भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.306.310

3.306.310.1

3.306
हंस उवाच॥
गावः पवित्रा मङ्गल्या गोषु लोकाः प्रतिष्ठिताः॥
तास्वायत्तानि यज्ञानि देवतातिथिपूजनम्

3.306.310.3

बलन्तुष्टिश्च पुष्टिश्च तथा श्राद्धक्रिया द्विजाः॥
नासौ सम्पन्नमश्नाति यस्य धेनुर्न विद्यते॥॥
तस्मात्सर्वप्रदानानां गवां दानमनुत्तमम् ॥
हीनाङ्गीं क्षीरपां वृद्धां दुग्धदोहां निरिन्द्रियाम्

3.306.310.4

व्याधितां विषमां व्यालां तथैव प्रपलायिनीम् ॥
मूल्यैस्तथाप्यसंशुद्धैर्हृताश्च द्विजपुङ्गवात्

3.306.310.5

न दातव्या स्मृता धेनुर्दत्त्वा नरकमाप्नुयात् ॥
ब्राह्मणो यस्तु कुरुते गोरसानां तु विक्रयम्

3.306.310.6

गवां च विक्रयं विप्रा विषमो यस्तथा गवाम्॥
अपात्रदोषयुक्तश्च न देया तस्य चाप्यथ

3.306.310.7

नैका बहूनां दातव्या न द्वयोर्द्विजपुङ्गवाः॥
सा तु विक्रयमापन्ना दातुर्नरकदायिनी

3.306.310.8

एकं पात्रमथासाद्य देयास्तु बहवः स्मृताः ॥
गवां प्रदाने यत्नेन परीक्ष्यो ब्राह्मणो भवेत्

3.306.310.9

यथाकथञ्चिद् दत्त्वा गां धेनुं वाऽधेनुमेव वा ॥
अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते

3.306.310.3.306.10

दत्त्वा वत्सतरीं विप्राः स्वर्गलोके महीयते ॥
गुर्विणीं च तथा दत्त्वा वसूनां लोकमश्नुते

3.306.310.11

प्रसूयमानां तां दत्त्वा भूमिदानफलं लभेत् ॥
स्रवंत्यां च तथा दत्त्वा नन्दने मोदते नरः

3.306.310.12

श्वेतां दत्त्वा सोमलोके रक्तां दत्त्वा विभावसोः ॥
कृष्णां दत्त्वा तथा याम्ये नीलां दत्त्वा च वारुणे

3.306.310.13

इन्द्रलोके तु शबलामिन्द्रलोके तु रोहिणीम् ॥
वातरेणुसवर्णां तु वायुलोके महीयते

3.306.310.14

धूम्रवर्णां तथा दत्त्वा वसूनां लोकमश्नुते ॥
आषाढेन सवर्णान्तु लोकं वारुणमाप्नुयात्

3.306.310.15

सुवर्णवर्णां कौबेरं ताम्रामाङ्गिरसं तथा ॥
पलालधूम्रवर्णाभां पितृलोकं तथैव च

3.306.310.16

शितिकण्ठाप्रदानेन वैश्वदेवमवाप्नुयात् ॥
गौरीं दत्त्वा भृगूणाञ्च वैराटाभां प्रजापतेः

3.306.310.17

पाण्डुकम्बलवर्णाभां रुद्राणां लोकमाप्नुयात् ॥
शुक्लबिन्दुचितां कृष्णां गन्धर्वैः सह मोदते

3.306.310.18

(कपिलाञ्च तथा दत्त्वा यथेष्टं लोकमाप्नुयात् ॥)
गावः प्रकृतिवर्णास्तु कपिलाः परिकीर्तिताः

3.306.310.19

कृतन्तु वर्णवैचित्र्यं पूर्वं तासान्तु शम्भुना ॥
यथा तु गङ्गा सरितां धेनूनां कपिला तथा

