च
आश्विने घृतदानेन रूपवानभि जायते ॥
कार्तिके दीपदानेन सर्वत्रौजस्यमश्नुयात्
लवणं मार्गशीर्षे तु दत्त्वा सौभाग्यमश्नुते ॥
पौषे कनकदानेन परां पुष्टिं तथैव च
पुष्पाणां च सिते पक्षे दानं लक्ष्मीकरं स्मृतम् ॥
फलानां च तथा दानं कृष्णपक्षे महाफलम्
लवणाज्यगुडोपेतमपूपं सूर्यवासरे ॥
सहिरण्यं नरो दत्त्वा न रोगैस्त्वभिभूयते
एवंविधं चेन्दुदिने ददत्सौभाग्यमाप्नुयात् ॥
काष्ठदानं भौमदिने शत्रुनाशमवाप्नुयात्
बोधे क्रीडनकानाञ्च दानं बालेषु शस्यते ॥
जीवाह्नि वस्त्रदानेन परां पुष्टिं समश्नुते
सर्वत्र रतिमाप्नोति शुक्रे दत्त्वा रतिस्त्रियम् ॥
अभ्यङ्गं सौरदिवसे दत्त्वा जीवितमाप्नुयात्
कृत्तिकासु सुवर्णस्य दानं बहुफलं स्मृतम् ॥
रक्तवस्त्रस्य रोहिण्यां सौम्यभे लवणस्य च।3.317.२०॥
कृसरस्य तथार्द्रायां चादित्ये रजतस्य च ॥
घृतस्य च तथा पुष्ये गन्धानामथ सर्पभे
तिलानाञ्च मघायोगे प्रियङ्गोर्भगदैवते ॥
आर्यम्णे चाप्यपूपानां सावित्रे पायसस्य च
चित्रायां चित्रवस्त्राणां सक्तूनां वायुदैवते ॥
ऐन्द्राग्ने चैव लोहानां मैत्रे माल्यफलस्य च
छत्रस्य च तथा शाके मूले मूलफलस्य च ॥
हिमस्य मधुयुक्तस्य दानमाप्ये महाफलम्
विश्वेश्वरेन्नदानस्य श्रवणे वसनस्य च ॥
धान्यस्य वासवे विप्रा वारुणे चौषधस्य च
अजपादे च बीजानां सस्यानां तदनन्तरे ॥
गोरसानां तथा पौष्णे स्नानानामथ चाश्विने ॥
तिलानाञ्च तथा दानं भरणीषु महाफलम् ॥
प्रतिपद्यथ पुष्पाणां द्वितीयायां घृतस्य च
तृतीयायां तु वस्त्राणां चतुर्थ्यां कनकस्य तु ॥
पञ्चम्यान्तु फलानां वै षष्ठ्यां स्नानस्य मानदाः
सप्तम्यां चाप्यपूपानामष्टम्याञ्च गुडस्य च ॥
कुल्माषस्य नवम्यान्तु दशम्यां रजतस्य च
एकादश्यां सुवर्णस्य द्वादश्यां वसनस्य च ॥
त्रयोदश्यां सुगन्धानां सितायास्तदनन्तरम्
दानञ्च परमान्नस्य पञ्चदश्यां महाफलम् ॥
वैशाखशुक्लपक्षे तु तृतीयायां द्विजोत्तमाः
यद्ददाति नरश्रेष्ठास्तत्तदक्षय्यमश्नुते ॥
विशेषेण तथा दानमक्षतानां महाफलम्
माघे श्रवणसंयुक्ता युक्ता स्याद्द्वादशी यदा ॥
तिलदानं महत्पुण्यं विनापि श्रवणेन तु
मासि भाद्रपदे शुक्ले नवम्यां द्विजपुङ्गवाः ॥
गोधूमभक्तां सगुडां दत्त्वा पुण्यमवाप्नुयात्
एतानि दानानि च कालयोगे प्रोक्तानि पुण्यानि मया द्विजेन्द्राः ॥
देयानि सर्वाणि विनापि योगाद्योगेन पुण्यं त्वधिकं निरुक्तम्
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कालयोगे दानविधिवर्णनो नाम सप्तदशाधिकत्रिशततमोऽध्यायः।
3.318
ऋषय ऊचुः ॥
