विष्णुधर्मोत्तरपुराणम् · अध्याय 3.311.315
3.311
हंस उवाच ॥
नरस्त्वासनदानेन स्थानं सर्वत्र विन्दति ॥
शय्यादानेन चाप्नोति भार्यां ब्राह्मणसत्तमाः
दत्त्वा द्विजाय शयनं स्वास्तीर्णं सोत्तरच्छदम् ॥
कुले महति सम्भूतां रूपद्रविणसंयुताम्
तथा पक्षवतीं भव्यां प्राप्नोति वशगां तथा ॥
अनेनैव प्रदानेन भार्या पतिमवाप्नुयात्
वितानकप्रदानेन सर्वपापैः प्रमुच्यते ॥
छत्रदश्च तथा विप्रा नात्र कार्या विचारणा
छत्रं शतशलाकं तु दत्त्वैवातपवारणम् ॥
सर्वतापविनि र्मुक्तः स्वर्गलोके महीयते
याम्यं मार्गं तथा याति सुखेन द्विजसत्तमाः ॥
उपानहे तथा दत्त्वा श्लक्ष्णे स्नेहसमन्विते
रथमश्वतरी युक्तं त्रिदिवं प्रतिपद्यते॥
सर्वपापविनिर्मुक्तो याम्यमार्गं सुखं व्रजेत्
तालवृन्तप्रदानेन सर्वपापैः प्रमुच्यते ॥
पादुकानां प्रदानेन गतिमाप्नोति शोभनाम्
पादपीठप्रदानेन स्थानं सर्वत्र विन्दति ॥
स्थानमेव तथाप्नोति दण्डं दत्त्वा द्विजातये
यज्ञोपवीतदानेन वस्त्रदानफलं लभेत् ॥
उष्णीषदानस्य तथा फलमेतदुदाहृतम्
दन्तकाष्ठप्रदानेन सौभाग्यं महदाप्नुयात् ॥
मृत्तिकायाः प्रदानेन शुचिः सर्वत्र जायते
शौचस्नानोदकं दत्त्वा विरोगस्त्वभिजायते ॥
रोगनाशमवाप्नोति तथाभ्यङ्गप्रदः सदा
तथैवौषधदानेन रोगनाशमुपाश्नुते ॥
स्थानीयानि सुगन्धीनि दत्त्वा सौभाग्यमश्नुते
अनुलेपनदानेन रूपवानभिजायते ॥
कायाग्निदीप्तं प्राकाश्यं गतिञ्चैव तथोत्तमाम्
यस्तु संसाधनार्थाय ब्राह्मणाय प्रयच्छति ॥
स याति वह्निसालोक्यं शत्रुनाशं च विन्दति
तैजसानि तु पात्राणि दत्त्वा सलवणानि च ॥
पात्रतामेति कामानां लावण्यं चाप्नुयान्महत्
तैजसानि तु पात्राणि सतैलानि प्रयच्छतः ॥
आरोग्यमुत्तमं प्रोक्तं लावण्यमपि चोत्तमम्
तैजसानि तु पात्राणि समधूनि प्रयच्छतः ॥
लावण्यमुत्तमं प्रोक्तं सौभाग्यमपि चोत्तमम् ॥
नरश्चन्दनदानेन सर्वपापैः प्रमुच्यते ॥
तथैवागुरुदानेन यशसा भुवि राजते
सौभाग्यकारकं प्रोक्तं प्रदानं कुङ्कुमस्य तु ॥
तथा कर्पूरदानेन सर्वान्कामानवाप्नुयात्
मृगचर्मप्रदानेन यशसा भुवि राजते ॥
दत्त्वा जातीफलं विप्राः सफलां विन्दते क्रियाम् ॥
स्नानानां मुखवासानां धूपानां च प्रदायकाः ॥
लोके प्रयान्ति प्रियतां भवन्ति च सुगन्धिनः
दत्त्वा पूगफलान्विप्राः सफलां विन्दते क्रियाम् ॥
ताम्बूलस्य प्रदानेन सौभाग्यमपि विन्दति
समुद्रजानां भाण्डानां शङ्खादीनां प्रदायकः ॥
पात्री भवति कामानां यशसश्च न संशयः
कङ्कतस्य प्रदानेन परां वाचं प्रमुञ्चति ॥