3.306.310.3.306.20

सायं प्रातश्च सततं होमकाले द्विजोत्तमाः ॥
गावो ददति वै हौम्यमृषिभ्यो नात्र संशयः

3.306.310.21

दुष्कृतानि दुरिष्टानि दुर्गाणि विषमाणि च ॥
तरन्ति चैव पापेभ्यो धेनुदानेन मानवाः

3.306.310.22

एकां गां दशगुर्दद्याद्दश दद्याच्च गोशती ॥
शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते

3.306.310.23

शतवर्षसहस्राणि तपस्तप्तं सुदुश्चरम् ॥
गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति

3.306.310.24

लोकेऽस्मिन्दक्षिणानाञ्च सर्वा गा वयसोत्तराः ॥
भवे तानि च लिंप्येम दोषेणातिपरन्तपाः

3.306.310.25

शकृत्तासां पवित्रार्थं कुर्वीरन्देवमानुषाः ॥
तथा सर्वाणि भूतानि स्थावराणि चराणि च ॥

3.306.310.26

प्रदातारश्च गोलोकान्गच्छेयुरिति मानदाः ॥
एतद्धनं ददौ तासां सर्वमेव पितामहः

3.306.310.27

सुरभिर्देवधेनुर्या तस्याः पुत्रत्वमागताः ॥
धर्मो वृषभरूपेण महादेवध्वजः स्मृतः

3.306.310.28

दशधेनुप्रदानेन यथेष्टाङ्गतिमाप्नुयात् ॥
शतञ्च दत्त्वा धर्मज्ञः शक्रलोकमुपागतः

3.306.310.29

कल्पावशेषं स सुखी मोदत्यप्सरसां गणैः ॥
दत्त्वा सहस्रं धेनूनां सर्वपापैर्विमुच्यते

3.306.310.3.306.30

उक्ष्णां च ये प्रयच्छन्ति शतेन सह यूथपम् ॥
सर्वपापविनिर्मुक्तास्ते प्रयान्त्यमरावतीम्

3.306.310.31

कल्पावशेषं त्रिदिवे सुखमुप्य नरोत्तमाः ॥
मानुष्ये धनसंयुक्ता भवन्ति सुखिनस्ततः

3.306.310.32

सहस्रेण गवां सार्धं ये प्रयच्छन्ति यूथपम् ॥
अलंकृतं यथाशक्त्या गोलोकं यान्ति ते नराः

3.306.310.33

उक्षाणमिन्द्रियोपेतं यस्तु दद्याद्द्विजातये ॥
दशधेनुफलं तस्य नात्र कार्या विचारणा

3.306.310.34

गोयुगं ये प्रयच्छन्ति सीरयूपयुतं द्विजाः ॥
सर्वकामसमृद्धस्य प्राप्नुवन्ति फलं नराः

3.306.310.35

गोभिश्चतुर्भिः संयुक्तं रथं दत्त्वा द्विजातये ॥
धान्यैर्वस्त्रैर्युतं शक्त्या शक्रलोकं व्रजन्ति ते

3.306.310.36

मानुष्यमासाद्य तथा भवन्ति वसुधाधिपाः ॥
शकटस्य प्रदानन्तु विना गोभिर्महाफलम् ॥

3.306.310.37

विशेषेण महाभागास्तस्य गोभिर्युतस्य च ॥
ससस्यं शकटं दत्त्वा नाकलोकं महीयते

3.306.310.38

दत्त्वा तु धेनुं होमार्थे ब्राह्मणायाहिताग्नये ॥
गोदानफलमाप्नोति होमदानफलं तथा

3.306.310.39

स्नपनार्थं तथा दत्त्वा धेनुं रुद्रसुरालये ॥
रुद्रलोकमवाप्नोति कुलञ्चैव समुद्धरेत् ॥