व्रतं नक्षत्रसत्राख्यं सदानं कथयस्व नः ॥
सर्वधर्मभृतां श्रेष्ठ प्रत्यक्षामलदर्शन
हंस उवाच ॥
कृत्तिकासु महाभागाः पायसेन स सर्पिषा ॥
संतर्प्य ब्राह्मणान्साधूँल्लोकान्प्राप्नोत्यनुत्तमान्
रोहिण्यां प्रथितैर्मासैर्माषैरन्नेन सर्पिषा ॥
पयोनुपानं दातव्यं चानृणार्थं द्विजातये
दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते ॥
गच्छेत मानुषाँल्लोकान्स्वर्गवासमनुत्तमम्
आर्द्रायां कृसरं दत्त्वा तैलमिश्रमुपोषितः ॥
नरस्तरति दुर्गाणि क्षुरधारांस्तु पर्वतान्
पूपान्पुनर्वसौ दत्त्वा तथैवान्नञ्च शोभनम् ॥
यशस्वी रूपसंपन्नो बह्वन्नो जायते कुले
पुष्ये तु कनकं दत्त्वा कृतं वाकृतमेव च ॥
अनालोकेषु लोकेषु सोमवत्स विराजते
अश्लेषासु च यो रूप्यं वृषभं वा प्रयच्छति ॥
स सर्वभयनिर्मुक्तः शुभं चाप्यधिगच्छति
मघासु तिलपूर्णानि वर्णमानानि मानवः ॥
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते
फाल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः ॥
भक्ष्यं फाणितसंयुक्तं दत्त्वा सौभाग्यमृच्छति
घृतक्षीरसमायुक्तं विधिवत्षाष्टिकौदनम् ॥
उत्तराविषये दत्त्वा स्वगर्लोके महीयते
यद्यत्प्रदीयते दानं चोत्तराविषये नरैः ॥
महाफलमतीतञ्च भवतीति विनिश्चयः
हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः ॥
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान्
चित्रायां वृषभं दत्त्वा पुण्यगन्धांश्च मानवः ॥
चरत्यप्सरसां लोके रमते नन्दने वने
स्वातीष्वथ धनं दत्त्वा यदिष्टतममात्मनः ॥
प्राप्नोति लोकान्स शुभानिहैव च महद्यशः
विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् ॥
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंमितम्
पितॄंश्च देवान्प्रीणाति प्राप्य चानन्त्यमश्नुते ॥
न च दुर्गाण्यवाप्नोति स्वगर्लोकं च गच्छति
दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति ॥
नरकादींश्च स क्लेशान्न प्राप्नोतीति निश्चयः
अनुराधासु प्रावारं वस्त्रान्तरमुपोषितः ॥
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते
कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् ॥
ज्येष्ठायामृद्धिमिष्टाञ्च गतिमिष्टाञ्च गच्छति
मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः॥
स पितॄन्प्रीणयत्येव गतिमिष्टाञ्च गच्छति
अथ पूर्वास्वाषाढासु दधिपात्राण्युपोषितः ॥
कुले वृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे
प्रदाय जायते प्रेत्य कुले स बहुगोकुले ॥