शय्याप्रदानो लोकेषु तथा स्थानकरं परम्
अर्थिने यदभीष्टं स्यात्स्वल्पं वा यदि वा बहु ॥
तद्दत्त्वा पुण्यमाप्नोति राजसूयाश्वमेधयोः
किम्च्छिकैः पूजकैर्ब्राह्मणानां लोकं गत्वा ब्रह्मणो ब्राह्मणेभ्यः ॥
देवैर्विप्रैः पूज्यमानः सुखी स्यात्तस्माद्देयं प्रार्थितं ब्राह्मणेभ्यः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेवज्रसंवादे मुनीन्प्रति हंसगीतास्वनेकवस्तुदानप्रशंसावर्णनो नामैकादशाधिकत्रिशततमोऽध्यायः
3.312
॥ हंस उवाच ॥ ॥
नृवाहान्पुरुषो यस्तु द्विजे सम्यक्प्रयच्छति ॥
अश्वमेधफलं तस्य कथितं द्विजसत्तमाः
शिबिकायाः प्रदानेन वह्निष्टोमफलं तथा ॥
दासं कर्मकरं दत्त्वा गोसवस्य फलं लभेत्
स याति शक्रसालोक्यं यस्तु योधं प्रयच्छति ॥
यस्तु कर्मकरीं दासीं ब्राह्मणाय प्रयच्छति
लोकास्तु सुभगास्तस्य वसूनां समुदाहृताः ॥
तरुणीं रूपसम्पन्नां दासीं यस्तु प्रयच्छति
सोप्सरोभिर्मुदायुक्तः क्रीडते नन्दने वने ॥
उष्ट्रं वा गर्दभं विप्रा यो यच्छति द्विजातये
अलकां स समासाद्य यक्षेन्द्रैः सह मोदते ॥
दानानामुत्तमं प्रोक्तं प्रदानं तुरगस्य तु
वडवायाः प्रदानेन तथा बहुफलं स्मृतम् ॥
तुरङ्गं ये प्रयच्छंति सूर्यलोकं व्रजन्ति ते
यावन्ति तस्य रोमाणि तावद्वर्षशतानि च ॥
शुक्लं तुरङ्गमं दत्त्वा फलं दशगुणं लभेत्
गौर्यथा कपिला श्रेष्ठा तथैव तुरगस्य तु ॥
तुरङ्गमं सपर्याणं सालङ्कारं प्रयच्छति
पुण्डरीकफलं प्रोक्तं नात्र कार्या विचारणा ॥
चतुर्भिस्तुरगैर्युक्तं सर्वोपकरणैर्युतम्
रथं द्विजाये दत्त्वा राजसूयफलं लभेत् ॥
प्रदाय करिणीं सम्यगेतदेव फलं लभेत्
कुञ्जरस्य प्रदानेन स्वर्गलोके महीयते ॥
राजा भवति लोकेस्मिन्यशोविक्रमसंयुतः
सुवर्णकक्ष्यं मातङ्गं दत्त्वा विप्राय वै द्विजाः ॥
राजसूयाश्वमेधाभ्यां फलं विन्दत्यसंशयम्
चतुर्भिः कुञ्जरैर्युक्तं रथं दत्त्वा द्विजातये ॥
समग्रभूमि दानस्य फलं प्राप्नोत्यसंशयम्
भूमिः सशैला सवना सतोया दत्ता हि लोके भवतीह तेन ॥
इष्टाँश्च लोकान्पुरुषः प्रयाति सम्पूज्यमानस्त्रिदशैर्महात्मा
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु वाहनदानविधिवर्णनो नाम द्वादशाधिकत्रिशततमोऽध्यायः
3.313
हंस उवाच ॥
दानानामुत्तमं लोके वस्त्रदानं प्रकीर्तितम् ॥
वासो हि सर्वदैवत्यं सर्वप्रायोज्यमश्नुते
वस्त्रदाता सुवेशः स्याद्रूपद्रविणसंयुतः ॥
युक्तो लावण्यसौभाग्यैर्विरोगश्च तथा द्विजाः
नीलं रक्तं तथा जीर्णं न देयं ब्राह्मणस्य तु ॥