3.306.310.3.306.40

दत्त्वा सचैलं वृषभं महादेवालये नरः ॥
रुद्रलोकमवाप्नोति कुलमुद्धरते तथा

3.306.310.43

धेनूनां कपिला श्रेष्ठा वृषभः श्वेत उच्यते ॥
श्वेतन्तु वृषभं दत्त्वा फलस्यानन्त्यमश्नुते

3.306.310.42

दधिक्षीरहितार्थाय वासुदेवसुरालये ॥
दत्त्वा गां मधुपर्कार्थं चानन्तं फलमाप्नुयात्

3.306.310.43

।
गोप्रदानरता यान्ति गोलोकं मानवोत्तमाः ॥
सहाप्सरोभिर्मुदिता विमानवरमास्थिताः

3.306.310.44

अपामधस्ताल्लोको यो तस्योपरि महीधराः ॥
नागानामुपरिष्टाद्भूः पृथिव्युपरि मानवाः

3.306.310.45

मनुष्यलोकादूर्ध्वन्तु खगानां गतिरुच्यते ॥
आकाशस्योपरि रविर्द्वारं स्वर्गस्य तत्स्मृतम् ॥

3.306.310.46

देवलोकः परस्तस्माद्ब्रह्मलोकस्ततः परम्॥
तत्रोपरि गवां लोको विष्णुलोकस्ततः परम्

3.306.310.47

एकस्त्वधो दुष्कृतिनां कर्मिणां पृथिवी मता॥
ब्राह्मे तपसि युक्तानां ब्रह्मलोकः सनातनः

3.306.310.49

गवामेव हि गोलोको दुरारोहा हि सा गतिः ॥
एकान्तिनो विष्णुभक्ता विष्णुलोकं व्रजन्ति ते । ४८ ॥
गोप्रदानरता यांति गोलोकं सर्वकामदम् ॥
तत्र कामफला वृक्षा नद्यः पायसकर्दमाः

3.306.310.3.306.50

सुवर्णसिकताश्चान्या विमलाम्बुयुताः शुभाः ॥
यथाकामेप्सितास्तत्र भवन्ति शुभकर्मिणाम्

3.306.310.51

देशा मनोहराः शुभ्रा देवारामविभूषणाः ॥
दिव्येन नृत्यगीतेन वादित्रेण मनोहराः

3.306.310.52

तत्रेप्सितानां कामानामाप्तिर्भवति नित्यदा ॥
हेमशृङ्गीं रूप्यखुरां मुक्तालांगूलभूषणाम्

3.306.310.53

अहताम्बरसंवीतां तथा कांस्योपदोहिनीम् ॥
त्रिरात्रं स्थंडिले सुप्त्वा त्रिरात्रं गोरसाशनः

3.306.310.54

तृप्तान्तु तर्पिते दत्त्वा वाससा संवृतां द्विजाः ॥
सदक्षिणां महाभागास्त्रिरात्रं गोरसैस्ततः

3.306.310.55

प्राणसंधारणं कृत्वा गवां लोके महीयते ॥
यावन्ति धेनुरोमाणि तावद्वर्षाणि मानवः

3.306.310.56

दत्तैवं कपिलां विप्राः प्राप्नोत्यभ्यधिकं फलम् ॥
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम्

3.306.310.57

तत्रैककालमश्नन्तो द्वितीयादशनान्नरः ॥
यथोक्तविधिना दद्यात्क्रीत्वा तु कपिलां नरः

3.306.310.58

सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥
गवां लोकमवाप्नोति कुलमुद्धरति स्वकम्

3.306.310.59

अलंकृतां ततो दत्त्वा गोदानफलमाप्नुयात् ॥
अजामलंकृतां दत्त्वा वह्निलोके महीयते

3.306.310.3.306.60

तदेव लोकमाप्नोति दत्त्वाजं विधिवन्नरः ॥
वारुणं लोकमाप्नोति दत्त्वा च महिषीं नरः

3.306.310.62

महिषस्य प्रदानेन याम्ये लोके महीयते ॥
वारुणं लोकमाप्नोति दत्त्वोरभ्रं नरोत्तमः ॥ ६१।
अविप्रदाता शतधा तदेव फलमश्नुते ॥
आरण्यपशुदानेन वायुलोके महीयते