उदकुम्भं ससर्पिष्कं प्रभूतं मधुफाणितम्
दत्त्वोत्तरास्वाषाढासु सर्वाँल्लोकान्समश्नुते ॥
दुग्धे त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम्
वर्म नित्यं मनीषिभ्यः स्वर्गलोके महीयते ॥
श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च
श्वेतेन याति यानेन स्वर्गलोकानसंवृतान् ॥
गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः
वस्त्ररश्मिनवं सद्यः प्रेत्य राज्यं प्रपद्यते ॥
गन्धाञ्छतभिषग्योगे दत्त्वा सागुरुचन्दनान्
प्राप्नोत्यप्सरसः लोकान्प्रेत्य गन्धांश्च शाश्वतान् ॥
पूर्वाभाद्रपदायोगे राजमाषान्प्रदाय च ॥
सर्वभक्ष्यफलोपेतं स वै प्रेत्य सुखी भवेत् ॥
औरभ्रं तूत्तरायोगे यस्तु मांसं प्रयच्छति
स पितॄन्प्रीणयत्येव प्रेत्य चानन्त्यमश्नुते ॥
कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति
स प्रेत्य कामानादाय दातारमुपतिष्ठते ॥
रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः
हस्त्यश्वरथसम्पन्नं वर्चस्वी जायते कुले ॥
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै ॥
गाः सुप्रसूताश्चाप्नोति नरः प्रेत्य यशस्तथा
नक्षत्रसत्त्रं कथितं मयैतद्यथेष्टलोकाभिगमाय पुंसाम् ॥
कृत्वा सकृन्नाकगतस्तु कल्पमास्ते मुखं देवपतिर्यथासौ
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु नक्षत्रसत्रविधानं नामाष्टादशाधिकत्रिशततमोऽध्यायः
3.319
॥ ऋषय ऊचुः ॥
भूय एव त्वमाचक्ष्व दानानां कालयोगतः ॥
फलं द्विजवरास्माकं प्रत्यक्षामलदर्शन
॥ हंस उवाच ॥ ॥
संप्राप्य चैत्रमासस्य शुक्लां पञ्चदशीं नरः ॥
चित्रं वस्त्रयुगं दत्त्वा सोपवासो द्विजातये
ब्राह्मणांश्चापरं विप्राः सौभाग्यं महदाप्नुयात् ॥
वैशाख्यां पौर्णमास्यान्तु ब्राह्मणान्सप्त पञ्च वा
क्षौद्रयुक्तैस्तिलैः कृष्णैर्वाचयेद्यदि वेतरैः ॥
प्रीयतां धर्मराजेति यद्वा मनसि वर्त्तते
यावज्जीवकृतात्पापात्तत्क्षणादेव मुच्यते ॥
तस्मिन्नेव तथा काले सखुरं कृष्णमार्गणम्
तिलैः प्रच्छाद्य वासोभिः सर्वरत्नैरलंकृतम् ॥
तपस्यन्ते च दातव्यो मही सवनकानना
कृष्णाजिने तिलान्कृत्वा हिरण्यमधुसर्पिषा ॥
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम्
सोपवासस्तथा ज्येष्ठे पूर्णे तु शशलक्ष्मणे ॥
उपानहौ तथा च्छत्रं दत्त्वात्यन्तसुखी भवेत्
आषाढ्यामन्नदानस्य प्राप्नोत्यन्नं नरो बहु ॥
जलधेनुप्रदानेन श्रावण्यां स्वर्गमाप्नुयात्
गोदानं प्रोष्ठपादे तु पौर्णमास्यां महाफलम् ॥