देयं वरञ्चाङ्गिरसं क्षौमं दत्त्वा बृहस्पतेः ॥३।
दत्त्वा कार्पासिकं वस्त्रं स्वर्गलोके महीयते ॥
दत्त्वा सरोमं तदपि फलं दशगुणं भवेत्
आविकं वसनं दत्त्वा भृगूणां लोकमाप्नुयात् ॥
छागं दत्त्वा चाङ्गिरसं क्षौमं दत्त्वा बृहस्पतेः
वसूनां लोकमाप्नोति कुशकौशेयवाससी। ॥
क्रिमिजञ्च ततो दत्त्वा सोमलोके महीयते
अग्निष्टोममवाप्नोति दत्त्वैव मृगलोमिकाम् ॥
दत्त्वा वल्कलजं वासो वसूनां लोकमाप्नुयात्
सुमेरकदल्यादीनां दत्त्वा चैव तथाजिनम् ॥
वारवाणं शिरस्त्राणं हस्तत्राणं तथैव च
पादत्राणं च ददतः पृथग्यफलं स्मृतम् ॥
वस्त्रदानं पवित्रन्तु पितॄणामपि तारणम्
कौसुंभरक्तं दत्त्वा तु सौभाग्यं महदाप्नुयात् ॥
दानात्कुङ्कुमरक्तस्य लावण्यं महदाप्नुयात्
रङ्गैरन्यैरनीलैश्च रक्तं दत्त्वा सुखी भवेत् ॥
यथायथा तु वस्त्रस्य भवतीह महर्घता
यथायथा शुभ्रता च तथा पुण्यफलं लभेत्॥
अन्येषामपि दानानामेतदेव प्रकीर्तितम्
सर्वदो वस्त्रदः प्रोक्तो यतः सर्वत्र वस्त्रवान् ॥
पूजामाप्नोति धर्मज्ञास्तद्धि तस्माद्विशिष्यते
वस्त्रदः सुचिरं कालं भुक्त्वा देवसुखान्दिवि ॥
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता
मानुष्यमासाद्य भवत्यरोगः शौचान्वितः सौख्यपरो विनीतः ॥
जनाभिरामश्च तथा सुवेशः पूज्यश्च लोके विदुषां सदैव
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे भार्कण्डेयवज्र संवादे मुनीन्प्रति हंसगीतासु वस्त्रदानप्रशंसावर्णनो नाम त्रयोदशाधिकत्रिशततमोऽध्यायः
3.314
हंस उवाच ॥
धान्यानामुत्तमं दानं कथितं द्विजपुङ्गवाः ॥
धान्येभ्योऽपि परं धान्यं रक्तशालिः प्रकीर्तितः
रक्तशालिं नरो दत्त्वा सूर्यलोके महीयते ॥
दत्त्वा तथा सुगन्धाँश्च गन्धर्वैः सह मोदते
कलमानां प्रदानेन शक्रलोके महीयते ॥
महाशालेः प्रदानेन वसूनां लोकमाप्नुयात्
काष्ठशालिं तथा दत्त्वा अलकायां प्रसीदति ॥
व्रीहीनां चान्यधान्यानां दानात्स्वर्गमवाप्नुयात्
यव प्रदानेन नरः शक्रलोके महीयते ॥
तथा गोधूमदानेन वसूनां लोकमाप्नुयात्
प्रियो भवति लोकस्य प्रियङ्गुं यः प्रयच्छति ॥
ददाति यस्तु श्यामाकं तस्य प्रीयन्ति देवताः
अन्येषां शूकधान्यानां प्रदानाभिरतो नरः ॥
स्वर्गलोकमवाप्नोति नात्र कार्या विचारणा
मुद्गदः शक्रलोकन्तु यमलोकन्तु माषदः ॥
यथेष्टं लोकमाप्नोति तथा विप्रास्तिलप्रदः
षष्टिकानां प्रदानेन लोकं नैरृतकं लभेत् ॥
सचीणचणकं दत्त्वा लोकं वारुणमाप्नुयात्
वायव्यञ्च मसूराणि राजमाषाणि धानदम् ॥