3.306.310.63

एतदेव फलं प्रोक्तं प्रदानेन च पक्षिणाम् ॥
शस्त्रपिण्डकि जालादिरुदकादानतस्तथा

3.306.310.64

गोरसानां प्रदानेन तृप्तिमाप्नोत्यनुत्तमाम् ॥
तत्र वाश्वयुजे मासे यस्तु दद्याद्द्विजातिषु

3.306.310.65

आरोग्यं महदाप्नोति यत्रयत्राभिजायते ॥
तथा दध्नः प्रदानेन मङ्गलान्याप्नुते सदा

3.306.310.66

क्षीरदस्तृप्तिमाप्नोति सर्वदुःखैर्विमुच्यते ॥
क्षीरेण स्नपनं कृत्वा हरस्य प्रयतो नरः

3.306.310.67

मनोऽभितापनिर्मुक्तो रुद्रलोके महीयते ॥
परमान्नप्रदानेन कामानाप्नोति शाश्वतान्

3.306.310.68

मासि मासि तु रेवत्यां ब्राह्मणान्घृतपायसम् ॥
सदक्षिणं भोजयित्वा रूपमाप्नोत्यनुत्तमम्

3.306.310.69

आज्यन्तेजः समुद्दिष्टं चाज्यं पापहरं परम् ।
आज्यं सुराणामाहारश्चाज्ये लोकाः प्रतिष्ठिताः

3.306.310.3.306.70

आज्येन लिङ्गस्नपनं नरः कृत्वा तु शूलिनः ॥
सर्वदुःखविनिर्मुक्तो रुद्रलोके महीयते

3.306.310.72

अलक्ष्मीशमनं प्रोक्तं घृतस्नानं तथा द्विजाः ॥
कल्यमुत्थाय यो गव्यघृते मुखमथात्मनः । ७१ ॥
पश्यते स जहात्येव कृत्वा पापमहर्निशम् ॥
अलक्ष्मीर्नश्यते चास्य क्षिप्रमेषा करीषिणी

3.306.310.73

घृतदानान्नरो याति स्वर्गलोकमसंशयम् ॥
मासे चाश्वयुजे नित्यं घृतं यस्तु प्रयच्छति

3.306.310.74

कल्यमुत्थाय विप्रेभ्यः प्रीणयेच्च तथाश्विनौ ॥
स रूपं महदाप्नोति तथा रोगैश्च मुच्यते ॥
एवं महाफलं दानं गोरसानां तथा गवाम्

3.306.310.75

प्रयच्छते यः कपिलां सचैलां कांस्योपदोहां कनकाग्रशृङ्गीम् ॥
तैस्तैर्गुणैः कामदुघा च भूत्वा नरं प्रदातारमुपैति सा गौः

3.306.310.76

यावन्ति रोमाणि भवन्ति धेन्वास्तावत्फलं प्राप्नुते गोप्रदाता ॥
पुत्रांश्च पौत्रांश्च कुलञ्च सर्वमासप्तमं तारयते परत्र

3.306.310.306

इति श्रीविष्णुधर्मोत्तरे तृतीये खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु गोदानफलनिरूपणो नाम षडधिकत्रिशततमोऽध्यायः

3.306.310.1

3.307
हंस उवाच ॥
घृतधेनुप्रदानञ्च निबोधत द्विजोत्तमाः ॥
गव्यस्य सर्पिषः कुम्भं पूर्णन्तु परिकल्पयेत्