आश्वयुज्यं कांस्यपात्रां घृतपूर्णं द्विजातये
सुवर्णञ्च तथा दत्त्वा दीप्तिमांस्त्वभिजायते ॥
कार्तिक्यां चन्द्रवर्णाभमन्यवर्णमथापि वा
रत्नैर्गन्धैस्तथा धान्यैर्बीजैर्वस्त्रैस्तथैव च ॥
कृत्वा युक्तमथोक्षाणं दत्त्वा दीपान्समन्त्रतः
चन्द्रोदये नरो दत्त्वा सर्वपापैः प्रमुच्यते ॥
कान्तारे यममार्गे तु तेनासौ व्रजते सुखम्
सर्वाणि चास्य भोगानि तत्र चासौ प्रयच्छति ॥
मार्गशीर्षे तथा मासे पूर्णे शिशिरदीधितौ
महारजतयुक्तेन वाससा द्विज पुङ्गवान् ॥
आच्छाद्य कांस्यपात्रस्थं प्रस्थं कृत्वा समाहितः
लवणस्य तु मुख्यस्य चूर्णितस्य द्विजोत्तमाः ॥
दत्त्वा सुवर्णनाभन्तु तस्मिन्नेव द्विजातये
सौभाग्यरूपलावण्ययुक्तो भवति मानवः ॥
गौरसर्षपकल्केन पौष्यामुत्साहितो नरः
गव्यस्याज्यस्य कुम्भेन सोभिषिक्तस्त्वनन्तरम् ॥
विरूक्षितस्तथा स्नातः सर्वबीजौषधीजलैः
गन्धरत्नफलोपेतैर्घृतेन तदनन्तरम् ॥
स सुवर्णं मुखं दृष्ट्वा तत्प्रदद्याद्द्विजातये
घृतेन स्नपितं विष्णुं शक्त्या सम्पूजयेत्ततः ॥
घृतञ्च जुहुयाद्वह्नौ घृतं दद्याद्द्विजातये
कर्त्रे वस्त्रयुगं दद्यात्सोपवासः समाहितः ॥
कर्मणानेन धर्मज्ञाः पुष्टिमाप्नोत्यनुत्तमाम्
माघ्यां कृत्वा तिलैः श्राद्धं सर्वपापैः प्रमुच्यते ॥
स्वास्तीर्णं शयनं दत्त्वा फाल्गुन्यां ब्राह्मणस्य तु
रूपद्रविणसंयुक्तां भार्यां पक्षवतीं तथा ॥
नरः प्राप्नोति धर्मज्ञः पुष्टिमाप्नोत्यनुत्तमाम्
तथा नार्यपि भर्तारं नात्र कार्या विचारणा ॥
पौर्णमासीषु चैतासु मासर्क्षसहितासु च
एतेषामेव दानानां फलं दशगुणं भवेत् ॥
महत्पूर्वासु चैतासु फलमक्षय्यमश्नुते
द्वादश्यां चैत्रशुक्लस्य चित्रवस्त्रप्रदो नरः ॥
अक्षयं फलमाप्नोति नाकलोके च गच्छति
वैशाखमासे द्वादश्यां रुक्मदानात्तथैव च ॥
छत्रोपानहयोर्दानाज्ज्येष्ठे मासि द्विजोत्तमाः
स्वास्तीर्णं शयनं दत्त्वा प्रीणयेद्भोगिशायिनम् ॥
आषाढ शुक्लद्वादश्यां श्वेतद्वीपे महीयते
श्रावणे वस्त्रदानेन विष्णुलोके महीयते ॥
गोदः प्रयाति गोलोकं मासि भाद्रपदे द्विजाः
प्रीणयेदश्वशिरसश्चाश्वं दत्त्वा तथाश्विने ॥
विष्णुलोकमवाप्नोति कुलमुद्धरति स्वकम्
सरोमवस्त्रदानेन कार्तिके दिवमाप्नुयात ॥।
प्रदानं लवणानान्तु मार्गशीर्षे महत्फलम्
धान्यानाञ्च तथा पौषे दारुणं चाप्यनन्तरे ॥
फाल्गुने सर्वगन्धानां नात्र कार्या विचारणा।
भाग्यर्क्षसंयुता चैत्री द्वादशी स्यान्महाफला ॥
हस्तयुक्ताथ वैशाखी ज्येष्ठे तु स्वातिना तथा
ज्येष्ठायाञ्च तथाषाढे मूलोपेता च वैष्णवे ॥