अन्येषां शिंबिधान्यानां दानात्स्वर्गमवाप्नुयात्
इक्षुमृद्वीकयोर्दानात्परं सौभाग्यमाप्नुयात् ॥
गुडप्रदस्तथारोग्यं सितादः काममीप्सितम्
फाणितस्य प्रदानेन परां तृप्तिमवाप्नुयात् ॥
खण्डप्रदश्च सौभाग्यं सर्वान्कामान्मधुप्रदः
घृतदो जीवितं दीर्घं चारोग्यं तैलदस्तथा॥
सर्वान्कामानवाप्नोति लवणं यः प्रयच्छति
सक्तुदस्तृप्तिमाप्नोति सिकतादस्तथा श्रियम् ॥
अकीर्तितानामन्येषां दानात्स्वर्गमवाप्नुयात्
पक्वान्नदानात्फलदं नृलोके शुष्कान्नमुक्तं हि तदाप्य यस्मात्॥
यजन्ति यज्ञैः सततं द्विजेन्द्रास्तस्माच्च तत्पुण्यतमं प्रदिष्टम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु धान्यदानप्रशंसा नाम चतुर्दशाधिकत्रिशततमोऽध्यायः
3.315
॥ हंस उवाच ॥
सर्वेषामेव दानानामन्नदानं विशिष्यते ॥
अन्नदानात्परं दानं न भूतं न भविष्यति
नात्र पात्रपरीक्षा स्यान्न कालनियमस्तथा ॥
न च देशः परीक्ष्योऽत्र देयमन्नं सदैव तत्
श्वभ्यश्च श्वपचेभ्यश्च पतितेभ्यस्तथैव च ॥
क्रिमिकीटपतङ्गानां देयमन्नं सदैव तु
अन्नं हि जीवितं लोके प्राणाश्चान्ननिबन्धनाः ॥
अन्नदः प्राणदो लोके सर्वदश्च तथान्नदः
भुक्त्वा तथा च यस्यान्नं सन्ततिः स्याद्द्विजोत्तमाः ॥
ज्ञातव्यं ब्राह्मणश्रेष्ठा यस्यान्नं तस्य सन्ततिः
दातव्यं सर्ववर्णेभ्यो भोक्तव्यं ब्राह्मणस्य च ॥
यस्यान्नेनोदरस्थेन ब्राह्मणो म्रियते द्विजाः
तान्तु योनिमवाप्नोति नात्र कार्या विचारणा ॥
भक्ष्यदः स्वर्गमाप्नोति शक्रलोकन्तु भोज्यदः
लेह्यदोप्सरसां लोकं वसूनामपि चोष्यदः ॥
वारुणं लोकमाप्नोति तथा पानप्रदो नरः
पानकानि सुगन्धीनि शीतलानि प्रयच्छतः ॥
सर्वकामसमृद्धः स्यान्नात्र कार्या विचारणा
परमान्नप्रदानेन तृप्तिर्भवति शाश्वती ॥
पिपासमानो म्रियते गवां लोके महीयते
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते ॥
श्रान्तायादृष्टपूर्वाय तस्य पुण्य फलं महत्
सहस्रपरिवेष्यन्तु नरकं स न गच्छति ॥
विमानेनार्कवर्णेन स्वर्गलोके महीयते
अपहन्यात्तथा विप्रा एकस्यार्त्तस्य यत्क्षुधा ॥
तेनासौ कर्मणा प्रेत्य महत्फलमुपाश्नुते
यद्यदिष्टतमं लोके यश्चास्य दयितं गृहे॥
तत्तद्गुणवते देयं तदेवाक्षय्यमिच्छता
दानान्यनेकानि फलञ्च तेषां बहुप्रकारं पुरुषः समीक्ष्य ॥
श्रद्धान्वितो ब्राह्मणसात्प्रकुर्याद्भूयस्तदेवाप्तमना नृलोके
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वन्नदानप्रशंसा नाम पञ्चदशाधिकत्रिशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0