3.306.310.2

कलशञ्च तथा पूर्णन्तस्या वत्सं प्रकल्पयेत् ॥
कांस्यापिधानसच्छन्नसितवस्त्रयुतन्तथा

3.306.310.3

हिरण्यगर्भौ कर्तव्यावनुलिप्तौ च बाह्यतः ॥
इक्षुयष्टिमयान्पादान्खुरान्रूप्यमयाँस्तथा

3.306.310.4

सौवर्णे चाक्षिणी कार्ये शृङ्गे चागुरुकाष्ठजे ॥
सप्तधान्यश्च कर्तव्ये तस्य पार्श्वे पृथक्कृते

3.306.310.5

तस्य पट्टं च कर्तव्यं कम्बलं च द्विजोत्तमाः ॥
कुर्यात्तुरुष्करं दूरे प्राणे हेममयांस्तनान्

3.306.310.6

तद्वच्छर्करया जिह्वां गुडक्षीरमयं मुखम् ॥।
क्षौमसूत्रेण लांगूलं रोमाणि सितसर्षपैः

3.306.310.7

ताम्रपत्रमयं पृष्ठं कुर्याच्छ्रद्धासमन्वितः ॥
एतद्विरचनं कृत्वा घृतक्षीराभिषेचनैः

3.306.310.8

हरिर्घृतार्चिषेत्येवं नाम्ना सम्पूजयेद्विभुम् ॥
ततस्तु गन्धपुष्पान्नधूपवस्त्रादिभिर्नरः

3.306.310.9

घृतेन दीपं दद्याच्च तथैव च घृतं दिशः ॥
होमं विप्रा यदा धेनुं दद्याद्विप्राय शक्तितः

3.306.310.3.307.10

घृताची प्रीयते विप्रं कल्पयित्वा घृतार्चिषम् ॥
एकरात्रञ्च तां दत्त्वा घृताहारी भवेन्नरः ॥

3.306.310.11

विमुक्तः सर्वपापेभ्यो लोकमाप्नोति शाश्वतम् ॥
अनेन विधिना स्नात्वा सोपवासो नरः शुचिः

3.306.310.12

सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥
विमानेनार्कवर्णेन गवां लोके महीयते

3.306.310.13

घृतक्षीरवहा सद्यो यत्र पायसकर्दमाः ॥
यत्र कामफला वृक्षा यत्र सिद्धिस्तु मानसी

3.306.310.14

गन्धर्वाप्सरसां यत्र सततं गीतनर्तनम् ॥
तत्रास्ते सुचिरं लोके यावदिन्द्राश्चतुर्दश

3.306.310.15

मानुष्यमासाद्य भवत्यरोगः शीलेन रूपेण धनेन युक्तः ॥
मनोभिरामः प्रमदाप्रियश्च धनान्वितः सर्वसुखोपपन्नः

3.306.310.307

इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेय वज्रसंवादे मुनीन्प्रति हंसगीतासु घृतधेनुकल्पवर्णनो नाम सप्ताधिकत्रिशततमोऽध्यायः

3.306.310.1

3.308
॥ हंस उवाच ॥
तिलधेनुं प्रवक्ष्यामि सर्वपापभयापहाम् ॥
धेन्वाकारान्तु तां कुर्यादाविके कम्बले बुधः

3.306.310.2

तिलषोडशभिः प्रस्थैश्चतुर्भिर्वत्समेव तु ॥
तिलप्रसारणं कुर्याद्धेन्वा धेनुप्रमाणतः

3.306.310.3

ततस्तु रचयेद्धेनुं रत्नैर्वक्ष्याम्यहं द्विजाः ॥
हेमशृङ्गीं रूप्यखुरां गन्धघ्राणवतीं शुभाम्

3.306.310.4

मिष्टान्नजिह्वां कुर्वीत गुडास्यां सूत्रकम्बलाम् ॥
इक्षुपादां ताम्रपृष्ठां कुर्यान्मुक्ताफलेक्षणाम्