तथा भाद्रपदे मासि श्रवणेन तु संयुता
आश्विने द्वादशी पुण्या भवत्याजर्क्षसंयुता ॥
कार्तिके रेवतीयुक्ता सौम्ये कृत्तिकया तथा
पौषे मृगशिरोपेता माघे चादित्यसंयुता ॥
फाल्गुने पुष्यसहिता द्वादशी पावना परा
नक्षत्रयुक्तास्वेतासु तथा दानमुपोषितः ॥
सर्वकामफलं ज्ञेयमनन्तं द्विजसत्तमाः
मेषसंक्रमणे भानोर्मेषदानं महाफलम् ॥
वृषसंक्रमणे दानं गवां प्रोक्तं तथैव च
शयनासनदानञ्च मिथुनोपगते रवौ ॥
कर्कप्रवेशे सक्तूनां सितया च तथैव च
गुडफाणितखण्डानां सितायाश्च तथा द्विजाः ॥
लवणाज्यफलानाञ्च तथा हरितकस्य च
तथा चैवोदकुंभानां दानं ज्ञेयं महाफलम् ॥
सिंहप्रवेशे पात्राणां तैजसानां तथैव च
कन्याप्रवेशे वस्त्राणां सुरभीणां तथैव च ॥
तुलाप्रवेशे धान्यानां बीजानामपि चोत्तमे
कीटप्रवेशे वस्त्राणां वेश्मनां दानमेव च ॥
धन्विप्रवेशे वस्त्राणां यानानाञ्च महाफलम्
मृगप्रवेशे दारूणां दानमग्नेस्तथैव च ॥
कुम्भप्रवेशे दानं तु गवामर्थे तृणस्य तु ॥
मीनप्रवेशे स्थानानां माल्यानामपि चोत्तमम्
दानान्यथैतानि मया द्विजेन्द्रा. प्रोक्तानि काले तु नरश्च दत्त्वा ॥
प्राप्नोति कामान्मनसा त्वभीष्टांस्तस्मात्प्रशंसन्ति महाप्रदानम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु द्वादशपौर्णमासीदानफलनिरूपणं नामैकोनविंशाधिकत्रिशततमोऽध्यायः
3.320
ऋषय ऊचुः ॥
पुण्ययज्ञक्रियाः प्रोक्ता ये नरा धनसंयुताः ॥
तथा मध्यमवृत्तानां दानानि विविधानि च
कथितान्यल्पवृत्तानां दानानि विविधानि च ॥
ये नरा वित्तरहितास्तेषां धर्मक्रियां वद
हंस उवाच ॥
उपवासक्रिया तेषां परमं धर्मकारणम् ॥
वित्तान्वितानाञ्च तथा प्रशस्ता सा महाफला
सायं प्रातस्तु भुञ्जानो नान्तरातूदकम्पिबन् ॥
षड्भिर्वर्षैर्नरो लोकं प्राप्नोति मनसेप्सितम्
शुभानामुत्तमं चैतद्धन्यं नित्यकृतं भवेत् ॥
यथेष्टलोकदं पुण्यं मानुष्येपि महाफलम्
उपवासं नरः कुर्वन्मासिमासि द्विजोत्तमाः ॥
उषित्वा सुचिरं लोके मानुष्ये जायते यदा
तदा भवति दीर्घायुर्धनवान्रूपसंयुतः ॥
पक्षेपक्षे तथा कुर्वन्द्विगुणं फलमश्नुते
मासेमासे त्रिरात्रन्तु यः कुर्यान्मानवोत्तमः ॥
गाणपत्यमवाप्नोति स्वर्गलोकपरिच्युतः
पक्षेपक्षे त्रिरात्रन्तु कृत्वा भवति पार्थिवः ॥
स्वर्गलोकात्परिभ्रष्टः सुचिरेण महाबलः
द्विजस्त्रिरात्रं कुर्वीत न तु शूद्रः कथञ्चन ॥
षष्ठकालाशनं तस्य तपः परमिहोच्यते
शूद्रस्त्रिरात्रं कुरुते विषये यस्य भूपतेः ॥
तस्य सीदति तद्राष्ट्रं व्याधिदुर्भिक्षतस्करैः
तपः कुर्वीत शूद्रस्तु चैकद्विदिवसान्तरम् ॥
यथाशक्ति द्विजश्रेष्ठास्तेन कामानुपाश्नुते
अतः परन्तु वर्णानां मासेमासे द्विजोत्तमाः ॥
एक कालाशनानान्तु शृणुध्वं फलमुत्तमम्
चैत्रन्तु नियतो मासं चैकभक्तेन यः क्षिपेत् ॥
सुवर्णमणिमुक्ताढ्ये कुले महति जायते
निरस्येदेकभक्तेन वैशाखं यो द्विजोत्तमः ॥
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत्
ज्येष्ठामूलं तु यो मासमेकभक्तेन वर्तयेत् ॥
ऐश्वर्यमतुलं श्रेष्ठं पुमांस्त्री वाभिजायते
आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः ॥
बहुधान्यो बहुधनो बहुपुत्रश्च जायते
श्रावणं नियतो मासमेकभक्तेन यः क्षिपेत् ॥
यत्र तत्राभिषेकेन युज्यते ज्ञातिवर्धनः
प्रोष्ठपादन्तु यो मासं यः कुर्यादेकभोजनम् ॥
धनाढ्यः स्फीतमतुलं चैश्वर्यं प्रतिपद्यते
तथैवाश्वयुजं मासमेकभक्तेन यः क्षिपेत् ॥
मेधावी वाहनाढ्यश्च बहुपुत्रश्च जायते
कार्तिकन्तु नरो मासं यः कुर्यादेकभोजनम ॥
शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते
मागर्शीर्षन्तु वै मासमेकभक्तेन यः क्षिपेत् ॥
कृषिभागी बहुधनो बहुधान्यश्च जायते
पौषमासन्तु विप्रेन्द्रा भक्तेनैकेन यः क्षिपेत्॥
सुभगो दर्शनीयश्च यशोभागी च जायते
माघन्तु नियतं मासमेकभक्तेन यः क्षिपेत् ॥
कृषिभागी बहुधनो धान्यवानभिजायते
भगदैवन्तु यो मासमेकभक्तेन यः क्षिपेत् ॥
श्रीसत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ॥
यथोक्तफलदाश्चैते वर्षैर्द्वादशभिः स्मृताः
यस्तु संवत्सरं पूर्णं चैकाहारो भवेत्सदा ॥
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः
तथा संवत्सरं पूर्णमेकान्तरितभोजनः ॥
यज्ञं बहुसुवर्णाख्यं ध्रुवमाप्नोति वै द्विजाः
अब्दमेकं तृतीयेह्नि भुंजानश्च तथा नरः ॥
वाजपेयस्य यज्ञस्य कथितं द्विजसत्तमाः
एककालं तु भुञ्जानस्त्वब्दमेकं तु पञ्चमे ॥
स्वर्गे द्वादशपद्मानि वर्षाणां स च मोदते
षष्ठेषष्ठे तथैवाब्दं त्वश्नानः प्रयतो नरः ॥
अष्टादशैव पद्मानि वर्षाणां दिवि मोदते
दिवसे सप्तमे चाब्दं भुञ्जानस्त्वेकभोजनम् ॥
षट्त्रिंशत्स तु पद्मानि वर्षाणां दिवि मोदते
अष्टमे दिवसे चाब्दं भुञ्जानः प्रयतः सदा ॥
पद्मानि नाके पञ्चाशद्वर्षाणां दिवि मोदते
यस्तु संवत्सरं भुङ्क्ते दशमे दशमेऽहनि ॥
कल्पमेकं स विप्रेन्द्र देववद्दिवि मोदते
एकादशे तु दिवसे यः प्राप्ते प्राप्नुते हविः ॥
शतकल्पद्वयं नाके मोदते देववद्दिवि
दिवसे द्वादशे यस्तु प्राप्ते वै प्राश्नुते हविः ॥
त्रीणि कल्पान्यसौ नाके भुङ्क्ते देवसुखान्वितः