3.306.310.5

प्रशस्तपत्रश्रवणां फलदन्तवतीं शुभाम् ॥
स्रग्दामपुष्पां कुर्वीत नवनीतस्तनान्विताम्

3.306.310.6

फलैमर्नोहरैर्भक्ष्यैर्मणिमुक्ताफलान्विताम् ॥
शुभ्रवस्त्रयुगच्छन्नां चारुच्छत्रसमन्विताम्

3.306.310.7

कांस्योपदोहनां कृत्वा वासुदेवन्तु पूजयेत् ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा

3.306.310.8

जुहुयाच्च तिलानेव नाम्ना तस्यैव मानवः ॥
तमेव प्रीणयेद्दद्याद्धेनुन्तामाहिताग्नये

3.306.310.9

त्रिरात्रं यस्तिलाहारस्तिलधेनुं प्रयच्छति ॥
दत्त्वैकरात्रञ्च पुनस्तिलानत्ति द्विजोत्तमाः

3.306.310.3.308.10

चान्द्रायणादभ्यधिकं शस्तन्तत्तिलभक्षणम् ॥
सर्वपापविनिर्मुक्तः पितरं सपितामहम्

3.306.310.11

तस्यापि पितरं चैव तारयेद् दुष्कृतान्नरः ॥
आत्मानं पुत्रपौत्रांश्च प्रपौत्रमपि तारयेत्

3.306.310.12

सुहृदं वाप्यथोद्दिश्य तिलधेनुप्रदो नरः ॥
तारयेद् दुष्कृतात्तञ्च यमुद्दिश्य प्रयच्छति

3.306.310.13

यश्च गृह्णाति विधिवद्दीयमानाञ्च पश्यति ॥
सोऽपि पापविनिर्मुक्तः स्वर्गलोके महीयते

3.306.310.14

महापातकसंयुक्तो युक्तो यश्चोपपातकैः ॥
तिलधेनुप्रदानेन सोऽपि पावनमाप्नुयात्

3.306.310.15

सलोकमासाद्य नरो वसूनान्तत्रापि भुक्त्वा त्रिदशेन्द्रभोगान्॥
मानुष्यमासाद्य भवत्यरोगो धनान्वितो रूपसुखोपपन्नः

3.306.310.308

इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु तिलधेनुदानविधिवर्णनो नामाष्टोत्तरत्रिशततमोऽध्यायः

3.306.310.1

3.309
हंस उवाच ॥
जलधेनुं प्रवक्ष्यामि प्रीतये जलशायिनः ॥
जलकुम्भं द्विजश्रेष्ठाः सुवर्णरजतान्वितम्

3.306.310.2

कल्पयेद्रत्नगर्भञ्च स्थापयेत्तं यवोपरि ॥
सर्वधान्यैस्तथा ग्राम्यैः समन्तात्परिवारयेत्

3.306.310.3

सितवस्त्रयुगच्छन्नं दूर्वापल्लव शोभितम् ॥
कुष्ठमांसीमुरोशीरवालुकामलकैर्युतम्

3.306.310.4

प्रियङ्गुपत्रसहितं सितयज्ञोपवीतिनम् ॥
सच्छत्रोपानहञ्चैव सोष्णीषं परिकल्पयेत्

3.306.310.5

तिलपात्रैर्युतं कृत्वा सहिरण्यैश्चतुर्दिशम् ॥
दध्योदनयुतेनाथ पात्रेण स्थगितं मुखे

3.306.310.6

कल्पयेदेवमेवन्तु वारिधानीं तु वत्सकम् ॥
उपोषितः समभ्यर्च्य देवेशं जलशायिनम्

3.306.310.7

पुष्पधूपोपहारैस्तु यथाविभवमाश्रितः ॥
अहताम्बरवीताय दद्याद्विप्राय भक्तिमान्

3.306.310.8

जलशायी जगद्योनिः प्रीयतां मम केशवः ॥
इति चोच्चार्य तं दद्यात्प्रीणयेच्च द्विजोऽपि तम्