त्रयोदशे तु दिवसे यः प्राप्ते प्राप्नुते हविः ॥
तस्य कल्पानि चत्वारि गतिर्नाके प्रकीर्तिता
चतुर्दशे तु दिवसे यः प्राप्ते प्राप्नुते हविः ॥
सप्त तस्य तु कल्पानि गतिर्नाके प्रकीर्तिता
संवत्सरं तु भुञ्जानो नरः पञ्चदशे हविः ॥
नाके वसति धर्मात्मा देशे कल्पान्यसंशयम्
अब्दमेकं तथाऽश्नानः पक्षे दिनयुतेन यः ॥
स तु कल्पशतं विप्रा देववद्दिवि मोदते
दिने सप्तदशे प्राप्ते यः प्राशेदेकभोजनम् ॥
स्वर्गे स मोदते विप्राः पञ्च कल्पशतानि च
अष्टादशे च दिवसे यः प्राशेदेकभोजनम् ॥
नाके कल्पे सहस्रं तु नरः कर्ताभिमोदते
एकोनविंशे दिवसे यो भुंक्ते चैकभोजनम् ॥
स तु कल्पसहस्रन्तु सार्धं नाके च मोदते
एककालं च भुञ्जानः प्राप्ते विंशतमे दिने ॥
कल्पानां तु सहस्रे द्वे नाकस्थः पूज्यते सुरैः
एकविंशे तु दिवसे यः कुर्यादेकभोजनम् ॥
त्रीणि कल्पसहस्राणि तस्य नाके गतिर्भवेत्
द्वाविंशे दिवसे प्राप्ते यो भुंक्ते चैकभोजनम् ॥
चत्वारि स च कल्पानां सहस्रं प्राप्नुयाद्दिवि
त्रयोविंशे च दिवसे यः प्राशेदेकभोजनम् ॥
पञ्च कल्पसहस्राणि स्वर्गस्थः स तु मोदते ॥
चतुर्विंशे तु दिवसे यः प्राशेदेकभोजनम् ॥
सप्त कल्पसहस्राणि नाकस्थः स तु मोदते
पञ्चविंशत्तमे चाह्नि यः प्राशेदेकभोजनम् ॥
दश कल्पसहस्राणि स्वर्गस्थः स तु मोदते
षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम् ॥
स तु कल्पसहस्राणि चतुर्विंशः नरो भवेत्
सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम् ॥
स तु कल्पसहस्राणि नाकस्थोपि च मोदते
अष्टाविंशे तु दिवसे यः प्राशेदेकभोजनम् ॥
स तु कल्पसहस्राणि चत्वारिंशत्सु मोदते
एकोनविंशे दिवसे यः प्राशेदेकभोजनम् ॥
स तु कल्पस्रहस्राणां पञ्चाशन्नाकगो भवेत्
यस्तु त्रिंशद्दिने प्राप्ते चाश्नीयादेकभोजनम् ॥
स तु कल्पसहस्राणां नाकस्थः पूज्यते शतम्
मासेमासे गते प्रायः प्राश्नीयादेकभोजनम् ॥
पौरुषं स दिनं नाके देववन्मोदते सदा
सर्वे व्रतास्तु कव्याय वर्षमेकं सुखावहाः ॥
वर्षे तु फलदाः प्रोक्ता नात्र कार्या विचारणा
स्नानं सर्वेषु कर्तव्यं कार्यो होमस्तथैव च ॥
न भोक्तव्यं तथा मासं व्रतस्य फलमश्नुते
आश्रित्य तीर्थं यदि वापि देवं व्रतान्यथैतानि महाफलानि ॥
कार्याणि नैतान्यधिकास्तु मासास्ततः परं नानशनं प्रदिष्टम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे मुनीन्प्रति हंसगीतासूपवासविधिवर्णनं नाम विंशत्यधिकत्रिशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0