3.306.310.9

अहोरात्रोषितो दद्याद्यथाविधि मयेरितम् ॥
अपक्वान्नाशिना स्थेयमहोरात्रमतः परम्

3.306.310.3.309.10

अनेन विधिना दत्त्वा जलधेनुं द्विजोत्तमान् ॥
सर्वाह्लादमवाप्नोति कामानाप्नोति शाश्वतान्

3.306.310.11

मोक्षमाप्नोति सर्वेभ्यस्तपोभ्यः स तथा नरः ॥
सौभाग्यं महदाप्नोति रूपञ्च परमं तथा

3.306.310.12

पुरुषः स तथा याति यस्य यस्य च दर्शनम् ॥
करोति परमाह्लादं तस्य तस्य द्विजोत्तमाः

3.306.310.13

नित्याभितृप्तो भवति तथैव च निरामयः ॥
सर्वबाधाप्रशमनं प्राप्नोति गतकल्मषः ॥

3.306.310.14

वारुणं लोकमाप्नोति सकृद्दाता द्विजोत्तमः ॥
दत्त्वा तामसकृद्विप्रा लोकमाप्नोति वैष्णवम्

3.306.310.15

आह्लादहेतोः परमं पवित्रं दानं मयेदं कथितं द्विजेंद्राः ॥
धन्यं यशस्यं दुरितापहारि कामप्रदं लोकहितं प्रशस्तम्

3.306.310.309

इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु जलधेनुवर्णनो नाम नवोत्तरत्रिशततमोऽध्यायः

3.306.310.1

3.310
हंस उवाच ॥
सुवर्णमुत्तमं रत्नं धनानामपि चोत्तमम्॥
लोहानामुत्तमञ्चैव सर्वेषामपि चोत्तमम्

3.306.310.2

अग्नेरपत्यं प्रथमं पवित्रं मङ्गलं परम्॥
धारणात्सर्वपापघ्नं दातुस्त्रिदशलोकदम्

3.306.310.3

मुकुटैः कुण्डलैर्हारैः केयूरैरङ्गदैस्तथा॥
धार्यते यत्सदा देवैः पवित्रत्वाद्द्विजोत्तमाः

3.306.310.4

जाम्बूनदं तद्देवानामिन्द्रगोपकसन्निभम् ॥
पितॄणाञ्चन्द्ररश्म्याभं दैत्यानां शबलोपमम्

3.306.310.5

नागानां तच्छुकाभं स्यान्नारीणां पीतमुच्यते ॥
दत्त्वा कृष्णलमात्रन्तु नरः पापात्प्रमुच्यते

3.306.310.6

दत्त्वा च माषकं तस्य पुण्यं फलमुपाश्नुते ॥
सुवर्णमाषकं दत्त्वा सूर्यस्योदयनं प्रति

3.306.310.7

हुत्वाग्निं सर्वपापेभ्यो मोक्षमाप्नोत्यसंशयम् ॥
त्रेताग्निव्रतमेतत्तु कीर्तितं तस्य नित्यदा

3.306.310.8

दिनमध्यगते सूर्ये हुत्वाग्निं यः प्रयच्छति ॥
तस्याग्निनित्यदाने च महत्फलमुदाहृतम्

3.306.310.9

सूर्यस्यास्तमये वह्निं हुत्वा तद्वै प्रयच्छति ॥
पुण्यं महत्समाप्नोति नित्यदानेन वै द्विजाः

3.306.310.3.310.10

त्रिसन्ध्यं कनकं यस्तु हुत्वा वह्निं प्रयच्छति ॥
न स लिप्येत पापेन पद्मपत्रमिवाम्भसा

3.306.310.11

सकृत्कृष्णलदानेन स्वर्गे वर्षं सुखी वसेत् ॥
तथा च पञ्चवर्षाणि स्वर्गे दत्त्वैव माषकम्

3.306.310.12

यः सुवर्णं सुवर्णस्य ब्राह्मणाय प्रयच्छति ॥
निर्दोषः स्यात्स नाके तु मोदत्यब्दशतं ध्रुवम्

3.306.310.13

आत्मतुल्यं सुवर्णस्य यः प्रयच्छति वै द्विजाः ॥
सर्वपापविनिर्मुक्तो यथेष्टाङ्गतिमाप्नुयात्

3.306.310.14

ब्रह्मघ्नो वा सुरापो वा स्तेनो वा गुरुतल्पगः ॥
सर्वपातकयुक्तोऽपि तेन दानेन मुच्यते

3.306.310.15

श्रद्धानामुत्तमञ्चैतद्दानानामुत्तमोत्तमम् ॥
रुक्मं दत्त्वा ब्राह्मणाय सुखी सर्वत्र जायते

3.306.310.16

चिरान्नाकपरिभ्रष्टो रूपसौभाग्यसंयुतः ॥
तासां कुले तु सुस्फीते गुणैः सर्वैर्युतो नरः

3.306.310.17

रुक्मपात्रप्रदानेन पुत्री भवति मानवः ॥
सर्वेषामेव कामानां यशसस्त्रिदिवस्य च

3.306.310.18

रूप्यदो रूपमाप्नोति भोगमाप्नोति ताम्रदः ॥
लोहारकूटयोर्दानात्कुप्यमाप्नोत्यसंशयम्

3.306.310.19

त्रपुसीसकयोर्दानाद्वह्निवृद्धिमवाप्नुयात् ॥
यथेष्टं लोहपात्रञ्च यः प्रदद्याद्द्विजातये

3.306.310.3.310.20

पात्रं भवति कामानां विशेषश्चास्य लोहतः ॥
शिल्पभाण्डानि यो दद्याल्लोहानि विधिवद्द्विजाः

3.306.310.21

विद्यादानफलं तस्य कथितं नात्र संशयः ॥
चर्मदाता नरो नित्यं रक्षां समधिगच्छति

3.306.310.22

आयुधानां प्रदानेन रिपुनाशमवाप्नुयात् ॥
राजलिङ्गप्रदानेन राजा भवति भूतले

3.306.310.23

रत्नानां च प्रदानेन राजैवेह प्रजायते ॥
रत्नदानस्य यल्लोकं तद्भुक्त्वा सुचिरं द्विजाः

3.306.310.24

वज्रदः शक्रलोकन्तु पद्मरागप्रदो रवेः ॥
सद्यो मरकतं दत्त्वा विष्णुलोके महीयते

3.306.310.25

मुक्ताफलप्रदानेन वारुणं लोकमश्नुते ॥
वैदूर्यस्य प्रदानेन द्वीपानां सप्त मोदते

3.306.310.26

रत्नान्यन्यानि दत्त्वा च राजराजस्य च द्विजाः ॥
सर्वेषामेव रत्नानां कनकं श्रेष्ठमुच्यते

3.306.310.27

धारणं कीर्तनं दानं कनकस्य प्रशस्यते ॥
दुःस्वप्रशमनं दानं दुरिष्टस्य च नाशनम्

3.306.310.28

परं पापहरं ज्ञेयमलक्ष्मीशमनं तथा ॥
दत्त्वा सुवर्णं लोकेषु यथेष्टेषु च मोदते

3.306.310.3.310.30

विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥
देवरामागणाढ्येन कामगेन विहायसा॥॥।
भुक्त्वा दिवि चिरं भोगान्मानुष्ये सुखमाप्नुयात् ॥
अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी ब्रह्मसुताश्च गावः ॥
सर्वं हि दत्तं भवतीह तेन यः काञ्चनं गाञ्च महीञ्च दद्यात्

3.306.310.310

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु सुवर्णदानविधिनिरूपणो नाम दशाधिकत्रिशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc